TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथ द्वाविंशोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अथ द्वाविंशोsध्याय:
॥ नामधारक उवाच ॥
श्रुतो गुणानुवादोपि हरेस्तृप्तिर्न मे गुरो: ।
अतीव वर्धते तृष्णा शश्वच्छ्रवणपानत: ॥१॥
भवाननलसो नूनमुदारतम एव मे ।
पूर्वश्रेय:प्रभावेन संगतोस्ति कृपाकर: ॥२॥
॥ सिद्ध उवाच ॥
गुणानुवादक्षीराब्धे: कति पासि कथामृतं ।
सच्चित्सुखस्य लीलानुरनन्तस्य परात्मन: ॥३॥
गुणान्कार्त्स्न्येन वक्तुं न क्षम: कोपीशितुस्त्वहं ।
उच्चावचखगोड्डानन्यायाद्वक्ष्ये यथामति ॥४॥
स भीमामरजातीरविहारी भक्तवत्सल: ।
भक्ताधीनत्वमाश्रित्य सदाभूत्तन्मतानुग: ॥५॥
निराकारो निरीहोपि शुद्धसत्वस्वरूप्यज: ।
बुद्ध्या संगत्य लीलार्थं स्वयं विश्वात्मकोभवत् ॥६॥
सर्वत्र स्थितिमांस्त्वेष पश्येयुर्मुनयो हि मां ।
इति मत्वा त्रिधा भूत्वा त्रिषु लोकेषु संस्थित: ॥७॥
तत्रापि भुवि मे भक्ता भूयांसो मन्मयास्त्वहं ।
तेषामगोचरोस्म्यस्मात्स्थेयं तत्रेत्यमंस्त स: ॥८॥
ततोत्र भगवान्भूमौ लीलाधाम्ना युगे युगे ।
भजतोनुभजत्येष श्रद्धाभक्तिप्रिय: प्रभु: ॥९॥
किं वर्ण्यते भगवतो भक्तवात्सल्यमद्भुतं ।
परिपूर्णोपि संतृप्तो भोक्तुं भ्रमति तद्गृहे ॥१०॥
अन्या अपि तु तल्लीलास्तादृश्य: संत्यनंतश: ।
स्वकृते तु न ता विद्धि भक्तानुग्रहलक्षणा: ॥११॥
कलौ धोरेत्र नो भाग्यमुदितं हि युगे युगे ।
दुर्लभस्तपसापीश: स्मृत्यैव सुलभोत्र नु: ॥१२॥
स एष भगवांस्तत्र भक्ताधीनतयान्वहं ।
निमंत्रितो भक्तगेह भिक्षान्नं बुभुजे प्रभु: ॥१३॥
दीपावल्युत्सवे सप्त प्रिया भक्ता जगद्गुरुं ।
स्वे स्वे गृहे नेतुकामा भिन्नवासा: समाययु: ॥१४॥
भवंतं नेतुकामोद्य दीपाल्यां पंचवासरं ।
प्राप्तोस्म्यद्यैव गंतव्यमित्येकैकोब्रवीद्गुरुं ॥१५॥
॥ श्रीगुरुरुवाच ॥
यूयं सप्तैक एवाहमेककालीन उत्सवे ।
सप्तग्रामेष्वेकदैव कथं मे गमनं भवेत् ॥१६॥
एकत्रैकैकघस्रे वा गतिरेकैकसद्मनि ।
संभवेच्चेत्कृतं तद्वद्भवद्भिर्मे वरं द्विजा: ॥१७॥
भक्ताधीनोस्मि मां यो यो नयेद्यास्यामि तत्र च ।
तच्छ्रुवान्योन्यं कलहं चक्रुर्नेष्याम्यहं त्विति ॥१८॥
नि:स्वो धनीति द्वैतान्मां मा पाहि ह्यसि भो सम: ।
भूतमात्रेत एहीति प्रोक्त्वा ते पतिता: पुर: ॥१९॥
निर्वाय तान्सर्वगृहानेष्यामीत्युदितेपि ते ।
कैर्विश्वस्तव्यमित्यूचुर्भ्रांता: श्रीगुरुमीश्वरं ॥२०॥
भगवानपि तद्भावं ज्ञात्वैकैकं रहो द्विजं ।
सस्मितास्य: समाहूय प्राहोदारगिरा मुदा ॥२१॥
न वाच्यं क्कापि तेदैव गृहमेष्ये चरेत्यथ ।
तेपि सप्तैवमन्योन्यमशंसंतो ययुर्गृहान् ॥२२॥
तत्रत्यै: क्क भवान्याति नो हित्वेत्युदितेत्र तु ।
तिष्ठामीति प्रभु: प्रोक्त्वाष्टौ ग्रामानेकदाभ्यगात् ॥२३॥
स्थलेषूवास पंचाहमष्टस्वपि जगन्मय: ।
लौकिकैकस्वरूपेण ततोस्थात्संगमे प्रभु: ॥२४॥
स्वाद्वन्नशाटीकंत्राणपादुकार्पणसेवनै: ।
संतोषित: स भगवान्भक्तैराप मुहुर्मठं ॥२५॥
पुन: सर्वेपि ते प्राप्ता: कार्तिक्यां तु परस्परं ।
ऊचुर्मे धाम्नि पंचाहं दीपाल्यां संस्थितो गुरु: ॥२६॥
तत्रत्या अपि तं प्राहु: पंचाहं क्कापि नो गत: ।
अत्रैव प्रभुरस्माभिर्दीपावल्युत्सवं व्यधात् ॥२७॥
मृषा म्रुषेति चान्योन्यं तदा प्रलपतो विभु: ।
तान्प्राह तूष्णीं स्थेयं भो: सर्वत्राहं गत: खलु ॥२८॥
तदा ते चकिता: सर्वे तुष्टुवुर्नतकंधरा: ।
भगवंस्ते परं पारं महिम्नोsजानतां हि न: ॥२९॥
कथं लौकिकवाचस्त्वं स्तोत्रपात्रो भविष्यसि ।
श्रुतवाचामपि ब्रह्मन्न गुहाशयसंस्थित ॥३०॥
विश्वव्यापक तेनंत दिव्यं जन्म क्रियाप्यज ।
नान्यार्थं नोमृतत्वार्थमवतारप्रयोजनं ॥३१॥
श्रूयते दृश्यतेदो यत्त्वन्मायेयं दुरत्यया ।
मा वृणोत्विति भो श्रीमन्देहि नो दक्षिणां वरां ॥३२॥
इत्युक्त्वा प्रणतिं चक्रुस्तान्संतोष्य जगत्प्रभु: ।
सर्वान्प्रस्थापयामास स्वं स्वं धामापि ते ययु: ॥३३॥
एवं स भगवान्नृनं पूर्ण: सच्चित्सुखात्मक: ।
भक्ताधीनतया चेष्टा दुर्विभाव्या व्यधादिह ॥३४॥
जात्याचारवयोरूपविद्यार्थगुणपौरुषं ।
नापेक्षते हि भगवान् श्रद्धाभक्तिप्रिय: प्रभु: ॥३५॥
श्रृणु चित्रं प्रवक्ष्यामि कश्चिच्छूद्रो गुरुप्रिय: ।
दास्येनैवैहिकान्भोगान्भुक्त्वांते मुक्तिभागभूत् ॥३६॥
कृषीवल: स तु सदा स्वकर्मासक्त एव तं ।
स्वक्षेत्रादामठं यांतं ननाम प्रत्यहं गुरुं ॥३७॥
तद्गमागमसौख्यार्थं प्रत्यहं संगमायनं ।
अपास्य कंटकाश्मादीन्सुगमं विशदं व्यधात् ॥३८॥
नत्वा पूर्ववदायांतं मुदा तद्गतमानस: ।
कृषिं चकार तं दासं पृच्छति स्मैकदा गुरु: ॥३९॥
सदा मेग्रे कुत: शूद्र पतस्येतेन किं वद ।
साध्यं किं तेस्ति मनसि तदद्योद्धाटयाखिलं ॥४०॥
॥ शूद्र उवाच ॥
भजामि सुखकामस्त्वां क्षेत्रं ते कृपयाखिलं ।
मनोज्ञं भाति तत्प्रेक्ष नोपेक्ष्य: पादजोप्यहं ॥४१॥
तदा सस्मितमीशोपि सर्वं क्षेत्रं विलोक्य तत् ।
आप्रादुर्भूतसस्यं तं प्राह द्राक्छिंध्यदोखिलं ॥४२॥
विश्वासो मेस्ति वाक्ये चेच्छिंधि मे यावदागम: ।
इत्युक्त्वा संगमं गत्वा प्रभु: कर्माह्निकं व्यधात् ॥४३॥
गत्वा शूद्रोपि पत्ये तु प्राह निश्चित्य ते करं ।
क्षेत्रं देहीति स प्राह नेदं साध्वद्य कर्षक ॥४४॥
शश्वत्प्रार्थ परुद्दत्तद्विगुणं भागमंघ्रिज: ।
दातुं निश्चित्य जग्राह प्रमापत्रमतोपि स: ॥४५॥
आहूयाथार्थलुब्धान्स लोकान्यावच्छिनत्ति तत् ।
सापत्या क्षेत्रमेत्य द्राग्वारयामास तं वधू: ॥४६॥
निधा: स्तोत्राणि मा छिंधीति वदंत्या: स कैशिके ।
चूर्णप्रतिनिधीकृत्य पद्धूलिं पुनराच्छिनत् ॥४७॥
स नोन्मत्तस्तु भरतप्रर्‍हादकबिभीषणै: ।
मातापित्रग्रजास्त्यक्ता गुर्वर्थे का कथान्यत: ॥४८॥
सा गत्वेशं रुदत्यूचे मुंडिवाक्यानुवर्त्यहो ।
क्षेत्रं छिनत्ति तेsपक्वं प्रमत्तस्तं निवारय ॥४९॥
निवारणाय सोप्येकं दूतं प्रेरयदेत्य स: ।
तस्मै गंभीरया वाचा स्वामिवाक्यं शशंस ह ॥५०॥
तं प्राह शूद्रोपि पत्ये शंसारब्धोद्यमस्य तु ।
पारं यास्ये नो बिभेमि तत्प्रमालिपिरस्त्यसौ ॥५१॥
दूतोप्यागत्य पत्ये तु तत्स्माचष्टेब्रवीत्स तां ।
शूद्र्यन्यथा कथं वाक्यं कार्यं सोप्यर्थधान्यवान् ॥५२॥
तच्छ्रुत्वा सा रुदत्याप क्षेत्रसीमां सुतान्विता ।
तच्छूद्रोप्यखिलं छित्वा गुर्वागममचिंतयत् ॥५३॥
कृत्वाप्यान्हिकमागच्छन्छातं सर्वमवेक्ष्य तं ।
प्रणतं प्राह किमिदं कृतं साहजिकोक्तित: ॥५४॥
यदन्येन हृदापीदृक्कर्तुं शक्यं न भुव्यद: ।
कर्माद्य दुष्करं निंद्यं त्वया कृतमत:परं ॥५५॥
कुतस्ते भविता वृत्तिर्दास्यसीशाय किं वद ।
अपक्वं हरितं सर्वं सस्यमेतद्वृथा गतं ॥५६॥
स प्राहोक्तं कथमपि श्रुतवत्सद्गुरोर्वच: ।
तन्मेपि फलदं जन्म दत्तं येन स वृत्तिद: ॥५७॥
भक्तिश्चेदुक्तवद्भूयात्त इत्युक्त्वा ययौ गुरु: ।
सोप्याप स्वगृहं धीरो ध्यायन्हरिपदांबुजं ॥५८॥
कालेनाल्पीयसा सूर्य इते मूलर्क्षमंबुद: ।
ववर्ष च्छिन्नमपि तद्यावनालाद्यवर्धत ॥५९॥
प्रादुर्भूतानसंभाव्यानंकुरानभितोमितान् ।
दृष्ट्वा जल्हादिरे सर्वे शूद्र्यप्यत्यंतहर्षिता ॥६०॥
पत्यु: पादौ सकारुण्यं गृहीत्वा गद्गदाक्षरा ।
बभाषे गुरुभक्तोसि मम मंतून्क्षमस्व भो: ॥६१॥
तथेत्युक्त्वा तया शूद्र: प्रपूज्य क्षेत्रपं गुरुं ।
यांतं क्षेत्रं दर्शयित्वा प्रणतो वाक्यमब्रवीत् ॥६२॥
अंघ्री चिंतामणिर्वाक्यं सुधास्पर्घि दयानिधे ।
ज्योतिर्मयं न वेत्त्यंधो घूकोर्कमिव धाम ते ॥६३॥
दृष्टं समूढ्यपुण्येन धाम ते दिव्यमद्भुतं ।
कृतकृत्योस्म्यतो देव मां माधोक्षज विस्मर ॥६४॥
तमाह श्रीगुरु: शूद्र धन्योस्यवरवर्ण ते ॥
परितुष्टोस्मि दास्येन नूनं सद्गतिभाग्भव ॥६५॥
दुराचारोपि यदि चेत्सेवते मामनन्यधी: ॥
स तु साधुर्हि तस्मात्त्वं स्वाचारो भक्तिमान्मयि ॥६६॥
अतस्ते दत्तमेतत्तु निवसेत्त्वत्कुलेमले ।
अचला कमला दास्यं मदीय चाप्यसंशयं ॥६७॥
इत्युक्त्वागाद्गुरु: सोपि गत्वेशं प्राह निश्चितात् ।
अधिभागं प्रदास्ये ते यतो धान्यर्धिरद्भुता ॥६८॥
स प्राह नान्यथोक्तिर्मे प्रसादात्सद्गुरोस्त्वियं ।
लब्धा धान्यर्त्धिरनयं न स्पृशाम्यर्पयोक्तवत् ॥६९॥
परिपक्कं ततो दृष्ट्वा सस्यं छित्वानयद्गृहम् ।
कामं शेषं जनेभ्योदादमितं धान्यमुत्तमम् ॥७०॥
बहवो लेभिरे धान्यं प्रकामं सोपि सद्गुरो: ।
कृपया परया भूत्वा श्रीमान्सेवेतिनीचवत् ॥७१॥
तत्रेदृश्य: प्रभोर्लीला: कति वृत्तास्तु कृत्स्नश: ।
न ज्ञाता: कैरपि पुरं मन्ये धन्यतमं तु तत् ॥७२॥
॥ नामधारक उवाच ॥
सत्तमाश्रितकाश्यादिक्षेत्रेषु भुवि सत्स्वपि ।
प्रीत्योवास कुतस्तत्र भगवान्मे वदस्व तत् ॥७३॥
॥ सिद्ध उवाच ॥
तत्र तीर्थान्यनेकानि देवा अप्यखिला: खलु ।
जगन्निवास उद्वीक्ष्य तस्थौ ध्रुवमधोक्षज: ॥७४॥
मंदधीभिस्तु तीर्थानि तिष्येsज्ञातानि तान्यत: ।
गुरु: प्राहैकदा लोकं पावनानि प्रदर्शयन् ॥७५॥
काशीं जिगमिषो लोक सर्वतीर्थानि चात्र तु ।
दर्शयामीति तान्प्रोक्त्वा तीर्थान्याह स दर्शयन् ॥७६॥
संगमोयं प्रयागोष्टी तीर्थान्यत्र तु षट्कुले ।
त्रिवेणीसंगमोयं तु पापघ्न्यमरजेष्टदा ॥७७॥
जीवनायेशदत्तेंद्रनीयमानसुधाघटात् ।
युद्धे जालंधरहतदेवानाममृतं च्युतं ॥७८॥
किंचिच्च्युतादपि महाप्रवाहोत्रामरत्वद: ।
कालम्रुत्युभयाघघ्नी जातैषामरजा तत: ॥७९॥
मनोरथाख्यं तीर्थं तु कल्पद्र्वश्वत्थसन्निघौ ।
संतोषतीर्थमग्रेत्र रुद्रो विश्वेश्वर: स्वय़ं ॥८०॥
वामहस्तेन नंद्यंडं धृत्वांगुष्ठं च तर्जनीं ।
संस्थाप्य श्रृंगयोर्मध्यात्कृतशैवीप्रदक्षिण: ॥८१॥
पश्येद्यदीशं मर्त्योपि देववच्छ्रीष्टयुग्भवेत् ।
साक्षात्काशीयमीशेन विहिता भक्ततुष्टये ॥८२॥
जीवन्मुक्तोत्र शैव: प्राग्लोके जड इतीरित: ।
येनाहिवज्जनो भोगा विषं स्त्री: शववन्मता: ॥८३॥
कदाचित्स सदा युक्त: प्रमाथींद्रियसंयमी ।
बंधूनाहात्र काशीयं त ऊचुर्दर्शयाद्य न: ॥८४॥
स दध्यावीशमीशोपि तदैत्याहेप्सितं वद ।
स प्राहाद्य त्वया सार्धं काशीं संस्थापय ध्रुवां ॥८५॥
तथेत्युक्त्वेश्वरोगात्तज्जलांत: कुण्डमुत्तमं ।
उद्भूतं तत्र विश्वेशमूर्तिराविरभूत्क्षणात् ॥८६॥
काश्यां चिह्नानि यान्यत्र जातान्यालोक्य तानि स: ।
स्वजनान् दर्शयित्वोचे काशीयं क्कापि यात नो ॥८७॥
प्रत्यब्दं पूजयित्वा नो विठ्ठलं कुलदैवतं ।
काशीयात्रात्र कर्तव्या सर्वाघघ्नीप्सितार्थदा ॥८८॥
तस्मात्काशीयमित्यस्मिन्गुरौ ब्रुवति तत्क्षणं ।
पूर्वाश्रमस्वसा रत्नानाम्नी प्राप्य ननाम तं ॥८९॥
तामाह श्रीगुरु: प्रोक्तस्मृतिस्तेस्ति न वा वद ।
सापि स्मृत्वा तदा स्वांगं कुष्ठीभूतं ददर्श ह ॥९०॥
तां खिन्नां प्रणतां प्राह प्रभु: पापं भवांतरे ।
चेद्भोक्षसेत्र कुष्ठं द्रागपैत्यंह: प्रयत्नत: ॥९१॥
सा प्राह मातृकुक्षौ मे यथेतो न भवेत्स्थिति: ।
तथैव भवता कार्यं नान्यज्जाने परात्पर ॥९२॥
गुरु: प्राहाघहृत्तीर्थे त्र्यहं स्नानाच्छिवांतिके ।
सप्तजन्मार्जितांहोपि नश्येत्कुष्ठस्य का कथा ॥९३॥
सापि तत्र त्र्यहस्नानाद्भूत्वा कुष्ठोनितामला ।
मठं निर्माय तत्रैव स्थिता मुक्ता बभूव ह ॥९४॥
गुरुस्त्वग्रेघह्रुज्जंबुद्धीपस्थाखिलतीर्थवत् ।
कोटितीर्थं दर्शयित्वा प्राहेदं सकलाघहृत् ॥९५॥
क्रांतिपर्वग्रहेष्वत्र स्नानदानजपादय: ।
अक्षय्यानंतफलदा अकुत्सितहृदां नृणां ॥९६॥
गयावद्रुद्रपादाख्यं तीर्थं त्वग्रे गयोत्कवत् ।
कृध्वं कर्मात्र कृष्णाग्रे चक्राख्यं द्वार्वतीसमं ॥९७॥
द्वारकोक्तवदाचीर्नात्फलं तस्याश्चतुर्गुणं ।
स्नानाज्ज्ञानी भवत्यत्र पतितोप्यस्थि चक्रवत् ॥९८॥
गोकर्णवद्ग्रामपूर्वभाग: कल्लेश्वरोत्र तु ।
महाबलेशवत्तीर्थं मन्मथाख्यं सुसिद्धिदं ॥९९॥
नभस्यखंडाभिषेकादूर्जे दीपोत्सवात्स तु ।
अक्षय्यफलदो दद्यात्सर्वसिद्धियुतामृतं ॥१००॥
एवं शशंसाखिलतीर्थायात्रां तेपि प्रहृष्ताश्च तथैव चेरु: ।
एतादृशं क्षेत्रमिदं वरीयो विज्ञाय विज्ञायमयात्मकोस्थात् ॥१०१॥
म्लेच्छं समुद्धृत्य ततोखिलात्मा तत्र स्थितो भाविककामधेनु: ।
प्रत्यक्ष ईशोपि न दृश्यतेसाववित्तमोंधैररुणो यथांधै: ॥१०२॥
इति श्रीगुरुचरिते भक्तियोगे क्षेत्रमाहात्म्यवर्णनं नाम चतुर्थोsध्याय: ॥४॥
आदित: द्वाविंशोsध्यय: ॥२२॥

Translation - भाषांतर

Last Updated : 2016-12-16T21:09:34.5770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दूदा

  • वि. घोड्याचा एक विशिष्ट रंग - अश्वप १ . २७ . [ फा . दूदु = धूर ] 
  • वि. घोड्याचा एक विशिष्ट रंग - अश्वप १ . २७ . [ फा . दूदु = धूर ] 
RANDOM WORD

Did you know?

गणपतीची सोंड कोणत्या दिशेला वळली आहे, यावरून पूजाअर्चेचे कांही धर्मशास्त्र आहे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site