TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथ चतुर्थोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


अथ चतुर्थोsध्याय:
श्र्यायु:कीर्त्यृद्धिहेतुर्ना त्रर्थसक्तोन्यथा भवान् ।
कल्प: स्वंगो ज्ञोप्यकर्ता कुतोत्रातृट् समुत्त्विति ॥१॥
श्रीदत्तो यदुना पृष्टस्तं पुंसां श्रेयसेsब्रवीत् ।
परं ध्युपाश्रितगुरुशिक्षितज्ञानमात्मन: ॥२॥
न दैवानुगभूतार्त: क्ष्मेव धीर: सृतेश्चलेत् ।
सदा परार्थोद्भवेहो नगाच्छिक्षेत्परात्मतां ॥३॥
प्राणवृत्त्याक्षिप्तहृद्वाग्विद्भ्रुत्तुष्येन्न गोप्रियै: ।
तद्भुग्दोषगुणास्पृग्विधर्मासक्तश्च देहग: ॥४॥
गुणाश्रयो गुणैर्युज्येन्न गंधैर्वायुवत्स्वदृक् ।
कालोत्थगुणतेजोब्भूमयभावास्पृगित्पुमान् ॥५॥
वायूत्थाब्दास्पृक्खवच्चांत:स्थेनाभिदसंगती ।
भाव्ये सर्वान्वयव्याप्त्या ब्रह्मात्मत्वात्ततात्मन: ॥६॥
रस्य: स्निग्ध: प्रकृत्याच्छो ज्ञोब्वद्धाम्ना पुनाति नॄन् ।
छन्न: स्पष्टोपि काम्यर्च्य़: प्रागुदग्दात्रघं दहन् ॥७॥
क्कापि भुंक्ते तपस्तेजोदीप्तोक्षोभ्योपरिग्रह: ।
मलास्पृक्सर्वभक्षोपि ज्ञोग्निवच्चेंधसीयते ॥८॥
तत्तद्रूप: स्वमायोत्थोच्चासत्स्थेशोग्निहेतिवत् ।
कालान्नित्येपि दृश्येते नात्मभूतोद्भवक्षती ॥९॥
देह: कलावद्विकारी कालेनात्माब्जवद ध्रुव: ।
भात्यात्मा तत्स्थवद्व्यक्तौ न स्वस्थो बुध्यतेर्कवत् ॥१०॥
स्थूलबुद्धयार्कवद्गोभिर्गा यथास्वं गुणैर्गुणान् ।
आदत्ते विसृजत्यत्र सदा योगी न युज्यते ॥११॥
नातिस्नेहप्रसंगाक्तो नश्येद्दीन: कपोतवत् ।
कश्चित्कपोत: कपोती क्रीडादौ चेरतुर्वने ॥१२॥
प्रेम्णाsशंकं मिथो बद्धध्यक्ष्यंगौ पाति स श्रमात् ।
तर्पयंती सासूतार्भास्तांस्तौ पुपुषतुर्मुदा ॥१३॥
कदाचिल्लब्धको नीडाद्बहि:स्थांस्ताञ्छिचाददे ।
क्रोशंतीं पतितां दुखात्तां तं चापस्मृति तथा ॥१४॥
द्वंद्वाराम: प्रियाsशांतो गृहासक्तो विवन्नर: ।
क्रांतापावृतमुक्तिद्वार्नृजन्मच्युत एव स: ॥१५॥
क्काप्यस्त्यैंद्रियसौख्यं तन्नेच्छेदाजगरोक्रिय: ।
यदृच्छयाप्तं महांत ग्रासं वाल्पं रसारसम् ॥१६॥
भक्षेच्चेन्नाप्तोनशनो दैवभुक्सर्पवत्स्वपन् ।
विनिद्रोक्रियबल्यंगधृग्गोमानपि नेहते ॥१७॥
पूर्णो हीनोप्यजपरो न सर्पति न शुष्यति ।
ज्ञोब्धिवत्सिंधुभिर्निम्नोनंतपारो दुरत्यय: ॥१८॥
सदाsक्षोभ्यो दुर्विगाह्य: प्रसन्न: स्तिमिताब्धिवत् ।
नावशोग्नौ विवन्नश्येत्स्त्रीलीलारूपमोहत: ॥१९॥
गृण्हीयात्सर्वत: सारं रमेन्नैकत्र चाल्पभुक् ।
संग्रहे नाशबीजेपि मधुकृद्वन्मुनि: सदा ॥२०॥
बध्येत नांगनास्पर्शाच्छूरैर्हन्येत वेभवत् ।
अन्योsकात्संचितं लुब्धैर्न भुक्तं नार्पितं धनं ॥२१॥
भुंक्तेsकार्जितगृह्यन्नं प्राग्भिक्षुर्मधुहेव च ।
ना बध्येतैणवद्गीतान्नृत्याद्वाप्यृष्यश्रृंगवत् ॥२२॥
प्रमाथिजिव्हया नैति बडिशैर्मस्त्यवल्लयं ।
जय्याल्पभुज्या साsसक्त्या जितं सर्वं जिते रसे ॥२३॥
वेश्यैकार्थदकांताशाध्वस्तनिद्रा सुखावहं ।
चिंताहेतुं हि निर्वेदं गत्वात्मस्थं रतार्थदं ॥२४॥
रामं हित्वा कुवृत्त्यान्यं भीशुड्मोहदमध्रुवम् ।
कांक्षे धिङ्मात्मनात्मानं रमे क्रीत्वामुनेति सा ॥२५॥
मत्वा तथाभूत्ध्याशाsकं नैराश्यं परमं सुखं ।
परिग्रहोकाय तज्ज्ञोsस्वोप्यनंतसुखायते ॥२६॥
सामिषं कुररं हंति शूरोतो व्यामिष: सुखी ।
मानावमानचिंतोन: स्वक्रीड: स्वरति: सुखी ॥२७॥
बालवद्धि जडोज्ञोर्भश्चात्मानंदो गुणातिग: ।
भंक्त्वैकैकं महारावान्रणंतौ द्वौ कुमार्यपि ॥२८॥
पाण्योर्ध्रुत्वैकैकशंखं रह:कृत्येलभत्सुखं ।
कलिर्भूम्नि द्वयोर्वार्ता ह्येकस्तच्छखवच्चरेत् ॥२९॥
एकचार्यप्रमत्तोल्पवाग्गुहास्थोगृहो मुनि: ।
एकोहिवद्गत्यलक्ष्यो गृहारंभोध्रुवात्मन: ॥३०॥
विफलोकाय सर्पोन्यकृतधाम्न्येधते सुखं ।
जितश्वासासनेनेशे वैराग्याभ्यासबद्धहृत् ॥३१॥
संयुक्तं वासनां मुक्त्वा सत्ववृत्ध्यैत्यनिंधनम् ।
निर्वाणं वेत्त्यतो नांतर्बहि:स्थं मुनिरात्मदृक् ॥३२॥
यथेष्वितात्मेषुकृन्नो वेदेनं यांतमग्रत: ।
प्रेम्णाप्यचलहृद्धयानाद्विष्णो: सारूप्यमेति ना ॥३३॥
प्राग्रूपमुत्सृजन्पेशस्कृद्धयानात्कीटवद्द्रुतं ।
यथोर्णनाभिस्ततोर्णाविहार्यंतेत्ति तां तथा ॥३४॥
प्रावस्वमायासृष्टमेक: संहृत्याभूत्क्षयेद्वय: ।
शक्त्याखिलाश्रय: सर्वेट् कालेनात्मानुभावत: ॥३५॥
साम्येतसत्वादिशक्ति: प्रधानपुरुषेडज: ।
व्युपाधि: परमानंदो मोक्षाख्य: सपरावर: ॥३६॥
गुणात्मिकां स्वमायां स क्षोभयन्स्वानुभावत: ।
तया सृजति सूत्रं सा त्रिगुणा शक्तिरासृजत् ॥३७॥
विश्वं यस्मिन्प्रोतमेतद्येन संसरते पुमान् ।
देहात्स्तो बोधवैराग्ये पारक्यात्सोद्भवक्षयात् ॥३८॥
आत्मेष्टभृत्स्रुष्टबीज: प्रियेच्छुर्नश्यति द्रुवत् ।
गाव: स्वार्थे सपत्नीवत्तं लुनंति हि दुर्लभम् ॥३९॥
मत्वा नृजन्मात्तवित्क्ष्मां चरे मुक्तोनहंकृति: ।
तच्छ्रुत्वा समचित्तोभून्मुक्तसंगो यदुर्द्रुतम् ॥४०॥
कष्टसंसारादिहेतुप्राणार्थेहापनुत्तये ।
वैराग्यतोषदमधुकृन्महाहिसुशिक्षितम् ॥४१॥
प्रर्‍हादायाप्यात्मतत्त्वं प्राहेदं भगवान् परं ।
स्वरूपं सुखमीहोपरतिस्तनुरशाश्वतान् ॥४२॥
दृष्ट्वा भोगान् संविशन्सन् स्वपेन्नेत: परं हितं ।
हुनेद्विकल्पं चित्तौ तां मनस्यर्थभ्रमे तु तत् ॥४३॥
वैकारिके तं मायायां तां स्वस्मिन्विरमेत्तत: ।
इत्युक्त्वा विररामाज: प्रर्‍हादोsप्यभवत्तथा ॥४४॥
देवोsर्जुनायापि योगं प्राहाष्टांगं निवृत्तये ।
सद्वाच्याविद्याशबलब्रह्मातोव्यक्तकं महत् ॥४५॥
ततस्ततोsहंकारोस्मात्पंचतन्मात्रखाद्यत: ।
जगत्सकार्यविकृतभूतान्युर्वात्मवर्ष्म तत् ॥४६॥
जागृतिर्गोभिरर्थाप्तिर्विश्वस्तदभिमानवान् ।
सकार्यशुद्धभूतानि लैंगात्मात्मा स भौतिक: ॥४७॥
हिरण्यगर्भ: स्वप्न: स्यात्करणोपरमेर्थयुक् ।
प्राक्संस्कारोत्थानुभूतिस्तैजसोत्राभिमानवान् ॥४८॥
द्विहेत्वात्मावित्साभासाव्याकृतं ज्ञानसंहृति: ।
धीहेत्वात्मस्थिति: सुप्तिर्मानी प्राज्ञोsत्र तत्परम् ॥४९॥
शुद्धादिलक्ष्म चिन्मात्रं ब्रह्म वाक्येन लक्ष्यते ।
यमादिवान्पीठवित्सद्गुरूक्त्यापूर्य चेड्या ॥५०॥
प्राणं कुंभितमन्यातो रेचयेदन्यमन्यथा ।
जिते प्राणेर्थतो गाश्च मनसोपाहरेन्मन: ॥५१॥
धारयेदात्मन्यचलं विक्षिप्तं शश्वदात्मनि ।
स्थिरीकुर्वन्छ्रुतं ध्यायेच्छ्रुतियुक्त्या निरासत: ॥५२॥
विजातिप्रत्ययस्यान्यप्रवाहीकरणं भजेत् ।
गुरूक्तं षड्लिंगवित्तं तं भागत्यागलक्षितं ॥५३॥
तत्त्वमस्यादिवाक्यार्थं सोहमात्मेत्यभेदत: ।
नादेयं नश्वरं चित्तं लये संबोधयेत्पुन: ॥५४॥
विक्षिप्तं शमयेज्जह्यात्सकषायं समं वरं ।
नास्वादयेद्रसं तत्र नि:संग: प्रज्ञया भवेत् ॥५५॥
निवातदीपवच्चित्तो ब्रह्मात्मा शून्यवृत्तिक: ।
कृतक्रुत्य: क्षीणकर्मा भिन्नहृद्ग्रंथिसंशय: ॥५६॥
प्रारब्धभोक्तात्मारामो जीवन्मुक्तो भवेद्ध्रुवम् ।
इत्युक्त्वोपररामेश: कार्तवीर्यस्तथाभजत् ॥५७॥
इति श्रीगुरु० दत्तलीलाकथनं
नाम चतुर्थोsध्याय: ॥४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-16T21:09:33.2170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

sciuroidea

  • पु. Zool. सियुरॉयडिआ 
RANDOM WORD

Did you know?

देवक म्हणजे काय ? त्याचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site