TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

श्रीगुरुस्तुति:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


श्रीगुरुस्तुति:
श्रीगुरुचरिते - श्रीगुरुस्तुति:

श्रीवैष्णवैशगाणेशसौर्यशाक्त्यादिरूपधृक् ॥
दत्तात्रेयोsस्त्वजोsनन्त: सदा मे हृदि सद्गुरु: ॥१॥
योsजोsनन्तोsगुणोsरूपो निस्तृडेकोsक्रियोsसृजत् ।
विश्वं धृत्वा षोडशांशं पुंरूषं योगमायया ॥२॥
दृश्यते ज्ञानदृष्टया यत्सहस्राक्षिशिरोङ्घ्रि सत् ।
रूपं यदंगसंस्थानैर्लोकव्यास: प्रकल्प्यते ॥३॥
नानावतारबीजं यदनन्तं यत्कलामुखै: ॥
देवतिर्यड्मुखं सृष्टमस्वतंत्रं जगत्पुरु ॥४॥
गोभि: स्वार्थदानमीशसृष्टं नेशात्परं क्वचित् ॥
देहेन्द्रियात्मजीवोत्थौ रागद्वेषावियन्तु भित् ॥५॥
भूतेट् जोsजोsव्ययात्मापि संभवत्यात्ममायया ॥
श्रेयोsर्हसाधुगुप्त्यै स्वप्रकृतिस्थो युगे युगे ॥६॥
श्रुत्वा तत्कर्म निर्द्वन्द्वो मुच्यते कर्मबन्धनात् ।
न तथा कर्मसिद्धीप्सुर्द्वन्द्वात्मा भ्रान्तहृन्नर: ॥७॥
गुणकर्मभिदा सृष्टचातुर्वर्ण्यस्य सोsव्यय: ॥
कर्ताप्यकर्ता यैर्ज्ञातो बध्यन्ते कर्मभिर्न ये ॥८॥
भूभारभूततद्द्वेष्यघाताय विविधास्तनू: ॥
धृत्वा कंटकमन्वत्वा कृतकार्यो जहात्यसौ ॥९॥
अस्यैवापूर्णकृत्या: स्युस्तन्वस्तासूत्तमोत्तमा ॥
तनुरेकास्ति दत्ताख्या कृपासू: स्मर्तृगामिनी ॥१०॥
मुक्तिर्मुमुक्षुभिश्चान्यैर्ध्येया नान्येदृशी कलौ ।
कामदा यस्य कस्यापि स्मृतिगामिन्यनुक्षणम् ॥११॥
विश्वं ततान योव्यक्तस्तद्यत्स्थं यो न तत्स्थित: ॥
तद्यत्स्थं नैश्वराद्योगात्तद्भृत्तत्स्थो न वायुवत् ॥१२॥
मावशाद्योsवशोsभीक्ष्णं व्यसृजत्तदबंधन: ॥
येनाध्यक्षेण मा सूते जगद्वेदामलं न यम् ॥१३॥
नृरूपेणावतीर्णं यत्तत्त्वाज्ञोsसुरभावग: ॥
न वेत्ति योगगम्यं यं सद्धर्मत्राणकारणम् ॥१४॥
सोsन्वर्थाख्यानसूयात्रिपुत्रो जज्ञेsज ईश्वर: ॥
अचिन्त्याव्यक्तरूपोsपिदत्तोsर्च्य: स्मृतितोषण: ॥१५॥
परानंदमयो विष्णुर्हृत्स्थोsवेद्योप्यतीन्द्रिय: ।
सदा संपूज्यते भक्तिर्भगवान् भक्तिभावन: ॥१६॥
अचिन्त्यस्य कुतो ध्यानं कूटस्थावाहनं कुत: ।
क्कासनं विश्वसंस्थस्य पाद्यं पूतात्मन: कुत: ॥१७॥
क्कानर्घोरुक्रमस्यार्घ्यं विष्णोराचमनं कुत: ।
निर्मलस्य कुत: स्नानं क्क निरावरणेsम्बरम् ॥१८॥
स्वसूत्रस्य कुत: सूत्रं निर्मलस्य च लेपनम् ।
निस्तृष: सुमनोभि: किं किमक्लेद्यस्य धूपत: ॥१९॥
स्वप्रकाशस्य दीपै: किं किं भक्ष्याद्यैर्जगद्भृत: ।
किं देयं परितृप्तस्य विराज: क्क प्रदक्षिणा: ॥२०॥
किमनंतस्य नतिभि: स्तौति को वागगोचरम् ।
अंतर्बहि:प्रपूर्णस्य कथमुद्वासनं भवेत् ॥२१॥
सर्वतोपीत्यसंभाव्यो भाव्यते भक्तिभावन: ।
सेव्यसेवकभावेन भक्तैर्लीलानृविग्रह: ॥२२॥
तवेशातींद्रियस्यापि पारंपर्याश्रुतां तनुं ।
प्रकल्प्याश्मादावर्चंति प्रार्चयेsर्चां मनोमयीं ॥२३॥
कलसुश्लोकगीतेन भगवन्दत्त जागृहि ।
भक्तवत्सल सामीप्यं कुरु मे मानसार्चने ॥२४॥
श्रीदतं खेचरीमुद्रामुद्रितं योगिसद्गुरुं ।
सिद्धासनस्थं ध्यायेsभीवरप्रदकरं हरिम् ॥२५॥
दत्तात्रेयाह्वयाम्यत्र परिवारै: सहार्चने ।
श्रद्धाभक्त्येश्वरागच्छ ध्यातधाम्नांजसा विभो ॥२६॥
सौवर्णं रत्नजडितं कल्पितं देवतामयम् ।
रम्यं सिंहासनं दत्तं तत्रोपविश यंत्रिते ॥२७॥
पाद्यं चंदनकर्पूरसुरभि स्वादु वारि ते ।
गृहाण कल्पितं तेन दत्तांघ्री क्षालयामि ते ॥२८॥
गंधाब्जतुलसीबिल्वशमीपत्राक्षतान्वितम् ।
सांम्बर्ध्यं स्वर्णपात्रेण कल्पितं दत्त गृह्यताम् ॥२९॥
सुस्वाद्वाचमनीयांबु हैमपात्रेण कल्पितम् ।
तुभ्यमाचम्यतां दत्त मधुपर्कं गृहाण च ॥३०॥
पुष्पवासितसत्तैलमंगेष्वालिप्य दत्त भो: ।
पंचामृतैश्च गांगाद्भि: स्नानं ते कल्पयाम्यहं ॥३१॥
भक्त्या दिगंबराचांतजलेदं दत्त कल्पितम् ।
काषायपरिधानं तद् गृहाणैणेयचर्म च ॥३२॥
नानासूत्रधरैते ते ब्रह्मसूत्रे प्रकल्पिते ।
गृहाण दैवतमये श्रीदत्त नवतंतुके ॥३३॥
भूतिमृत्स्नासुकस्तूरीकेशरान्वितचंदनम् ।
रत्नाक्षता: कल्पितास्त्वामलंकुर्वेsथ दत्त तै: ॥३४॥
सच्छमीबिल्वतुलसीपत्रै: सौगंधिकै: सुमै: ।
मनसा कल्पितैर्नानाविधैर्दत्तार्चयाम्यहम् ॥३५॥
लाक्षासिताभ्रश्रीवासश्रीखंडागुरुगुग्गुलै: ।
युक्तोsग्नियोजितो धूपो हृदा स्वीकुरु दत्त तम् ॥३६॥
स्वर्णपात्रे गोघृताक्तवर्तिप्रज्वालितं हृदा ।
दीपं दत्त सकर्पूरं गृहाण स्वप्रकाशक ॥३७॥
सषड्रसं षड्विघान्नं नैवेद्यं गव्यसंयुतम् ।
कल्पितं हैमपात्रे ते भुंक्ष्व दत्तांब्वद: पिब ॥३८॥
प्रक्षाल्यास्यं करौ चाद्भिर्दत्ताचम्य प्रगृहताम् ।
तांबूलं दक्षिणां हैमीं कल्पितानि फलानि च ॥३९॥
नीराज्य रत्नदीपैस्त्वां प्रणम्य मनसा च ते ।
परितस्त्वत्कथोद्धातै: कुर्वे दत्त प्रदक्षिणा: ॥४०॥
मंत्रवन्निहितो मूर्ध्नि दत्त ते कुसुमांजलि: ।
कल्प्यंते मनसा गीतवाद्यनृत्योपचारका: ॥४१॥
प्रेर्यमाणप्रेरकेण त्वया दत्तेरितेन ते ।
कृतेयं कनसा पूजा श्रीमंस्तुष्टो भवानया ॥४२॥
दत्त मानसतल्पे मे सुखनिद्रां रह: कुरु ।
रम्ये व्यायतभक्त्यामतूलिकाढ्ये सुवीजिते ॥४३॥
रसज्ञा वशा तारकं स्वादु लभ्यं गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥४४॥
वियोन्यंतरे दैवदार्ढ्याद्विभो प्राग्गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥४५॥
मया मातृगर्भस्थितिप्राप्तकष्टाद् गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥४६॥
मया जातमात्रेण संमोहितेन गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥४७॥
मया क्रीडनासक्तचित्तेन बाल्ये गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥४८॥
मया यौवनेsज्ञानतो भोगतोषाद् गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥४९॥
मया स्थाविरेsनिघ्नसर्वेद्रियेण
गृहीतं कदाचिन्न ते नाम दत्त ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वाप्राधं प्रभो क्लिन्नचित्त ॥५०॥
हृषीकेश मे वाङ्मन:कायजातं
हरेsज्ञानतो ज्ञानतो विश्वसाक्षिन् ।
क्षमस्वापराधं क्षमस्वापराधं
क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥५१॥
स्मृतो ध्यात आवाहितोस्यर्चितो वा
न गीत: स्तुतो वंदितो वा न जप्त: ।
क्षमस्वपराधं क्षमस्वापराधं
क्षमस्वपराधं प्रभो क्लिन्नचित्त ॥५२॥
दयाब्धिर्भवादृङ् न सागाश्च मादृ -
ग्भवत्याप्तमंतोर्भवान्मे शरण्य: ।
यथालम्बनं भूर्हि भूनि:सृतांघ्रे -
रिति प्रार्थितं दत्तशिष्येण सारम् ॥५३॥
दत्तं वन्दे दशातीतं दयाब्धिं दहनं दमं ।
दक्षं दरघ्नं दस्युघ्नं दर्शं दर्पहरं दवम् ॥५४॥
दातारं दारुणं दान्तं दास्यादं दानतोषणम् ।
दानं दावप्रियं दावं दासत्रं दारवर्जितम् ॥५५॥
दिक्पं दिवसपं दिक्स्यं दिव्ययोगं दिगंबरम् ।
दिव्यं दिष्टं दिनं दिश्यं दिव्यांगं दितिजार्चितं ॥५६॥
दीनपं दीधितिं दीप्तं दीर्घं दीपं च दीप्तगुं ।
दीनसेव्यं दीनबंधुं दीक्षादं दीक्ढितोत्तमम् ॥५७॥
दुर्ज्ञेयं दुर्ग्रहं दुर्गं दुर्गेशं दु:खभंजनम् ।
दुष्टघ्नं दुग्धपं दु:खं दुर्वासोग्र्यं दुरासदम् ॥५८॥
दूतं दूतप्रियं दृष्यं दूष्यत्रं दूरदर्शिपम् ।
दूरं दूरतमं दूर्वाभं दूरांगं च दूरगम् ॥५९॥
देवार्च्यं देवपं देवं देयज्ञं देवतोत्तमम् ।
देहज्ञं देहिनं देशं देशिकं देहिजीवनम् ॥६०॥
दैन्यं दैन्यहरं दैवं दैन्यदं दैविकांतकम् ।
दैत्यघ्नं दैवतं दैर्घ्यं दैवज्ञं दैहिकार्तिदम् ॥६१॥
दोषघ्नं दोषदं दोषं दोषित्रं दोर्द्वयान्वितम् ।
दोषज्ञं दोहपं दोषेड्रबन्धुं दोर्ज्ञं च दोहदम् ॥६२॥
दौरात्म्यघ्नं दौर्मनस्यहरं दौर्भाग्यमोचनम् ।
दौष्ट्यत्रं दौष्कुल्यदोषहरं दौर्हृद्यभंजनम् ॥६३॥
दण्डज्ञं दण्डिनं दण्डं दंभघ्नं दम्भिशासनम् ।
दन्त्यास्यं दन्तुरं दंशिघ्नं दण्ड्यज्ञं च दण्डदम् ॥६४॥
अनन्तानन्तनामानि सन्ति तेsनंतविक्रम् ।
वेदोsपि चकितो यत्र नुर्वाघृद्दूर का कथा ॥६५॥
नामरूपगुणातीत भेदसंगविवर्जित ।
एक एवाद्वितीयोsसि परमात्मन्हि नाकवत् ॥६७॥
बहुरूपाप्रमेया ते मायैषा जगदीश्वर ।
मन्यते मेsहमित्यस्या रममाणो गुणेष्वसौ ॥६८॥
कारणं त्विदमेवात्र जगद्विपरिवर्तने ।
येषां नाव्यक्त गम्योsसि त्वमेव परमा गति: ॥६९॥
आसत्यलोका लोकास्ते पुनरावर्तिनोsक्षर ।
तस्मात्त एव धन्या: स्युर्गृहीतं धाम यैस्तु ते ॥७०॥
नानुमानेव ते धाम ग्रहीतुं शक्यते ह्यत: ।
मृग्योsसि पुरुषेणैव बुद्धयादिगुणहेतुभि: ॥७१॥
पुंस्त्वेsप्यर्क इवांधानां गोकल्पानामतींद्रिय ।
स्वप्नेsपि नैव ते वार्ता पुन: प्रत्यक्षता कुत: ॥७२॥
प्रेष्ठत्वद्भक्तसंयोगविवेकामलदृष्टिभि: ।
सांख्ययोगपरैर्धीरै: क्रमात्ते धाम गम्यते ॥७३॥
तस्माद्दत्तं नृजन्मेदं त्वया दिष्टयाsमृतक्षमं ।
सद्दृष्टिदानाद्भगवंस्तत्साफल्यं कुरु प्रभो ॥७४॥
त्वत्प्रेमभक्त्यैव सदा मदात्मा
धिया धियं दृष्टिमपीश दृष्ट्या ।
अंगै: सदांगानि दृढं दयाब्धे
हरे निबध्नात्विति मेस्ति याच्ञा ॥७५॥
पादौ त्वदीयालयतीर्थयात्राविहारिणावर्चनतत्परौ मे ।
करौ रसज्ञापि भवत्वजस्रं सत्त्वत्कथोद्धातरसज्ञतोत्का ॥७६॥
त्वत्पादपद्मच्युतपुष्पगंधं नासा भजत्वक्षियुगं गुणात्मन् ।
त्वन्मूर्तिमासेचनकां श्रुती मे श्राव्यास्त्वदीया भगवन्कथाश्च ॥७७॥
त्वदीयभक्तांघ्र्यामलाब्जपूतां धूलिं मदंगानि सदा वहंतु ।
मनस्तुरंगो निवसत्वजस्रं त्वय्येव दीर्पोsग यथा निवाते ॥७८॥
शिरो नमत्वीश्वर तेंध्रिपद्मं देह: सदालिंगयतु त्वदर्चाम् ।
एषा त्वदीयैव तनुस्त्वमेव संबंधिनो मे न हि केsद्वितीय ॥७९॥
नूनं भवानृषिर्नैव न वर्णाश्रमलिंगभाक् ।
निर्मितं भवतैवेदं विश्वं स्वांशांशतोsखिलम् ॥८०॥
न जानंति भवन्मायामोहिता दिव्यमुत्तमं ।
भवद्धामात एवैते भ्रमंत्यसुरभावगा: ॥८१॥
कर्ता भर्तासि हर्ता त्वं प्रत्यक्षं तत्त्वमस्यपि ।
भो सर्वं खल्विदं ब्रह्म त्वमस्यात्मासि केवलं ॥८२॥
त्वदुदेति रमत्येतद्विश्वं त्वय्येव लीयते ।
अष्टमूर्तिभिराभिस्त्वमाभासीव जगन्मय: ॥८३॥
दिक्पाला लोकपालाश्च श्रूयते दृश्यतेsखिलं ।
चराचरं जगल्लोका विष्णो तेsवयवा अमी ॥८४॥
निगूढतत्त्व ते ज्ञातं यत्किंचिल्लोकदुर्ग्रहं ।
चेष्टितं ते प्रसादोयं प्राक्पुण्यैर्मय्युपस्थित: ॥८५॥
सुखमैंद्रियकं क्कापि न कांक्षे ते पदाश्रित: ।
नाकादीन्न प्रशंसामि नैव निंदामि नारकान् ॥८६॥
यथेच्छं क्कापि मां कर्मयोगात्स्थापय विश्वभृत् ।
मां यत्र क्कापि ते भक्तिर्न जहात्विति कांक्षितम् ॥८७॥
स्तुवंतु निंदंत्वपि ताडयंतु मां पूजयंत्वत्र जना न वापि ।
देह: पतत्वद्य युगांतरे वा न किंचिदिष्टं न च मेप्यनिष्टम् ॥८८॥
हृद्धयात्मेंद्रियवाक्कायै: सदा प्रकृतिभावत: ।
यद्यत्करोम्यर्पयामि परात्मन्दत्त सर्व ते ॥८९॥
लीलात्मना योsत्रिगृहेवतीर्णो दत्ताख्य उन्मत्तपिशाचवद्य: ।
बालो युवा क्कापि जरन्जटाभृत्क्कचिदृषिर्व्यक्तपरीक्षितश्च ॥९०॥
त्यागी सुभोगी क्कचिदस्ति संगी योगी सुवासा: क्कचिदस्ति नग्न: ।
तुष्ट: कृश: पुष्ट इह क्कचिद्यो दंडी च भिक्षु: क्कचिदस्ति वर्णी ॥९१॥
गृही वनी वर्णविरुद्धचेष्ट: क्कचिच्च वर्णाश्रमधर्मयुक्त: ।
इत्यादयो यस्य विचित्रचेष्टादेवर्षिहृद्वागयनं व्यतीता: ॥९२॥
यो भक्तरक्षाक्षण एव यस्य वै सेवा स्मृतिर्भोज्यनिवेदनं धिया ।
पूजा फलं योsर्पयतीह दुर्लभं भक्तस्मृतौ संनिधिकृत्क्षणे क्षणे ॥९३॥
यस्यास्ति माहुरे निद्रा निवास: सह्यपर्वते ।
भागीरथ्यां सदा स्नानं ध्यानं गंधर्वपत्तने ॥९४॥
कुरुक्षेत्रे चाचमनं धूतपापेश्वरे तथा ।
विभूतिधारणं संध्या करहाटे श्रिय: पुरे ॥९५॥
भिक्षा विठ्ठलपुर्यस्य सुगंधिद्रव्यधारणं ।
भुक्ति: सारपुरे सायंसंध्यां पश्चिमसागरे ॥९६॥
स एष भगवान्दत्त: सदा वसतु मे हृदि ।
हृद्धींद्रियादिव्यापारे सदा तत्स्मृतिरस्तु मे ॥९७॥
पादादि मूर्धपर्यंतमेतद्वै भौतिकं वपु: ।
परिरक्षतु विश्वात्मा सदा सर्वत्र सर्वत: ॥९८॥
अपाणिपादो जवनो ग्रहीता
पश्यत्यदृग्योपि शृणोत्यकर्ण: ।
यो वेत्ति वेद्यं न हि यस्य वेत्ता
सोsग्र्य प्रधान: पुरुषो हि दत्त: ॥९९॥
आधारभूत: स्थिरजंगमानां
क्षमास्वरूपस्थितिरस्ति नित्यं ।
आप्यायते यो जगदप्स्वरूपी
सर्वाघहृत्स्थास्नुचरिष्णुजीव: ॥१००॥
वैश्वानरात्माखिलदेहसंस्थ: पचत्यसौ प्राणसख: सदान्नं ।
यो भास्वदात्माखिलकर्मसाक्षीविश्वं सदा चेतयते स्वभासा ॥१॥
योsब्जो रसात्मा सकलौषधीर्वै पुष्णाति संतापहरोsखिलेड्य: ।
क्षेत्रेषुभूत्वा दशधाखिलेषुप्राणात्मको य: पवतेsखिलात्मा ॥२॥
आकाशरूपोsखिलगोsपि सौक्ष्म्या -
द्योsभेदसंग: किल शब्दसंस्थ: ।
भुनक्ति चोत्क्रामति तिष्ठतेपि
मूढा विदुर्यं न सदात्मरूपम् ॥३॥
य: सर्वहृत्स्थोsस्य यत: स्मृतिर्विद्वेदांतकृद्योपि च वेदवेद्य: ।
समौ यदंशौ सयुजौ सुपर्णौ वृक्षाश्रितौ भुक्त्यवलोकनोत्कौ ॥४॥
सत्वं परात्मा पुरुषोत्तम श्रुतिख्यात: समाविश्य जगत्त्रयं सदा ।
ईशाव्ययानंत बिभर्षि दत्त ते पादाब्जयुग्माय नमोस्तु सर्वदा ॥५॥
वज्रांकुशध्वजाब्जांकयुग्रक्ताब्जाभपत्तल: ।
गूढगुल्फ: कूर्मपृष्ठोल्लसत्पादोपरिस्थल: ॥६॥
जानुपूर्वकजंघश्च विशालजघनस्थल: ।
पृथुश्रोणिश्च काकुत्स्थश्चारुनाभिर्दलोदर: ॥७॥
अररोरा मांसलांसो युगव्यायतबाहुक: ।
सुचिह्नचिन्हितकर: कंबुकंठ: स्मितानन: ॥८॥
स्नैग्ध्यधावल्ययुक्ताक्षश्चलत्पिंगजटाधर: ।
चंद्रकांति: प्रभु: कृष्णभ्रूर:श्मश्रुकनीनिक: ॥९॥
भावशुद्धद्विजाकीर्णस्वास्याब्जोsभीवरप्रद: ।
दत्तात्रेय: स भगवान्सदा वसतु मे हृदि ॥१०॥
कलौ द्विराविरासीत्स दीनान्त्रातुं जनान्कलौ ।
सद्धर्मगुप्त्यै श्रीपादनरहर्यभिधानत: ॥११॥
उड्डीयंते यथाशक्ति यथोच्चावचपक्षिण: ।
अनंतेsनंतलीलां तन्न्यायाद्वक्ष्ये यथामति ॥१२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-16T21:09:33.0130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

red cell diapedesis

  • लोहिता पारण 
RANDOM WORD

Did you know?

संत ज्ञानेश्वरांनि हे म्हटले आहे का ?
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site