TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथैकादशोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


अथैकादशोsध्याय:
॥ नामधारक उवाच ॥
क आगतश्छातजिह्व: कथं भगवतोद्धृत: ।
तत्कथामृतमास्वाद्य तृष्ण मेतीव वर्धते ॥१॥
॥ सिद्ध उवाच ॥
करवीरे सुधीपुत्रो जातोज्ञस्तं जगुर्बुधा: ।
विपुच्छशंगो गौस्त्वं गोभाग्यं नात्तं तृणं तु यत् ॥२॥
विद्या निधिर्हर्त्रलभ्य: स शिष्यार्पित एधते ।
श्रेष्ठेष्वर्च्यं करोत्यूनं क्काप्यस्वं च धनान्वितम् ॥३॥
सुखे स्त्रीवावनेम्बेव सखेव क्कापि तातवत् ।
हिते बोधे च गुरुवद्विद्या धिक्त्वामविद्य रे ॥४॥
इति निर्भर्त्सितत्रस्तो भिल्लवाटीं ययौ स तु ।
र्पायोपविष्टोनशन आनर्च भुवनेश्वरीम् ॥५॥
दत्वाsलब्धप्रसादोस्यै जिह्वां छेत्तुं कमुद्यत: ।
स्वप्ने देव्याह तं दण्डी कृष्णातीरेस्ति तं भज ॥६॥
इति श्रुत्वा दु:खितोपि धृत्यागत्य स सद्गुरुम् ।
ननामाश्रूत्तगात्रस्तन्मूर्ध्न्यधाच्छरीगुरु: करं ॥७॥
स्पर्शेयोपि यथा हंस: काकोपि मानसे ।
यथा विद्वांस्तथाभूत्स सुजिह्व: स्पर्शनाद्विभो: ॥८॥
वज्रांकुशध्वजाब्जांकं ध्यायंत्यघ्र्यब्जमस्य ये ।
अपैति तत्प्रसादाद्धीजाड्याद्यं नात्र चित्रमित् ॥९॥
गुर्वाज्ञया गृहं गत्वा सिद्धिं प्रापोभयीं द्विज: ।
भगवांस्तत उत्थाय दक्षिणाभिमुखो ययौ ॥१०॥
कृष्णावेणीपंचनदीसंगमं सुमनोहरम् ।
अष्टतीर्थान्वितं पुण्यं दृष्ट्वा तस्थौ परे तटे ॥११॥
सरस्वती शिवा भद्रा कुंभी भोगवतीत्यमू: ।
कृष्णावेण्यो: संगतास्तत्संगमस्तूत्तमोत्तम: ॥१२॥
स्थलं कुरुपुराख्यं तत्कुरुक्षेत्राधिपुण्यदं ।
साक्षात्प्रयागोयमग्रे काश्या: श्रेष्ठं महास्थलं ॥१३॥
तत्रोदुंबरकल्पद्रुर्विश्वेट्तुल्योमरेश्वर: ।
योगिन्योपि चतु:षष्टिर्नरोप्यत्रामरो भवेत् ॥१४॥
स्वर्याति ना तप:स्नायी संगतेत्र सितासिते ।
तीर्थान्यवाक्प्रवाहेत्र महाघघ्नानि कोटिश: ॥१५॥
मुमुक्ष्वाश्वासनं कामिहितं सत्तमरंजनम् ।
दृष्ट्वाश्रमं मूर्तिमत्स्वं परात्मोदुंबरे व्यधात् ॥१६॥
सद्विद्याढ्यामरपुरं प्राङ्निरीक्ष्यैत्य तत्र स: ।
स्वाचारं वैदिकं दीनं प्रभुर्भिक्षां स्म याचते ॥१७॥
भिक्षावृत्तेस्तदा साध्वी सात्विकस्य कुटुंबिनी ।
अन्नाभावाद्ददौ शाकमातिथेयी तु भिक्षवे ॥१८॥
भक्त्यार्पितमपि प्राश्य शाकं संतृप्त ईश्वर: ।
तत्र शाकलतां दृष्ट्वा तामुत्पाट्याश्रमं ययौ ॥१९॥
तदा स्त्रीर्दु:खिता प्राह योगक्षेमकरी कुत: ।
उन्मूलिता लता नैव भिक्षाशाठ्यं मया कृतम् ॥२०॥
तां भर्तोचे मौनमेहि न कोपि सुखदु:खद: ।
लोका: स्वकर्मसूत्रोता वृथाहंकारसंश्रिता: ॥२१॥
ईशाधीनं जगत्सर्वं येनाप्तव्यं तु यत्तत: ।
कोपि नेशोन्यथाकर्तुमायुश्चान्नं स यच्छति ॥२२॥
विश्वोद्भवलयत्राणनिदानस्यास्य चैकदृक् ।
प्राज्ञेज्ञे राज्ञि रंकेपि मा शुचस्तारकोस्त्ययं ॥२३॥
इत्याश्वास्य वधूं विप्रो मूलमुत्खाय तत्र स: ।
अर्थपूर्णं घटं लेभे सद्गुरो: सम्प्रसादत: ॥२४॥
सभार्योथ द्विजो गत्वा शशंस गुरवे तु तत् ।
स प्राह दंपती गोप्यमिदं श्रीर्नान्यथा ध्रुवा ॥२५॥
ऐश्वर्यपुत्रपौत्राढ्यौ संभूयात्र निरामयौ ।
मोक्षं गमिष्यथो नूनं गन्तव्यं सुखमालयं ॥२६॥
॥ नामधारक उवाच ॥
भिक्षावृत्ति: प्रभो: कस्मात्कल्पद्रुम उदुंबर: ।
सति पूज्यतमेश्वत्थे कुतो भगवता श्रित: ॥२७॥
॥ सिद्ध उवाच ॥
पक्कान्नभिक्षुको भिक्षुरिति श्रुतमतं प्रभु: ।
भिक्षु: सन्लीलया भेजे शम्भुवृत्तिरियं पुन: ॥२८॥
नखा नृसिंहावतारे विषार्ता दैत्यदारणात् ।
शान्ता औदुंबरै: सोथ प्रीत्यानेन सदाश्रित: ॥२९॥
यत्र क्काप्येष कल्पद्रुर्भूयात्तापाघदैन्यहृत् ।
कामदोहं श्रियात्रासमिति तस्मै वरोर्पित: ॥३०॥
विश्वात्मा यत्र तत्रैव वेदतीर्थामरा अपि ।
संत्युदुंबर एवात्र कल्पद्रुर्भुवि नापर: ॥३१॥
तस्मादुदुंबरतले भिक्षां कुत्रापि विश्वभृत् ।
अकृत्वा कामरूपाभिर्योगिनीभि: स्थितोर्चित: ॥३२॥
अज्ञानावृतविप्रास्तदज्ञात्वोचु: परस्परम् ।
कथं जीवत्यकृत्वायं भिक्षां मृग्यं तदद्य हि ॥३३॥
इत्थं विचार्य तस्थुस्ते मध्याह्ने योगिमायया ।
त्रस्ता ग्रामं ययु: कोपि ज्ञातुं शक्योस्य चेष्टितम् ॥३४॥
श्रीगुरुं द्रष्टुमागत्य भाविको भक्तिभावनम् ।
गंगानुजाख्यभक्तोत्र दृष्टवान् चित्रमेकदा ॥३५॥
जलपूर्णापि कृष्णादान्मार्गं तेनागमत्प्रभु: ।
ददर्शान्वेत्य भक्तोपि पुरीं दिव्यामिवांतरे ॥३६॥
नीराजितो योगिनीभी रत्नसिंहासनस्थित: ।
स्वर्चित: प्रेक्ष्य तं देव: प्राह कोस्यागत: कुत: ॥३७॥
॥ गङ्गानुज उवाच ॥
गङ्गानुजाभिधोहं त्वामत्रत्यो द्रष्टुमन्वगां ।
भवान्परात्मा सर्वेशो दैवान्मेद्यात्र गोचर: ॥३८॥
त्वन्मायामोहितात्मानस्त्वां विदु: केवलं नरम् ।
संसारसागरेपारे ततो मज्जंति नेतरे ॥३९॥
इति प्रेम्णा स्तुतस्तस्मै हृद्यं दत्वेश्वरोब्रवीत् ।
मयि सत्यत्र यद्दृष्टं नाख्येयं कस्यचित्त्वया ॥४०॥
इत्युक्तो गुरुणा हृष्टो भक्त: क्षेत्रं स्वमेत्य स: ।
लेभेsसम्भाव्यसस्यर्धिं लोके श्रैष्ठयं च संविदं ॥४१॥
स एत्य नित्यमानर्च गुरुं प्राहैकदा गुरो ।
काश्यां तु त्रिस्थलीयात्रा वरेत्याहुर्न वेद्मि तां ॥४२॥
॥ श्रीगुरुरुवाच ॥
प्रयाग: संगम: काशीयं गया करवीरपू: ।
दर्शयामीदमेतद्वत्त्रिस्थलं ते द्रुतं परं ॥४३॥
इत्युक्त्वा धारयित्वा स्वपादुके त्रिस्थलीं त्विमां ।
प्रयागकाश्यौ गयां च दर्शंयित्वागमत्क्षणात् ॥४४॥
तमाह त्रिस्थली त्वेषा दर्शितान्यापि तादृशी ।
साम्यं ज्ञात्वोभयोरत्र स्वाचारान्मुक्तिमेष्यसि ॥४५॥
इति योगीशवाक्यं स श्रुत्वा ज्ञात्वास्य चेष्टितं ।
तद्धयानात्कर्मबन्धं द्राक्छित्वा मुक्तो बभूव ह ॥४६॥
वृद्धोत्र महिमा संत आयास्यंतीतरेsप्यत: ।
गंतव्यं क्कापि न स्थेयं साक्षादत्रेत्यमंस्त स: ॥४७॥
नो हित्वाद्य क्क यासीति विलपंती: स योगिनी: ।
आश्वास्योचेत्र तिष्ठामि लोकदृष्ट्या गमिष्य इत् ॥४८॥
इत:प्रभृत्यद: क्षेत्रं सुप्रसिद्धं भविष्यति ।
बहुलोकनिवासोत्र यास्यंत्यत्र जना: सुखं ॥५०॥
सन्निपाताक्षिरुड्मेहकुष्ठश्लेष्मक्षयज्वरान् ।
वातपैत्तिकगुल्माद्यान् देशाद्युत्थान्हरेदिदं ॥५१॥
पुत्रं वंध्याभयं त्रस्तो नि:स्व: स्वं रोग्यनामयं ।
मुमुक्षु: सद्गतिं यद्यद्यस्येष्टं स लभेत्सदा ॥५२॥
सहस्रगोदानफलं पर्वक्रांतिग्रहाप्लुतौ ।
नु: कोटिफलमत्राल्पजपहोमसुरार्चनै: ॥५३॥
प्रदक्षिणाश्वमेधादिफलदा नु: पदे पदे ।
दुर्गता: पितरोप्यत्र श्राद्धाद्यांति परां गतिं ॥५४॥
इत्याश्वास्य स योगिनी: परतर: कल्पद्रुमूलेमले
संस्थाप्य स्वसुपादुके नर इह स्नात्वार्चयेदष्टसु ॥
तीर्थेष्वीश्वरयोगिनीसुरयुते मत्पादुके द्राग्लभेत्
सोभीष्टत्विति ता: प्रभाष्य स ययौ भीमातटं योगिराट् ॥५५॥
इति श्रीगुरुचरिते ज्ञानयोगे कृष्णापंचनदीसंगमोत्कर्षकथनं नामैकादशोsध्याय: ॥११॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-16T21:09:33.6070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पौलोम II.

  • n. दक्षिण समुद्र के समीप स्थित ‘पौलोमतीर्थ’ में ग्राह बन कर रहनेवाली एक अप्सरा । इसका एवं इसके वर्गा नामक सखी का अर्जुन ने उद्धार किया था [म.आ.२०८.३] 
RANDOM WORD

Did you know?

हिंदू धर्मात ३३ कोटी देवता आहेत काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.