TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथ द्वादशोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


अथ द्वादशोsध्याय:
नामधारक उवाच
गतेपि भगवत्यंग कृष्णावेणीतटाश्रमात् ।
कस्मात्तत्रैव भजतां कार्यसिद्धि: कुतो वद ॥१॥
सिद्ध उवाच
गतिस्थित्यासनस्वप्ना न कदापि चिदात्मनि ।
लीलेयं मानुषी तस्य नरानुकृतिकारिण: ॥२॥
भाव्यतेजो भावनया यद्वत्तद्वद्विभात्यसौ ।
एवं यद्भावनात्रेदृक्तादृग्जागर्ति तत्र स: ॥३॥
योगिनीवरदानादि यैयैर्गङ्गानुजाच्छ्रुतं ।
ते ते भक्त्याभजंस्तत्र तं स तत्कामदोभवत् ॥४॥
श्रृण्वेवं सति तत्रत्या मृतापत्यत्वदु:खिता ।
काचिद्द्विजसती विप्रान्स्वस्त्यर्थं शरणं ययौ ॥५॥
प्रपन्नां प्रेक्ष्य तां दीनां निजभक्तिविधित्सया ।
देवप्रेरितधी: कश्चित्तद्दैवं भूसुरोब्रबीत् ॥६॥
मृतापत्यात्वदोषांस्तु श्रृणु साध्वि पुरार्जितान् ।
मृतापत्यत्वादिदोषा: प्रायश: प्रेतहेतव: ॥७॥
ब्रह्महा भ्रूणहा वापि गोध्नोश्वघ्नोपरार्थहृत् ।
ब्रह्मस्वात्स्वर्णहा पापी लभेज्जन्मांतरे त्विदं ॥८॥
लोहाश्मदारुचूर्णानि प्रयत्नाज्जरयेत्पुमान् ।
ब्रह्मस्वं त्रिषु लोकेषु क: कथं जरयिष्यति ॥९॥
हृतस्वार्थाभिलाषेण चेन्मृतो ब्राह्मण: स तु ।
गत्वा पिशाचतां स्वार्थी सदा स्याद्धर्तृवंशहा ॥१०॥
त्वया भवांतरे साध्वि हृतं शौनकगोत्रिण: ।
द्रव्यं विप्रस्य सोर्भांस्ते भूत्वा प्रेतो निहंत्युत ॥११॥
भोगादेव क्षय: साध्वि नान्यथारब्धकर्मण: ।
तस्मात्प्रारब्धजफलं भुंक्ष्व कोत्र निवारक: ॥१२॥
तच्छ्रुत्वा कर्णशूलाभं त्रस्ताचित्ताब्रवीद्द्विजं ।
भो ब्रह्मन्मानुगृण्हीष्व मुक्त्युपायमुपादिश ॥१३॥
विप्र उवाच
प्रेतौर्ध्वदेहिकं कर्म प्रायश्चित्तपुर:सरम् ।
कारयित्वांग भर्त्रा त्वं मासमात्रं व्रतं चर ॥१४॥
कृष्णापंचनदीयोगे स्नात्वा श्रीगुरुपादुकां ।
उदुम्बरं चाष्टतीर्थस्नानपूर्वं समर्चय ॥१५॥
ब्राह्मणान्भोजयित्वाथ शतद्रव्यं द्विजातये ।
देहि शौनकगोत्राय शुद्धिस्तेनैव ते सति ॥१६॥
॥ ब्राह्मण्युवाच ॥
शतद्रव्यं कुतो लभ्यं मासमात्रं करोम्यहं ।
सद्गुरोरर्चनं भक्त्या स मां पायाद्भयाद्धरि: ॥१७॥
इति निश्चित्य सा पत्या यथानिर्दिष्टमाचरत् ।
दिनत्रयांतरे स्वप्ने तस्या विप्रपिशाचक: ॥१८॥
ब्राह्मणीं भीषयित्वा तां ययाचे द्रव्यमात्मन:
भीतोदुम्बरमूले सा ददर्श श्रीगुरुं हरिं ॥१९॥
तां च तं तादृशं दृष्ट्वा पिशाचं प्राह सद्गुरु: ।
कस्त्वं पिशाचरूपेण सती खेदयसेsधम ॥२०॥
॥ पिशाच उवाच ॥
यतीद्र त्वय्यनर्होयं पक्षपातोहमात्मन: ।
अनयाsपहृतं द्रव्यं याचितुं हीदृशोभवम् ॥२१॥
॥ श्रीगुरुरुवाच ॥
अनेन ते कथं मोक्षो बह्वमंगलयोनित: ।
येनाप्यते सद्गतिस्तच्छृणु तेन हितं भवेत् ॥२२॥
योन्यंतरे हृतार्थोस्ति किंत्वत्र फलभागिनी ।
प्राप्ता दरिद्रवंशेसौ लभ्यतेत: कुतो धनं ॥२३॥
अतस्तया कारयित्वा शक्त्या कर्मौर्ध्वदेहिकं ।
त्वद्गोत्राय यथालभ्यं दापयित्वा धनं खलु ॥२४॥
विप्राय प्रेत कस्मैचित्ततो मोक्षं ददामि ते ।
नेदं त्वां रोचते चेत्तां रक्षामि स्वेच्छयाचर ॥२५॥
॥ पिशाच उवाच ॥
देवदेव कृतार्थोस्मि त्वत्पादाब्जविलोचनात् ।
ममाद्य निष्कृतिर्जाता यथेच्छसि तथा कुरु ॥२६॥
एवं तन्निश्चयं ज्ञात्वा ब्राह्मणीं प्राह सद्गुरु: ।
संवादो नौ श्रुत: साध्वि तथा निर्व्याजमाचर ॥२७॥
तेनासौ सद्गतिं यायाद्वंशवृद्धिश्च ते भवेत् ।
उक्त्वैवं ध्यानगम्योभूद्धरिर्बुद्धाभवत्सती ॥२८॥
पत्ये शशंस तत्सर्वं तथैवाचीकरत्क्रियां ।
तया प्रेतो गतिं लेभे साप्यपापा बभूव ह ॥२९॥
अपरेहनि तत्स्वप्ने फले विन्यस्य चांशुके ।
तामाह भोजयित्वाजो विप्रान्भुंक्ष्व फले त्विति ॥३०॥
प्रबुद्धापि फले दृष्ट्वा भोजयित्वा द्विजान् फले ।
कान्तेन साकं बुभुजे ततोभूद्गर्भिणी सती ॥३१॥
काले दत्तप्रसादेन सूर्याचन्द्रमसाविव ।
पुत्रावसूत विप्रोपि जातकर्मादिकं व्यधात् ॥३२॥
ततोष्टमेद्बे ज्येष्ठस्य व्रतबन्धं चिकीर्षुणा ।
सम्भारा: सम्भृता: पित्रा तदाद्भुतमिवाभवत् ॥३३॥
अकस्मात्सन्निपातेन ज्येष्ठपुत्रो ममार हि ।
उच्चै रुरोद तन्माता कोरस्ताडनपूर्वकं ॥३४॥
॥ ब्राह्मण्युवाच ॥
हा पुत्र क्क गतोसि त्वं पयो मे स्रवते वृथा ।
कति शेषेsचिरं वत्स बुद्धयस्वेदं पय: पिब ॥३५॥
भोजनावसरोयन्ते भुक्त्वा रंतुं चरांगणे ।
वयस्या आव्हयंति त्वामुत्तिष्ठोत्तिष्ठ मा स्वप ॥३६॥
त्वं नोत्तिष्ठसि चेत्प्राणांस्त्यक्ष्याम्यग्रे तवाधुना ।
जाता ये पंच पुत्रा मे तेषां त्वं प्राणवन्मम ॥३७॥
मृते त्वयि मरिष्ये मे यत: प्राणोसि केवलं ।
रे दोहदप्रभृत्यद्य यावद्दु:खं न दापितम् ॥३८॥
गर्भे नष्टास्त्रयोर्भास्तद्दु:खं त्वन्मुखवीक्षणात् ।
मया विस्मृतमद्याकसिन्धौ त्यक्त्वा क्क यास्यसि ॥३९॥
धर्मोयं ते न वार्धक्ये त्राता नौ पुत्र को वद ।
एवं तद्रुदितं श्रुत्वा तत्रत्या ऊचुरेत्य तां ॥४०॥
किं शोचसि वृथा भीरु मृत्युर्देवर्षिदानवान् ।
न विस्मरति कालेपि मनुष्याणां तु का कथा ॥४१॥
अवतारा येवतीर्णास्तेsपि कालवशं गता: ।
एवं सति वृथा शोकं त्वं मा कुरु विचारय ॥४२॥
॥ सोवाच ॥
अहो बत पिशाचोत्थं दूरीकृत्य भयं हि मे
येन देवेन यद्दत्तं फलं तद्विफलं कथम् ॥४३॥
यदि तस्य मृषा वाक्यं तं भजंति कुतोपरे ।
बिभीषणध्रुवमुखैर्मंतव्यं तदृतं कथम् ॥४४॥
लोकांतरे नयाम्येतां तत्कीर्तिं सूनुना सह ।
एवं रुदित्वा संस्कर्तुं न ददौ शवमंगना ॥४५॥
ग्रामे तु भोजनाभावाल्लोकास्त्रस्तास्तदैत्य हि ।
यदृच्छयाब्रवीद्वाग्मी जटिलस्तापस: सतीं ॥४६॥
किं शोचसि मुधा साध्वि शोकस्याविषयं सुतम् ।
सुतस्तवैष देहो वा जीवो वा ब्रूहि सारत: ॥४७॥
त्वग्रक्तमांसास्थिमयो देहोयं पुरतस्तव ।
जीवोज: सर्वगोनन्त: कोत्र शुग्विषयो वद ॥४८॥
कालकर्मगुणोत्पन्नं जगन्मायामयं त्विदम् ।
कथं ध्रुवं हि मन्तव्यं यथा कर्मैंद्रजालिकम् ॥४९॥
कालकर्मगुणाद्युत्थदेहिन: स्वत्वकल्पना ।
पुत्रादिरूपा मिथ्यैषा नद्यां काष्ठौघवच्चला ॥५०॥
त्वया ध्रुवा मतेयं चेद्वद पूर्वाप्रोद्भवे ।
कस्य त्वं जननी स्त्रीर्वा के वा सम्बन्धिनस्तव ॥५१॥
जन्ममृत्यू कालवशादलंघ्यौ दिनरात्रिवत् ।
शरीरिणोंगे बाल्यादि यथा देहान्तरं तथा ॥५२॥
गुरुप्रसादाद्यततो भ्रमोयं लीयतेचिरात् ।
तेनर्ते मृत्यवे कल्प्यो जातो वै जनुषे मृत: ॥५३॥
नार्यतोपरिहार्येर्थे न त्वं शोचितुमर्हसि ।
मृत: शुचा पुनर्नैति नाप्युपायान्तरायुतै: ॥५४॥
सोवाच
न वेदांतार्थतत्त्वादि रोचते येन मेर्पितं ।
सुफलं तत्कुतो यातं विश्वस्तव्य: स कैंर्भुवि ॥५५॥
॥ साधुरुवाच ॥
यत्र त्वया वरो लब्धस्तत्र गत्वा सविस्तरं ।
वरदं परिपृच्छेदं यास्येsलं विस्तरेण भो: ॥५६॥
तच्छ्रुत्वा शवमादाय सद्गुरुरोराश्रमं ययौ ।
तत्र पादुकयो: शीर्षं ताडयामास भामिनी ॥५७॥
एवं नीशीथादासायं शुशोच न ददौ शवम् ।
संस्कर्तुं स्वालयं विप्रा जग्मुस्तत्रैव दम्पती ॥५८॥
ततो निशीथे सुष्वाप साध्वी स्वप्ने ददर्श सा ।
श्रीगुरुं प्राह सोप्येनां किं मयापकृतं हि ते ॥५९॥
प्राणो नामैष वायु: स बहिर्यातो मुहुर्मया ।
आनीय पूर्ववन्न्यस्तस्त्यजात: शुचमंगने ॥६०॥
इति दृष्ट्वा विनिद्राभूद्ददर्शोत्थितमात्मजं ।
हर्षशोकान्विता साध्वी प्रेम्णा भर्तारमाव्हयत् ॥६१॥
सोप्युत्थायात्मजं दृष्ट्वा रुदंतं क्षुत्तृडाकुलं ।
मंत्रवत्त्रिरवघ्राय मूर्ध्न्यस्तौषीत्परात्परम् ॥६२॥
अत्रांतरे प्रातरभूद्दग्धुं प्रापु: शवं द्विजा: ।
ते जीवंतं सुतं दृष्ट्वा सर्वं श्रुत्वास्तुवन्हरिम् ॥६३॥
दम्पती तु तत: स्नात्वा प्रपूज्येशं सुविस्तरात् ।
नीराज्याभ्यर्च्य भूदेवान्जग्मतुर्निजमन्दिरम् ॥६४॥
विद्याविनयसम्पन्नश्चिरजीवी स भाग्यभाक् ।
बभूवाप्येवमेवान्य आसन्पूर्णमनोरथा: ॥६५॥
तत्राश्रान्तं स जागर्ति श्रीनृसिंहसरस्वती ।
अद्य कालांतरेप्येवं न निद्रात्यन्यवत्कलौ ॥६६॥
तत्रेशमाद्यं दृढभक्तियुक्ता भजन्ति ये केपि सदुक्तिसक्ता: ।
ते प्राप्नुवंति द्रुतमिष्टकामान्निदर्शनं त्वत्र सती सुकामा ॥१॥
इति श्रीगुरुचरिते ज्ञानयोगे प्रेतसंजीवनं नाम द्वादशोsध्याय: ॥१२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-16T21:09:33.6530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

horizontal level

  • क्षैतिज पातळी 
  • क्षितिज समांतर पातळी 
RANDOM WORD

Did you know?

शंखनादाविषयी कांही माहिती पाहिजे.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site