अथ योगरहस्यम्

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


श्रष्ठपुंजन्मसाफल्यं कार्यं योगत्रयाश्रयात् ।
समाख्यातद्विसाहस्त्रीसंहितासंग्रहस्त्वयं ॥१॥
भक्तिं विना न साफल्यं कर्मण: कर्मणा विना ।
न च ज्ञानं विना ज्ञानान्न मोक्षो यस्य कस्यचित् ॥२॥
न ज्ञानं जीवति प्राणे मनस्यपि लयं नयेत् ॥
यस्तौ गच्छति मोक्षं स योगी नान्य: कथंचन ॥३॥
चले प्राणे चलं चित्तं निश्चले निश्चलं तयो: ।
नष्ट एकतरे नाशो द्वयोरपि स योगत: ॥४॥
भक्तिक्रियाज्ञानयोगान्मुक्तिरुक्तापि तत् त्रयं ।
ज्ञेयं साष्टांगयोगांतर्गतं द्वैधमतोत्र नो ॥५॥
नात्यश्नतोनश्नतोतिसुप्तस्यैष न जाग्रत: ।
युक्तचेष्टाहारनिद्रागतेर्योगो भवेत्सुख: ॥६॥
तस्माद्वैराग्यतोभ्यासं गुरोरग्रे वितन्वत: ॥
योगस्य प्राप्य संसिद्धिं विद्वान्मुक्तो भवेद्द्रुतं ॥७॥
क्षाराम्लतिक्तकटुरुक्षकदन्नशाकस्त्र्यग्न्यध्वभाङ् न लभतेs कुशलोस्य सिद्धिं । शुंठीसितासुमनशालिसदन्नमुद्गचक्षुष्यशाक्घृतदुग्धसदंबुपथ्यं ॥८॥
सद्देशे मठिकामध्ये निश्चिंतो गुरुशिक्षित: ।
कुशाजिनांशुकेष्वेव हठयोगं समभ्यसेत् ॥९॥
गुदमेंढ्रोर्ध्वस्थगुल्फमासीनो यतगु: सम: ।
भ्रूमध्यदृग्वान्यपीठै: सिद्धं तत्राप्यदोस्ति सत् ॥१०॥
वायुं शक्त्येडयापूर्य हृदि स्थाप्य हनुं जपन् ।
हंसं शक्त्या कुंभयित्वा पश्चादाकर्षितोदर: ॥११॥
शनैर्विरेचयेदेष प्राणायाम: सुसिद्धिद: ।
पंचर्द्यान्ह्यन्ह्यशीत्यंतै: प्रतिसंध्यसुयामकै: ॥१२॥
गंतव्यमार्गस्थशक्तिचालनाद्भस्रया भवेत् ॥
नाडॆएशुद्धिस्त्रिमासोर्ध्वं प्राणो याति लयं सहृत् ॥१३॥
लीन: सपंचविपलद्विपलं सोसुयामक: ॥
ब्रह्मरंध्रे वर्धमानं प्रत्याहारादय: स त ॥१४॥
स्वकालद्वादशगुणोत्तरकालवधि: स्मृत: ।
समाधिर्द्वादशदिनसाध्य: परमदुर्लभ: ॥१५॥
समासीनो यतार्स्योत:प्राणं दक्षिणया त्यजेत् ।
सारं लगति हृत्कंठकपोलावध्यसौ यथा ॥१६॥
लोहकारस्य भस्रावच्छवत्याश्वापूर्य रेचयेत् ।
वामां मध्यानामिकाभ्यां धृत्वा जाते श्रमे विधे: ॥१७॥
पीत्वा प्राणं कुंभयित्वा धृत्वांगुष्ठेन दक्षिणं ।
वामया रेचयेन्मंदं तथाथ प्राग्वदाचरेत् ॥१८॥
द्विनाड्यभ्यासाद्यामार्धं शक्तिर्मार्गं ददात्यरं ।
भस्रेयं सर्वदोषघ्नी रुक्पापघ्न्यपि सिद्धिदा ॥१९॥
शिश्ननाभ्यंतस्थकंदं सति वज्रासने पदौ ॥
धृत्वा दृढं प्रपीड्यारं भस्रां सिद्धसनस्थित: ॥२०॥
समाकुंचितनाभिर्द्राक्कुर्याच्छक्तिश्चलत्यत: ।
यामार्धाभ्यासतो धैर्यान्मध्यनाड्यां समुद्गता ॥२१॥
ऊर्ध्वाकृष्टा भवेत्किंचिच्छक्तिर्नाडीमुखं त्यजेत् ।
तत: स्वतो व्रजत्यूर्ध्वं प्राणोतस्तां विचालयेत् ॥२२॥
चालनात्सर्वसिद्ध्याप्तिर्मडलाद्योगिनो न तु ।
रुग्भ्यो भयं यमाच्चापि नेतोन्यन्नाडिशोधनं ॥२३॥
चालितायामपि प्राणो बद्धा चेद्रसना सुखं ।
व्रजत्यूर्ध्वं सिद्धिपूर्वं राजयोगपदप्रद: ॥२४॥
जिव्हां मूलशिरां छित्वा रोममात्रं प्रघर्षयेत् ।
पथ्यासैंधवचूर्णैर्गां प्राग्वत्सप्तदिनैर्मुहु: ॥२५॥
षण्मासादिति जिव्हाध: शिराबंधो विनश्यति ॥
मुद्रा स्यात्खेचरी त्र्यध्वे योजितावाड्मुखी कला ॥२६॥
सहज्जिव्हा चरत्यस्य खे कदापि स्पृशंति नो ।
विषार्तिरुग्जराक्षुत्तृण्निद्रातंद्रामृतिक्रिया: ॥२७॥
स्त्र्याश्लेषितस्यापि बिंदुर्न क्षरत्यूर्ध्वमेति स: ।
चलितश्चेद्योनिमुद्राबद्धो मुक्त: स भोग्यपि ॥२८॥
सुधांत:स्रवतींदोस्तां ग्रसत्यर्कस्ततो जरा ।
अध: शीर्षोर्ध्वपात्तिष्ठेद्बव्हाहार: शनै: शनै: ॥२९॥
याममात्रं तत: सिद्धिर्व्यस्तेयं करणीष्टदा ।
वलीपलितवेपघ्नी मृत्युहर्ती सुधाप्रदा ॥३०॥
स्वास्येग्नौ दीप्तेंगसग्दे नाडीशुद्धावनामये ।
नादस्फुटत्वे सुदृष्ट्या: सिद्धिर्बिंदौ जिते सति ॥३१॥
विविधा उपसर्गा: प्राक्संभवंत्यत्र योगिन: ।
सद्गुरोर्दृढभक्त्या ते प्रणश्यंति न चान्यथा ॥३२॥
कारणं कर्मारुरुक्षोर्योगिनो योगमुत्तमं ।
शम: कारणमस्याग्रे योगारूढस्य योगिन: ॥३३॥
कामवेगसहोंतर्दृक् सुखारामोभितो यति: ।
ब्रह्मनिर्वाणमेत्येव ब्रह्मभूतोमल: सम: ॥३४॥
कश्चिद्धारणयोपास्ते ध्यानात्कश्चित्समाधिना ।
आत्मानमेवमाप्त्वेमां सिद्धिं मुक्तो भवत्यसौ ॥३५॥
हृद्युपास्यो धारणया वराभयकरो हरि: ।
प्रादेशमत्र: सुसिद्ध: खेचरीमुद्रया युत: ॥३६॥
अंगुष्ठमात्रं पुरुषं दत्तात्रेयं दिगंबरं ।
ध्यायेत्सिद्धासनासीनं द्युनिशं कंठसंस्थितं ॥३७॥
सहस्रदलपद्मस्थं सुसूक्ष्मं शांतमुज्वलं ।
समाधिना द्वादशाहं तन्मयो भावयेत्परं ॥३८॥
अंतर्लीनसहृत्प्राणो पश्यन्नचलदृग्बहि: ।
मुद्रेयं शांभवी शून्याशून्यलक्ष्मपदप्रदा ॥३९॥
तद्वान् दृढासनो दक्षकर्णे रुद्धबिलो ध्वनिं ।
त्रिग्रंथिभेदं श्रृणुयात्सुसूक्ष्मं स समाधिभाक् ॥४०॥
यमेन दशधा नूनं दशधा नियमेन च ।
आसनाद्येन षट्केन योगोष्टांगोयमुच्यते ॥४१॥
एतेनाष्टांगयोगेन प्रबुद्ध: स्वल्पसंविदा ।
शुभाशुभविनिर्मुक्तो देही ब्रह्ममयो भवेत् ॥४२॥
इदं रहस्यं परमं नाख्येयं यस्य कस्यचित् ।
इति योगाख्यं प्रथमं रहस्यम् ॥

N/A

References : N/A
Last Updated : December 16, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP