TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथ सप्तदशोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


अथ सप्तदशोsध्याय:
सिद्ध उवाच
अन्येद्युराह साध्वीशं पूर्वेद्यु: कश्चनैत्य सन् ।
तत्त्वज्ञानेन माश्वास्य भस्माक्षान् चतुरो ददौ ॥१॥
प्राह दृष्ट्वा गुरुं तीर्थै: पतिं प्रोक्ष्यानुयाहि तं ।
इत्युक्त्वागात्स कस्तीर्थरुद्राक्षमहिमा कियान् ॥२॥
श्रीगुरुरुवाच
रूपान्तरेण ते भावो मयैवांग परीक्षित: ।
धन्यासि सुभगे साध्वि तीर्थाक्षमहिमा त्वियान् ॥३॥
तन्माहात्म्यं कोत्र वक्ति भूषेशस मृतत्वदा ।
नृणामेकादिवक्त्राक्षा गंगास्नानादिपुण्यदा: ॥४॥
वरा: स्युर्धातुरत्नाढ्या: शिव एव सहस्रधृक् ।
नाक्षैर्विना पुण्यलब्धि: पापनाशोक्षधारणात् ॥५॥
ईशनामाक्षभस्माढ्यो दुर्धरो मरुतामपि ।
जपेक्षा: प्राज्यफलदा ना भस्माक्षैर्विना पशु: ॥६॥
दंताभ्रब्ध्यर्कनृपभृक्ष्मार्काष्टाशोन्मिताक्षत: ।
कण्ठकश्रुतिदोश्चूडादृक्करोरांसि भूषयेत् ॥७॥
काश्मीरे भद्रसेनस्य सुतस्तन्मंत्रिणोप्युभौ ।
भूषां मत्वाश्मत्स्वक्षान्बाल्येपि दधतुर्मुदा ॥८॥
शाक्त्यो राजाग्रहात्प्राह तद्धेतुं श्रृणु भूपते ।
नंदिग्रामे पुरा तन्वी वारमुख्येन्दुभा सती ॥९॥
गजाश्वधनदाराढ्या धर्मज्ञा दानतत्परा ।
तन्नाट्यमण्डपे त्वेतौ साक्ष मर्कटकुक्कुटौ ॥१०॥
शिवोस्या वैश्यरूपेण पातिव्रत्यं परीक्षितुं ।
धृत्वाप कंकणं लिंग भास्वद्वेश्यब्रवीत्सखीं ॥११॥
परिपृच्छैनमर्घाचेद्रत्या वा दास्यति त्र्यहं ।
साध्वीत्वेन वधूर्भूत्वा रमयाम्यस्मि पद्मिनी ॥१२॥
श्रुत्वोचे स तया पृष्टं स्वैरिण्यां सत्यता कुत: ।
युष्माकं कुलधर्मास्तु व्यभिचारो हि केवलम् ॥१३॥
॥ वेश्योवाच ॥
न स्वैरिणीयं साध्व्येव लिंगं त्वत्र प्रमा खलु ।
अहं त्र्यहं सतीत्वेन भजे त्वां सर्वभावत: ॥१४॥
॥ वैश्य उवाच ॥
गृहाणेदं पुष्पवंतौ साक्षिणावत्र मेसुवत् ।
स्ववाक्यं दृढभक्त्यैव विचारय पुन:पुन: ॥१५॥
इत्युक्त्वा तत्करे बध्वा कंकणं लिङ्गमर्पयत् ।
साध्वीत्वेनापि सा भेजे लिङ्गं संस्थाप्य मण्डपे ॥१६॥
सलिङ्गो मण्डपो दग्धोग्निनाकस्माद्रतिक्षणे ।
सकीशकुक्कुटो वैश्यो जुहावाग्नौ तनुं तदा ॥१७॥
वेश्यापि भर्त्रुनाशार्ता कुलाचारविरुद्धतां ।
मा भजेति निषिद्धापि स्वै: सिद्धानुगमेभवत् ॥१८॥
दत्वा दानानि नत्वार्कं ध्यात्वेशं वह्निमाविशत् ।
प्रादुर्भूतस्तदा त्र्यक्ष: पंचास्य: प्राह पंक्तिदो: ॥१९॥
मायामुद्भाव्य ते सर्वं मयेशेन परीक्षितम् ।
वारमुख्यापि साध्वी त्वं प्रीतोस्मि वरयेप्सितं ॥२०॥
जैव्ह्यौपस्थ्यसुखं क्कापि न कांक्षे मे स्वकै: समं ।
सायुज्यं तेर्पयेत्यूचे सा शिवोपि तथाकरोत् ॥२१॥
तौ कीशकुक्कुटावेतौ पूर्वसंस्कारकारणात् ।
एतौ स्तोक्षप्रियौ शैवौ मताश्मसमभूषणौ ॥२२॥
तच्छ्रुत्वा भावि मे सूनोर्मुने शंसेति पृच्छते ।
राज्ञे तस्य मृतिर्नूनं सप्ताहादिति सोब्रवीत् ॥२३॥
मुहू राज्ञातिखिन्नेन प्रणतेनार्थितोब्रवीत् ।
पराशरऋषिर्मा भी राजन्रुद्रोस्ति तारक: ॥२४॥
स्रष्ट्रा सृष्टौ जगद्वृद्धयै धर्माधर्मौ तयो: पती ।
इन्द्रांतकौ तौ स्वरधोनेतारौ धन्यपापिनां ॥२५॥
यमसारथय: काममुखा नानाघहेतव: ।
तत्सारथ्याद्यमो लोकान्पापान्क्षिपति दुर्गतौ ॥२६॥
बुद्धीन्द्रियमन:संस्था अमी कामादयोsबला: ।
भीरून्निघ्नंति यमितगोहृद्धीनामगोचरा: ॥२७॥
वेदान्स्त्रष्टासृजत्तत्र दक्षास्योत्थयजुश्रुते: ।
महारुद्रोघहृल्लब्धो मुनिभि: प्रसृतस्तत: ॥२८॥
विप्रा यत्र पठत्येतं कामाद्या: सकला न तं ।
देशं शेकुरपि द्रष्टुं याम्यं शून्यमभूत्पुरम् ॥२९॥
यम: शशंस तद्धात्रे स्वयन्तिष्ठन्व्रजन्कुधी: ।
मत्तोsभक्तिर्जपति चेत्स पापी शाधि तं भृशं ॥३०॥
तद्भिन्नान्जापकान्रुग्णान्मा प्रेक्ष मृतिगानपि ।
श्रीविदारोग्यदिभाजस्त इत्याह यमं विधि: ॥३१॥
तस्मान्मृत्युंजयस्त्राता मा भी: सद्ब्रह्मत: शिवे ।
अतिरुद्राभिषेकात्स भवेद्भूपायुतायुरित् ॥३२॥
तच्छ्रुत्वा द्राक्समाहूय सद्विप्रानृष्यनुज्ञया ।
राजानुष्ठानमारेभे श्रद्धाभवत्या यथाविधि ॥३३॥
पाशदण्डधरा: प्राप्ता: सप्तमेन्हि यमाsनुगा: ।
गूढांगा मूर्छित: पुत्रस्तदा तदुपरि द्विजै: ॥३४॥
प्रक्षिप्तरौद्रांबुतीर्थमंत्रिताक्षतसम्भवै: ।
रौद्रैर्दूता: पराभूता जग्मुस्तेथोत्थित: सुत: ॥३५॥
प्रीतो राजा तदा विप्रान् भोजयित्वाभ्यतोषयत् ।
सभां विरच्योपवेश्य स्वासने शाक्त्यमाभजत् ॥३६॥
रणद्वीणो हरिं गायन्तत्राप्तो नारदो नृप: ।
तं प्रत्युद्गम्य सम्पूज्य लोकोदंतमपृच्छत ॥३७॥
स प्राहात्र महामृत्युस्त्वत्पुत्रं हर्तुमागत: ।
शिवदूतै: सदूत: स पराभूतो यमं ययौ ॥३८॥
यमोपि तै: सहैत्यैशान्दूतान्प्राहेश्वराज्ञया ।
नियतं कर्तुमुद्युक्ते मयि यूयं क्क विघ्नदा: ॥३९॥
ऊचुस्तेदश्चित्तगुप्तं पृष्ट्वा स्वस्थो भवांतक ।
स पट्टे द्वादशाब्देल्पं मृत्युं तीर्त्वायुतायुरित् ॥४०॥
भविष्यतीति सम्प्रेक्ष्य भ्रांत: शैवान्क्षमापयत् ।
दृष्टं मयेदं ते पुत्रस्त्रात: शाक्त्येन भूपते ॥४१॥
इत्युक्त्वा नारदोगात्स्वराशीर्भिरभिनंद्य तौ ।
शाक्त्योप्यगात्स्वधामेयान्तीर्थाक्षमहिमा सति ॥४२॥
॥ सावित्र्युवाच ॥
यत्त्वढ्दृग्गोचरा साक्षाज्जाता धन्यतमा गुरो ।
उपादिश मनुं मे ते पादाब्जस्मृतिहेतवे ॥४३॥
॥ श्रीगुरुरुवाच ॥
नोपदेश्यो मनु: स्त्रीणां पतिभक्तिस्तु तारका ।
दत्तोप्यनुपयुक्त: स्याद्दातुर्हानिश्च शुक्रवत् ॥४४॥
श्रृणु साध्वि पुरा देवदैत्ययुद्धमभून्महत् ।
काव्यो मंत्रजपाद्वज्रिहतान्दैत्यानजीवयत् ॥४५॥
गत्वेन्द्र: शरणं शम्भुं तच्छशंस शिवेन तु ।
आनयित्वा कविर्लीढ: सोपि मूत्राद्बहिर्गत: ॥४६॥
दैत्यानेत्य पुन: शुक्रस्तान्मृतानप्यजीवयत् ।
त्रस्तस्तदेंद्रो धीमन्न: पाहीति प्रार्थयद्गुरुं ॥४७॥
स प्राह तन्मनौ व्याजाद्भ्रंशिते वो जयो ध्रुव: ।
त्रिलोककण्टकोत्कर्षान् मंत्रसारहृतिर्वरं ॥४८॥
इत्युक्त्वा स कचं प्राह स्वसुतं गच्छ रे कविं ।
विद्यार्थित्वेन तं तुष्ट्वा मंत्रसारं तिरस्कुरु ॥४९॥
तं नत्वापि कचो गत्वा शुक्रं प्राहाsस्मि ते गुरो ।
शिष्यो मां प्रणतं शाधि पक्षित्वं मा निधा मयि ॥५०॥
एवमुक्तवतस्तस्य रूपसौंदर्यमोहिता ।
शुक्रं प्रियात्मजोचेमुं शिष्यत्वेनोररीकुरु ॥५१॥
तच्छ्रुत्वोशनसा सोपि तद्वात्सल्यादुरीकृत: ।
कचोपि सर्वभावेन शुक्रं गुरुमतोषयत् ॥५२॥
ज्ञात्वा तच्छाठ्यमसुरा: समिदर्थं गतं वनं ।
तं जघ्नुर्देवयान्याह शुक्रं नाप्त: कुत: प्रिय: ॥५३॥
शुक्रोपि तं हतं ज्ञात्वा ध्यानान्मंत्रप्रभावत: ।
जीवयित्वानयद्गेहं कचं हृष्ताभवत्सुता ॥५४॥
मुहुर्दैत्या वने हत्वा हिंस्रेभ्यस्तत्पलं ददु: ।
तमदृष्ट्वैव शोचंतीं कन्यामाश्वास्य भार्गव: ॥५५॥
ज्ञात्वा तं भक्षितं हिंस्रैस्तत्कुक्षेर्मंत्रशक्तित: ।
कार्त्स्न्यान्निष्काश्य कृत्वैक्यं सजीवं पूर्ववद्व्यधात् ॥५६॥
पुनर्दैत्या: कचं हुत्वा तद्भस्म मधुयोजितम् ।
ददु: शुक्राय प्रमादात्स पपौ दैत्यवत्सल: ॥५७॥
पुन: कन्यातिखिन्नाभूच्छुक्रो ज्ञात्वोदरस्थितं ।
दैत्यान्छशाप ब्रह्मघ्नान्कन्यापाह स नाप्यते ॥५८॥
दैत्यै: क्षिप्त: स मत्कुक्षौ तदानयनतो हि मे ।
मृत्युर्भवेन्न को वेद दिव्यं मंत्रं हि मां विना ॥५९॥
कन्योचे तात मे मंत्रमुपादिश च जीवय ।
तं त्वां यदेष्यति मृतिर्जीवयामि सुमंत्रत: ॥६०॥
नोचेत्प्राणांस्त्यजाभीति निर्विण्णास्यै स मोहत: ।
दत्वा मंत्रं जपित्वा तं जीवयित्वा मृतिं ययौ ॥६१॥
विदार्य जठरं प्राप्तं कचं दृष्ट्वा मृतं कविं ।
मंत्रेण जीवयामास तदातेजाभवन्मनु: ॥६२॥
कृतकृत्य: कचो नत्वा गुरुं प्राह तदासुरा: ।
घ्नंति मां तद्गृहं यास्ये मदर्थे भवतोप्यकं ॥६३॥
सोपि गच्छेत्यादिदेश कन्योचे मत्पतिर्भव ।
मयैतदर्थमेव त्रिजींवितोसि मृतोप्यहो ॥६४॥
कच ऊचे गुरो: कन्या स्वसाम्बास्वर्पणाच्च तत् ।
नोद्वाह्यातस्त्यजास्वर्ग्यं विरुद्धाग्रहमम्ब भो: ॥६५॥
सा विद्यां विस्मरेत्येनं शशापापि स तां नृप: ।
त्वां वरिष्यति मौर्ख्यात्ते नश्येन्मंत्रो गुरोरिति ॥६६॥
मंत्रोsतेजास्तदैवाभूच्छुक्रो दीनत्वमापतत् ।
स्त्रियै मंत्रस्ततोsदेय: कार्यं गुर्वाज्ञया व्रतं ॥६७॥
॥ सावित्र्युवाच ॥
भगवन्सद्गुरो मंत्रो यर्ह्यग्राह्यो हि योषितां ।
तर्ह्येकं व्रतमाख्याहि तारकं ते स्मृतिप्रदम् ॥६८॥
॥ श्रीगुरुरुवाच ॥
सुलभं तारकं साध्वि सोमवारमहाव्रतं ।
व्रतोत्तमं सुवामेष्टदं केप्यस्याधिकारिण: ॥६९॥
सीमंतिन्या यत्प्रभावान्नष्टोप्याप्त: पति: श्रृणु ।
प्राक्चित्रवर्मार्यावर्ते राजा शूरो वशी कृती ॥७०॥
धीरूपशीललक्ष्माढ्यां पुत्रीं लेभेजसेवया ।
शांत्याद्याढ्या सती भर्त्रायुताब्द राज्यभोक्त्र्यसौ ॥७१॥
इत्युचुर्गणकास्त्वेको बाल्ये वैधव्यमित्यपि ।
राजा हृष्टोपि खिन्नोभूद्ववृधे सा सितेंदुवत् ॥७२॥
सा द्वादशाब्दिका श्रुत्वा वैधव्यं भावि दु:खिता ।
नत्वैकदाप्तां मैत्रेयीं साsवैधव्यं स्म याचते ॥७३॥
तां साब्रवीत्सोमवारव्रतात्त्रातास्ति शंकर: ।
प्रतींदुवारं संसेव्यो गोह्रुत्कायै: सदाशिव: ॥७४॥
उपोष्य नक्तं भुक्त्वा वा भक्त्यास्मिन्न क्षणं स्वपेत् ।
नश्येत्प्राप्तापि भीस्त्यक्ते व्रते कुप्येत शङ्कर: ॥७५॥
पापक्शयोस्याभिषेकात्साम्राज्यं पीठपूजनात् ।
गंधादिदानात्सौभाग्यं सौगंध्यं धूपदानत: ॥७६॥
दीपात्कांतिर्भोज्यदानाद्भुक्तिस्तांबूलतो रमा ।
नत्या पुमर्था ऐश्वर्यं जपाद्ब्राह्मणभोजनात् ॥७७॥
सर्वतृप्ति: कोशवृद्धिर्होमाल्लभ्याखिलं स्तवात् ।
तद्व्रतं कुर्विति प्रोक्त्वा सागात्कन्याकरोद्व्रतम् ॥७८॥
भूयाद्भाव्येषा देयेति मत्वा चन्द्रांगदाय राट् ।
तां वरायानुरूपाय नलगोत्रभुवे ददौ ॥७९॥
गजाश्वदासराष्ट्रादि दत्वापि स्वपुरे मुदा ।
पुत्राभावात्स तं राजा मेने संस्थाप्य पुत्रवत् ॥८०॥
कालिंद्यामेकदा क्रीडन्मज्जति स्म स तचरा: ।
पितरौ श्वशुरौ गत्वा तदूचुस्तत एत्य ते ॥ ८१॥
अन्वेष्यापि न तं प्रापु: शोकं चक्रुस्तदाखिला: ।
कन्यानुगन्तुमुत्कापि शवाभावान्निवारिता ॥८२॥
तामाश्वास्यानयद्राष्ट्रं चित्रवर्मा नृप: सुता ।
शोकार्ताप्यकरोत्प्रेम्णा सोमवारव्रतं शुभं ॥८३॥
पुत्रशोकाकुलं त्विंद्रसेनं सस्त्रेकमुत्तमं ।
खिन्नं संस्थाप्य कारायां तद्राच्यं बुभुजेहित: ॥८४॥
तं नागिन्योंवुमग्नं स्वं लोकं नीत्वामृतोपमं ।
सर्पेशाय ददु: सर्पेट् सुधया तं व्यजीवयत् ॥८५॥
अलौकिकं पुरं नागान्दृष्ट्वा स चकितोभवत् ।
वासुकि: प्राह तं कस्त्वं कस्य भक्तोसि मे वद ॥८६॥
॥ चन्द्रागद उवाच ॥
सच्छ्लोकनलवंशोत्थ इंद्रसेनसुतोस्म्यहं ।
चन्द्रांगदाभिधो राजा जामाता चित्रवर्मण: ॥८७॥
कालिंद्यां पतितस्त्वत्र केनानीतो नि वेद्मि तत् ।
दैवाद्वो दर्शनं जातं सफलं जन्म कर्म मे ॥८८॥
सृष्ट्यादिहेतु: सर्वेश: सर्वात्मा चिन्मयोप्यज: ।
कैलासे मूर्तिमद्योस्ति शंभुर्न: कुलदैवतं ॥८९॥
॥ वासुकिरुवाच ॥
पूतोस्यत्र पुरे तिष्ठ भुंजन्भोगानमानुषान् ।
सुंधाकल्पद्रुपूर्णे रुक्शुग्भीनिद्रालयोनिते ॥९०॥
॥ चन्द्रांगद उवाच ॥
मां तु मत्वा मृतं नद्यां पितरौ मे मरिष्यत: ।
शोकार्तापि वधूर्वर्षे वर्तमाने विवाहिता ॥९१॥
श्रुत्वेति चेद्व्रजेत्युक्त्वा रत्नभूषामृतादिकं ।
दत्वाह्यश्वौ मनोवेगौ गमयामास तौ स तु ॥१२॥
स ससर्पोश्वमारुह्य गच्छन् प्रेक्ष्य मनोजव: ।
कालिंद्यां सोमवारे स्वां विरूपां महिषीं जगौ ॥९३॥
वधू: कस्यासि कन्या त्वं शोकार्तासि कुतोंगने ।
सा तच्छ्रुत्वा सखीं प्राह कथयास्मै सविस्तरं ॥९४॥
॥ सख्युवाच ॥
चन्द्रांगदवधूश्चित्रवर्मकन्येयमत्र तु ।
प्रियो नष्टस्तव्छुगाता स्नात्यत्राद्यास्ति सद्व्रतं ॥९५॥
कारायां श्वशुरावस्या: संस्थाप्य बुभुजे स्वयं ।
राज्यं रिपु: सोमवारव्रतमेषा करोत्यत: ॥९६॥
सीमंतिन्यपि तद्रूपं दृष्ट्वा स्वपतिसन्निभ: ।
कोयं धूर्तोस्ति यक्षो वा भाति वा स्वप्नहृद्भ्रम: ॥९७॥
इति मत्वा शुशोचैनामाश्वास्याहैष्यति त्र्यहात् ।
पुण्याद्भर्ता तवेत्युक्त्वा राष्टं चन्द्रांगदो ययौ ॥९८॥
सापि तूष्णीं ययौ राष्ट्रं पितुश्चंद्रांगदस्त्वरिं ।
स्वागमं श्रावयामास स भीतो मुक्तवान्नृपं ॥९९॥
द्विषा क्षमापितो मुक्तश्चन्द्रसेन: समागतं ।
श्रुत्वा नष्टं सुतं वध्वा प्रेमाश्रूत्तोभवत्क्षणात् ॥१००॥
अलंकृतं पुरं सोपि प्रविश्य पितरौ दृढं ।
समालिंग्यादित: सर्वं शशंस पुलकांकित: ॥१०१॥
सर्पं सत्कृत्य राज्याय प्रेरयत्पित्रनुज्ञया ।
गत्वा श्वशुरराष्ट्रं स्वभार्याशोकं जहार स: ॥१०२॥
आनीतानर्धवस्तृनि तस्यै दत्वा तया सह ।
राज्यमेत्याभिशिक्त: स जिष्णुवद्बुभुजे श्रियं ॥१०३॥
इयान् व्रतप्रभावस्तद्व्रतं कुर्वित्यजोब्रवीत् ।
तत: प्रभृत्युभौ भक्त्या चेरतुर्वतमुत्तमं ॥१०४॥
गुर्वाज्ञयेयितुर्गेहं प्रत्यब्दं गुरुदर्शनं ।
कृत्वा श्रीपुत्रपौत्राढ्यावुभयीं सिद्धिमापतु: ॥१०५॥
एवं जगन्मंगलमंगलात्मा मनुष्यभावात्परिगृह्य भक्तान् ।
संचारपूतां जगतीं विधाय ततान लीलाममलाघघ्नीं ॥१०६॥
इति श्रीगुरुचरिते कर्मयोगे दम्पतीगुरुसंवादो नाम चतुर्थोध्याय: ॥४॥ आदित: सप्तदशोsध्याय: ॥१७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-16T21:09:34.2970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

काठार

  • पु. नदी - समुद्राचा कांठ ; किनारा . ( कांठ ) 
RANDOM WORD

Did you know?

सत्यनारायण पूजेला धर्मशास्त्रीय आधार आहे काय? हे व्रत किती पुरातन आहे?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site