TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथ द्वितीयोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


अथ द्वितीयोsध्याय:
तत उत्थाय नालोवय स्वप्ने दृष्टं द्विजोभित: ।
ध्यात्वा व्रजन्ददर्शाग्रे दयार्द्रं योगिनं समम् ॥१॥
अभिवाद्य स तं हर्षपुलकोद्गमशोभित: ।
प्रेमगद्गदया वाचा वक्तुं समुपचक्रमे ॥२॥
माता पितोपदेष्टा भीहर्ता भर्तापि मे भवान् ।
क्कयातोस्ति कुतो गन्ता दिष्टया मेद्याक्षिगोचर: ॥३॥
कालेनुकूले प्रतीपे ना स्वै: सद्भिश्च युज्यते ।
नि:संगस्य मुमूर्षोर्मे सर्व एवाद्य वै भवान् ॥४॥
नामधारकशर्माहं विप्रस्तप्तोत्र सद्गुरुम् ।
द्रष्टकामोयने क्लेशान्मुमूर्षुरभवं प्रभो ॥५॥
इन्द्रियोच्छोषणं शोकं कोपि हर्तुं न मे प्रभु: ।
जाने त्वमेव शक्रोषि हृष्टं दृष्टयैव हृद्धि मे ॥६॥
॥ सिद्ध उवाच ॥
योगिध्येयस्त्रिमूर्त्यात्मा यद्भक्ता भुक्तिमुक्तिगा: ।
योस्ति भीमातटेsसौ तच्छिप्य: सिद्धो धराचर: ॥७॥
॥ नामधारक उवाच ॥
सद्गुरु: सोपि भगवानस्माकं कुलदैवतम् ।
श्रद्धाभक्त्या भजे तं मां कष्टाब्धौ मज्जयत्यहो ॥८॥
॥ सिद्ध उवाच ॥
स सद्गुरुस्त्रिमूर्त्यात्मा रुष्टेष्वन्येष्वयं प्रभु: ।
कोपि नास्मिन्लौकिकेपि नेष्टोस्यासीति भाति मे ॥९॥
संशयात्माsश्रद्दधान: क्कापि कैर्नैव गोप्यते ।
त्रय्यात्मश्रीगुरुत्यक्तसंशयात्मेश्वरोत्र क: ॥१०॥
॥ नामधारक उवाच ॥
रुष्टेपि लौकिके नेश: कोपीत्युक्तं वदस्व चेत् ।
प्राग्वृत्तं चैष त्रय्यात्मा कथं मे छिंधि संशयम् ॥११॥
॥ सिद्ध उवाच ॥
पुरा निराशिषोप्येको बहु स्यामित्यभून्मति: ।
या योगनिद्रितस्यैषा विष्णोर्मायानया जगत् ॥१२॥
सृष्टं प्राङ्नाभिकमलादभवच्चतुरानन: ।
ददौ तस्मै विनीताय वेदांस्तैरसृजज्जगत् ॥१३॥
कृतं त्रेताम द्वापरं च सधर्मं व्यसृजत्कलिम् ।
वर्णाश्रमविभागेन मनुष्यस्थितिहेतवे ॥१४॥
वैराग्यज्ञानवान्सत्य: सत्यवाग्यज्ञसूत्रभृत् ।
यज्ञसंभारधृक् त्रेता द्वापरस्तु सुशस्त्रभृत् ॥१५॥
पुण्यपापोग्रताशान्तिदयानैष्ठुर्यसंयुत: ।
कलिस्तु लिंगजिह्वाभृत्कच्चरोसन्पिशाचवत् ॥१६॥
एकैकं यतकालं कौ प्रेरयद्विश्वहेतवे ।
प्रयाणकाले कलये प्रोक्तां गुरुकथां शणु ॥१७॥
॥ कलिरुवाच ॥
कथं यास्ये वृषपरप्रशान्तजनसेवितां ।
भुवं श्रुत्वापि मे चेत: खिद्यतेंगं च तप्यते ॥१८॥
छेत्ताहं धर्मसेतो: शुक्कलहद्वेषतापकृत् ।
भ्रातान्यस्त्रीस्वहर्ता मे षड्द्विड्भाक्प्राणवल्लभ: ॥१९॥
क्षतव्रतोपि मे प्राणो नास्तिकोsधार्मिकोपि मे ।
ये स्थिता भारते वर्षे धार्मिकास्ते ममारय: ॥२०॥
गुर्वीशदेवसद्विप्रपितृधर्मपरेक्षणात् ।
बहिर्यांत्यसवो मेपि योगिज्ञानीक्षणात्क्षणात् ॥२१॥
॥ ब्रह्मोवाच ॥
आसुर्या संपदा गच्छ वशा लोका भवंति ते ।
शतायुर्हि नर: कोपि धन्यो भूयान्न तं जहि ॥२२॥
गुर्वीशदेवसद्विप्रपितृधर्मपरो नर: ।
त्वद्दोषैर्लिप्यते नैव गुरुभक्तो विशेषत: ॥२३॥
नाम्बुनाब्जदलं यद्वल्लिप्यतेघैर्गुरुप्रिय: ।
नैव जेतुं गुरोर्भक्तं देवा अपि न शक्नुयु: ॥२४॥
॥ कलिरुवाच ॥
गुरुर्वरोमरेभ्योपि कथं वद हि यत्प्रिय: ।
केनाप्यजेय इत्येतत्प्राग्वृत्तं क्कापि चेद्वद ॥२५॥
। ब्रह्मोवाच ॥
ज्ञानं गुरुं विना न स्याद्यस्य कस्यापि निर्जरा: ।
गुरुभक्त्यैव सिद्धार्था: स्युस्ततोप्यधिको गुरु: ॥२६॥
पुरा गोदावरीतीरे वेदधर्मैकदा मुनि: ।
बहुशिश्यप्रशिष्यस्तन्निष्ठां ज्ञातुमिदं जगौ ॥२७॥
तपसा क्षालितं पापं बहु प्रारब्धमस्ति मे ।
तद्भोग्यं व्याधिरूपेण काश्यां कस्तत्र रक्षक: ॥२८॥
गलत्कुष्ठाभिभूतस्य मम दंशादिवारणै: ।
क्षालनैरन्नदानैश्च प्रेम्णा कस्तत्र रक्षक: ॥२९॥
इति तस्य वच: श्रुत्वा तूष्णीं तस्थुर्भियाखिला: ।
तत्रैको दीपको नाम शिष्य ऊचेभिवाद्य तं ॥३०॥
न शेषयेद्दोषशेषं मोक्षविघ्नं भवत्कृतम् ।
ममात्मनैव भोक्ष्येहमनुज्ञां दातुमर्हसि ॥३१॥
॥ गुरुरुवाच ॥
भोक्तव्यं स्वयमेवाघं नान्यद्वारेण तत्क्षय: ।
अत: कष्टेन तद्भोक्ष्ये काश्यां शक्तोसि चेदव ॥३२॥
इत्युक्तं गुरुणाश्रुत्य काशीं तेन समं ययौ ।
कुष्ठी भूत्वापि सोन्धोsघं बुभुजे भेज एष तम् ॥३३॥
गुरुर्गलद्व्रणत्रस्त: कार्याकार्याज्ञ एव सन् ।
प्रतीपाचरणै: शिष्यं शश्वव्द्यर्थं व्यताडयत् ॥३४॥
स सेवावसरे भिक्षां सेवां भिक्षाक्षणेपि तम् ।
ययाचेsहनदप्राप्तौ नाखिद्यत सदाप्यसौ ॥३५॥
दत्तां याचितकां भिक्षां मुनिस्तद्दोषकीर्तनात् ।
भूमौ प्रक्षिप्य रुष्टोन्नं स्वाद्वानीहीत्युवाच तं ॥३६॥
भिक्षार्थमपि गच्छन्तं निवर्त्योचे कृता न मे ।
विण्मूत्रोत्सर्गसंशुद्धि: क्क यास्यश्नंति मक्षिका: ॥३७॥
यथोक्तं कर्तुमुद्युक्तं निवार्योचे न वेत्सि मां ।
क्षुधा कंठगतप्राणं देह्यन्नं पाप मे द्रुतं ॥३८॥
भुक्त्वा याचितकान्नं स कदाचित्तात पुत्रक ।
श्रान्तोसि मे स्वपेत्युक्त्वा सुप्तेस्मिन्क्षुधितोब्रवीत् ॥३९॥
एवं संछलितोप्येष भेजेsखेदोनिशं गुरुं ।
विस्मृतस्वात्मयात्रोपि मत्त्वा सर्वामरेष्वरम् ॥४०॥
गाङ्गांभो गुरुपादाम्भ: साक्षाद्विश्वेश्वरं गुरुं ।
सर्वानन्दनिधिं बुद्ध्वा मनो न क्काप्यचोदयत् ॥४१॥
गुरुभक्तिसुपूतोभूज्ज्ञात्वा विश्वेश्वरोप्यमुं ।
प्राप्योचे वरदोस्मीष्टं वरं वरय तेsस्तु शम् ॥४२॥
दीपकोप्याह किं कार्यं वरेण गुरवस्तु मे ।
रुक्शांत्यै वरमिच्छंति यदि पृष्ट्वा वृणोमि तत् ॥४३॥
इत्यक्त्त्वैत्य शशंसास्मै गुरुस्तप्तोब्रवीत्स तं ॥
भोगादेव क्षयं नेष्ये सेवायां मे बिभेष्यपि ॥४४॥
तच्छ्रुत्वा स तथेस्तुक्त्वा शिवमेत्याब्रवीद्वरम् ।
न गुर्वसंमतं कांक्षे तछ्रुत्वागात्स दुर्मना: ॥४५॥
निर्वाणमंडपं गत्वा प्राह विष्णुमुखामरान् ।
चंडो मुनिर्वेदधर्मा रुग्णस्तच्छिष्य उत्तम: ॥४६॥
गुरुभक्त: कंबलाश्वतरासन्नोस्ति दीपक: ।
वरं दातुमगां प्रेम्णा नाददे स गुरूद्यत: ॥४७॥
इति श्रुत्वेशवाक्यं तं द्रष्टुकामो हरिर्ययौ ।
विष्णुर्दीपकमाहांग वरदोsस्मि वरं वृणु ॥४८॥
तपसाष्टांगयोगैश्च सूपायैर्मननादिभि: ।
उपवासैर्व्रतैर्योगैर्धमैंर्गम्योस्मि नो नृणाम् ॥४९॥
गुरुसद्विप्रभक्तस्य मन्मयाभ्यंतरात्मन: ।
निर्द्वंद्वस्याsपि साध्व्याश्च विष्णुर्दृश्योस्मि सर्वदा ॥५०॥
तस्मात्कष्टेन सुभग सद्गुरु: सेवितस्त्वया ।
तेनैव परितुष्टोस्मि वरं वरय मत्प्रिय ॥५१॥
॥ दीपक उवाच ॥
श्रीसद्गुरुर्देवदेवो यतो ज्ञानं ततोमृतम् ।
अतोधिकं किमस्माकं भवंति त्वादृशा वशा: ॥५२॥
चेद्विश्वेशो यथा यातस्तथा गंतुं न रोचते ।
गुरावेवाचलां भक्तिं देह्यन्यन्न वृणेsध्रुवं ॥५३॥
॥ विष्णुरुवाच ॥
श्रद्धाभक्ति: सदा तेस्ति दास्येप्यन्यदयाचितं ।
दत्ता भुक्तिश्च ते मुक्ति: सत्कीर्ति: स्मर्तृतापहृत् ॥५४॥
य: स्तौति सद्गुरुं भक्त्या वेदोपनिषदादिभि: ।
तुष्टिर्मे तेन दास्यैश्च सान्निध्यं तस्य मे सदा ॥५५॥
कालादपि भयं नास्ति कुतोन्यस्मात्तु सिद्धय: ।
स्युस्तद्दास्योधिकं नात इत्युक्त्त्वांतर्दधे हरि: ॥५६॥
शिष्योपि गुरवे सर्वं शशंस स तु तत्क्षणम् ।
प्रीत: सुखाकरकरं दधौ तन्मूर्ध्नि सद्गुरु: ॥५७॥
तेन सद्योभवच्छिष्यो वेदवेदांगपारग: ।
कुशल: स्मर्तृतापघ्नो जीवन्मुक्तोखिलप्रिय: ॥५८॥
काशीप्रभावमादेष्टुं शिष्यभावं परीक्षितुं ।
वेदधर्माभवत्कुष्ठी पापशंका कुतो मुने: ॥५९॥
इत्याद्या भूरिशो वृत्ता: कले गुरुकथा भुवि ।
वक्तृश्रोतृमलघ्न्योतो भक्तं मा प्रेक्ष गां व्रज ॥६०॥
इत्यादिष्ट: कलिर्धात्रा भुवमेत्य तथाकरोत् ।
महिमा लौकिकस्यायं किं पुनस्त्र्यात्मसद्गुरो: ॥६१॥
तत्सात्विकीं धृतिं लब्ध्वा दृढभक्त्यैव सद्गुरुं ।
भजन्ति कृतकृत्यास्ते भवन्ति न ससंशया: ॥६२॥
तस्माद्यदीच्छसि श्रेय: श्रद्धयासंशयं भज ।
गुरुं नृधाम्ना कीडंतं भवाब्धे: पारमेष्यसि ॥६३॥
इति श्रीगुरुचरिते गुरुशिष्यचरितानुकथनं नाम द्वितीयोsध्याय: ॥२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-16T21:09:33.1070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

library language

  • ज्ञानोपार्जक भाषा 
RANDOM WORD

Did you know?

Gotra. Vats & vatsayan are same ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.