TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथ त्रयोविंशोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अथ त्रयोविंशोsध्याय:
॥ नामधारक उवाच ॥
साधु साधूदितं क्षेत्रमाहात्म्यं लोकपावनं ।
जगन्निवासो भगवान्यत्रोवासैष लीलया ॥१॥
तत्र तत्राखिला देवा ऋषियोगिमुनीश्वरा: ।
निवसंति पुनस्तत्र ननु तीर्थानि सर्वश: ॥२॥
कृष्णापंचनदीयोगो धन्योन्योप्येष तादृश: ।
स भीमामरजायोग: साक्षात्तु भगवानिह ॥३॥
पशुपक्षिम्रुगा मीनास्तत्रया: स्नानपानत: ।
धन्या एव पुनर्नॄणां धन्यत्वं किमु वर्ण्यते ॥४॥
यन्माहात्म्यश्रवणतो लीयंते पापराशय: ।
किं पुनस्तन्निवसतां सतां वाच्या हि सद्गति: ॥५॥
भगवद्भक्तियुक्ता ये मुक्तिस्तेषां करे स्थिता ।
मुक्तिं ते परिभाव्यातो भक्तिमेवाश्रयंत्यरं ॥६॥
मुक्त्यपेक्षा पुराभून्मे सा भवत्क्रुतबोधत: ।
व्यपेता दूरतो वृद्धाहैतुकीभक्तियोगत: ॥७॥
अत: प्रियतमं विष्णो: कीर्तनश्रवणादिकं ।
तद्गुणश्रवणं श्राव्यं रोचते मे विशेषत: ॥८॥
तस्मात्स्वर्गायचरितपूरितात्मन्वदस्व मे ।
श्रीगुरोश्चरितं रम्यं मंगलं पावनं परं ॥९॥
को म्लेच्छ: सोतिहीनोपि कृपापात्रं परात्मन: ।
कथं जातो हि भवता यत्तूक्तं म्लेच्छ उद्धृत: ॥१०॥
॥ सिद्ध उवाच ॥
धन्योसि तेद्य भगवत्प्रसादान्मतिरीदृशी ।
अतस्तच्चरितं वक्तुमानंदोतीव वर्धते ॥११॥
यदा स्थित: कुरुपुरे प्रत्यक्षं श्रीपद स्तदो ।
रजक: प्रत्यहं भेजे तं स्तोत्रैर्नतिभि: सदा ॥१२॥
कदाचिदाह तं तुष्ट: श्रीपादो भाविकोसि रे ।
कुर्वकंटकसाम्राज्यं तच्छ्रुत्वा सोतिहर्षित: ॥१३॥
सोलंकृतं नृपं नद्या क्रीडंतं युवतीयुतं ।
चतुरंगबलोपेतं दृष्ट्वा स्वगतमब्रवीत् ॥१४॥
गुरु: कोस्य कुतस्त्वीदृग्भाग्यं तज्जीवितं वरं ।
क्क वार्तास्य मयीत्येतज्ज्ञात्वा श्रीपाद आह तं ॥१५॥
ज्ञातं ते ह्रुद्गतं त्वत्र जरन्नार्होसि जन्मनि ।
राज्यं भोक्तुमतो भुंक्ष्व जन्मन्येश्येर्पितं ध्रुवं ॥१६॥
संमतं भवदुक्तं हि यूनो रज्यरसज्ञता ।
राज्येप्यस्तु स्मृतिस्ते म इति तं स स्म याचते ॥१७॥
श्रीपादोपि तथेत्यूचे प्रेत्यापि रजकस्तत: ।
वैडूर्यनगरे म्लेच्छ: सार्वभौमोभवन्नृप: ॥१८॥
म्लेच्छधर्मरुचि: पूर्वसंस्काराद्देवविप्रभाक् ।
शुद्धात्मा दानधर्मज्ञ: सर्वभूतसमोभवत् ॥१९॥
तं तत्पुरोहिता ऊचु: स्वधर्म सेवयोत्तमं ।
म्रुषोद्यवर्णधर्मोयमग्राह्यो मनसाप्यसन् ॥२०॥
मुखाद्यावयवैर्देहसाम्ये वर्णक्रम: कथं ।
अचेतनोपलेध्मादौ देवतान्यत्र वा कथं ॥२१॥
राजा तानाह धीमांद्यमिदं सृष्टं परात्मना ।
गुणकर्मभिदा चातुर्वर्ण्यं देवस्तु सर्वग: ॥२२॥
स्थूलाक्षराल्लिपिज्ञानं शिशोरिव परात्मन: ।
गुरूक्तार्चाकल्पनया हृत्स्थैर्याद्बोव उद्भवेत् ॥२३॥
सतोंब्वाद्येपि बिंबस्य प्रतीतिर्न मलान्विते ।
तथात्मनो न मलिने प्रतीति: सा तु निर्मले ॥२४॥
तत्स्वप्रमानादिवेदप्रोक्तधर्मपरान् द्विजान् ।
नमस्कुरुत भक्त्या ते देवानामपि देवता: ॥२५॥
वेदानुसारिस्मृत्युक्तधर्मकर्मानुवर्तिन: ।
पूज्या अतो द्वेषशंकां त्यजतेत्याह तान्नृप: ॥२६॥
तत: कालेन कियता स्फोटकोंके समुत्थित: ।
तेन राड् व्यथितोत्यंतं मोघाभूत्तत्प्रतिक्रिया ॥२७॥
राजा यातनया त्यक्तभुक्तिसुप्तिरतिर्द्विजं ।
आहूय तत्प्रतीकारं पप्रच्छ विनयाsन्वित: ॥२८॥
स प्राह नात्र वक्तव्यं भवान्म्लेच्छो द्विजोस्म्यहं ।
जनश्रुतिभियैकांते वक्तव्यं भूपसत्तम ॥२९।
अथापतुरुभौ पापनाशतीर्थं द्विजोब्रवीत् ।
भो पूर्वार्जितदुष्कर्मयोगाद्रोगसमुद्भव: ॥३०॥
दानभेषजसत्तीर्थदेवसेवादिभिर्भवेत् ।
तच्छांति: साधुदृष्ट्यापि सर्वाघहृतिदक्षया ॥३१॥
पुरावंतीपुरे धर्महीनोभूद्ब्राह्मणब्रुव: ।
त्यक्तकर्मा पिंगलाख्यवेश्यसक्तो मदोद्धत: ॥३२॥
तत्प्राक्पुण्यचयाद्योगी ऋषभ: प्राप तत्र तौ ।
सेवयामासतु: प्रेम्णा पादसंवाहनादिभि: ॥३३॥
स्तुतोर्चितो भोजितोनु पर्यंके शायितोपले ।
पीततत्पादतीर्थाभ्यां तुष्ट: सुष्वाप वीजित: ॥३४॥
सुप्तोपि नमित: प्रातरुत्थायागात्स संस्तुत: ॥
इयत्पुण्येन तौ प्रेत्य जातौ ब्रह्मकुलेमले ॥३५॥
वज्रबाहोर्दशार्णेशो महिश्या: कुक्षिमाप स: ।
तत्सपत्नी तदा द्वेषाद्गर्भिण्यै गरलं ददौ ॥३६॥
तेन विद्धापि न मृता दैवात्सा सुषुवे सुतं ।
बालोपि विषविद्धोभूदुभौ जातौ व्रणांकितौ ॥३७॥
तदार्तिर्न शशामापि नानोपायैरुभौ सदा ।
क्रंदमानौ निराहारनिद्रौ क्षीणौ तु कृछ्रत: ॥३८॥
राजैकदा पूतिगंधित्रस्तस्तद्वीक्षणात्क्षणात् ।
सूतमाज्ञाप्य सार्भां तां गमयामास कानने ॥३९॥
घोरेरण्येपि तौ त्यक्त्वा राज्ञे सूत: शशंस तत् ।
ततो रेमेन्यभोगिन्या क्रूरो राजातिहृष्ट्या ॥४०॥
घोरसत्वे वने राज्ञी विजने व्रणकर्शिता ।
अज्ञातांघ्रिगतिस्तन्वी त्रस्ताभूत्कंटकोपलै: ॥४१॥
धृतार्भा प्राह हा दैव कष्टमीदृक्प्रदर्शिंतं ।
सार्भां खादय हिंस्रैर्मां दु:खबंधाद्विमोचय ॥४२॥
एवं सा विलपंती गा: प्रेक्ष्याग्रे मंदगामिनी ।
आगत्य प्राह गोपान्भो तृषोत्क्रामंति मेसव: ॥४३॥
तामूचुस्तेब्विहास्त्यारान्मंदं सृत्यानया व्रज ।
सापि गत्वांबु पीत्वोचे सरस्तीरस्थयोषित: ॥४४॥
कोत्र राजा प्रजा हृष्टा भांति मे ब्रूत योषित: ।
ता ऊचुस्त्वत्र राड् वैश्य: साधु: पद्माकर: कृती ॥४५॥
अत्रांतरेपि तद्दास्य: प्राप्तास्ताभि: सहाययौ ।
राज्ञी विट्पं पुरे दीना स तां पप्रच्छ विस्तरात् ॥४६॥
सा शशंसादित: सर्वं दयालुस्तां ररक्ष स: ।
तत: सुतोल्पकालेन व्रणत्रस्तोभ्यगान्मृतिम् ॥४७॥
विलपंती तदा तन्वी प्रेतमज्ञतोब्रवीत् ॥
त्यक्त्वा शोकार्णवे दीनां मातरं मां क्क गच्छसि ॥४८॥
त्वत्कृतेदो मया भुक्तं कष्टं तन्न स्मरस्यहो ।
त्वदर्थेंतरिता भर्तृपितृमातृहितस्वका: ॥४९॥
त्यदर्थं विस्मृतं दु:खं मया राट्त्यक्तयापि मे ।
जीवोसि त्वयि यातेहं मरिष्ये नात्र संशय: ॥५०॥
इति तद्रुदितं श्रुत्वागच्छन्हि ऋषभो मुनि: ।
विट्पतिं प्राप्य तं पृष्ट्वा तां प्राप करुणार्द्रधी: ॥५१॥
कुतो रोदिषि राज्ञीदं जगन्मायामयं ह्यसत् ।
भौतिके नश्वरे देहे कुत: पुत्रादिकल्पना ॥५२॥
कीट: कंटकधाम्नेव यावदायुर्विचेष्टते ।
जीव: कर्मौघरचितधाम्नारब्धाशनोवश: ॥५३॥
कालकर्मगुणोत्पन्नो नायं संबंधलिंगभाक् ।
चिदंश: सर्वगो नित्यो देहस्त्वाद्यंतवानचित् ॥५४॥
कोपि शुग्विषयो नातो धृतिमारथाय सात्विकीं ।
भज प्रारब्धमश्नंती यावदायु: परेश्वरं ॥५५॥
एतावदृषभ: प्रोक्त्वा विरराम तदा तु सा ।
अबोधविक्लवा प्राह प्रणताश्रूत्तलोचना ॥५६॥
भवताध्यात्मतत्वं मे प्रोक्तं कारुणिकेन सत् ।
सदा परिचितोsबोध: स्थेयं नैतेन तन्मयि ॥५७॥
येन मे सुप्रसन्नं स्यान्मनस्तद्धि विधीयतां ।
ईशेन प्रेरितो दु:खदशायामपि मे भवान् ॥५८॥
स तच्छ्रुत्वा सकारुण्यं बालं ज्ञात्वा स्वसेवकं ।
प्रसन्नोभूत्स नत्यैव फलंत्यत्र हि साधव: ॥५९॥
तपउज्वलितात्मा स सक्षाच्छंभुरिवापर: ।
चिक्षेप भस्म तद्गात्रे स सुप्तोत्थितवत्स्थित: ॥६०॥
तदा माता सुतोपि द्राग्दिव्यगात्रौ बभूवतु: ।
एतावान्साधुमहिमा तस्मात्तं शरणं व्रज ॥६२॥
॥ राजोवाच ॥
साधु श्राव्यं त्वया प्रोक्तं सन्माहात्म्यं द्विजोत्तम ।
क्कास्त एतादृश: साधुस्तन्मे कथय भूसुर ॥६३॥
म्लेच्छोयं कथमस्मै तत्कथनीयमिति प्रिय ।
न मंतव्यं हि दासोहं ब्राह्मणानां विशुद्धधी: ॥६४॥
॥ विप्र उवाच ॥
मया तु भीमामरजासंगमे कश्चनास्ति सन् ।
साक्षात्परेश्वर इव श्रुतस्तं शरणं व्रज ॥६५॥
तच्छ्रुत्वा सत्वरं राज्यमेत्य राजा बलान्वित: ।
प्रतस्थे स्वासनारूढ: साधुसंदर्शनाय स: ॥६६॥
गंधर्वपुरमासाद्य पौरान्पप्रछ कश्चन ।
आस्तेत्र तापसस्तं मे भवंतो दर्शयंत्वरं ॥६७॥
भ्लेच्छान्दृष्ट्वापि ते भीता नोचु: क्रुद्धोब्रवीन्नृप: ।
तद्दर्शनायागतोस्मि कुत्रास्ते स तु कथ्यतां ॥६८॥
तदोचु: संगमेस्तीति तच्छ्रुत्वा सत्वरं नृप: ।
पादचारी नदीं गत्वा ददर्श श्रीगुरुं परं ॥६९॥
तमपि प्रेक्ष्य भगवान्प्राह रे रजकानुग ।
कुत्र तिष्ठसि कच्चित्त्वं क्षेमी नेहागत: कुत: ॥७०॥
तच्छ्रुत्वा श्रीपदं ज्ञात्वा लब्धप्राक्स्मृतिरब्रवीत् ।
त्वद्दत्तराज्यसक्तेन तवांघ्री विस्मृतौ मया ॥७१॥
योहं प्राग्रजक: सार्वभौम: सोभवमीदृशी ।
त्वत्कृपा सत्यसंकल्प मम मंतून्क्षमस्व भो: ॥७२॥
श्रीपाद रजकं कृष्नाविहारे पाहि मानुगं ।
लोलन्मस्तकबाव्हंघ्रिं गलद्धर्षाश्रुमानतं ॥७३॥
स्फोटकार्तिंनिमित्तेन लब्धं ते दर्शनं हरे ।
अंतर्गतापि संविन्मे लब्धैतर्हि निमेषत: ॥७४॥
स्फोटकं दर्शय क्कास्त इत्युक्तो गुरुणा स तु ।
संतं स्फोटकमप्यंके न दृष्ट्वा चकितोब्रवीत् ॥७५॥
स्वामिन्मन्येनुगोयं ते स्फोटकोsनयवर्तिनं ।
आनीय दंड्यमन्यत्र कृतकार्यो ययौ खलु ॥७६॥
तव जाग्रत्सु वाक्येषु दु:खदोषपरिप्लुते ।
असारे सति संसारे मग्नं माज्ञं समुद्धर ॥७७॥
॥ श्रीगुरुरुवाच ॥
तृप्तं तेपि मनो भोगैर्भुक्तं राज्यमपीप्सितं ।
लब्धा: पुत्रादयो वापि का वापेक्षास्ति ते वद ॥७८॥
स प्राह परिपूर्णं मे सर्व ते कृपयेश्वर ।
त्वद्दत्ताप्यखिला ते श्रीरर्पणीयेत्यपेक्षितं ॥७९॥
॥ श्रीगुरुरुवाच ॥
यतेर्मे गमनं म्लेच्छ गोघ्ने राज्ये कथं भवेत् ।
मां वर्णास्त्वामपि म्लेच्छा हसिष्यंति न संशय: ॥८०॥
॥ राजोवाच ॥
रजकोहं भवान्छ्रीपान्न हिंसात:परं पुरे ।
इत्युक्त्वा लोलदंगस्तं नेतुकामोsस्तुवद्विभुं ॥८१॥
स प्राह तुष्ट आयास्ये भक्ताधीनोस्मि केवलं ।
हेतुनानेन नोपेक्ष्या मद्भक्ता मद्गतांतरा: ॥८२॥
स तछ्रुत्वोपवेश्येशं प्रतीत: स्वासने नृप: ।
वाहान्दत्वापि शिष्येभ्यो धृततत्पादुकोन्वगात् ॥८३॥
प्राहांघ्रिचारिणं स्वामी तं तदारादितो नृप ।
गंतव्यमस्त्यपीदं तु न श्लाघ्यं सार्वभौम ते ॥८४॥
स प्राह सार्वभौम: को रजकस्तेsनुगोsस्म्यहं ।
त्वयैव न्यस्तभूधूस्त आज्ञयानुचराम्यहं ॥८५॥
॥ श्रीगुरुरुवाच ॥
दत्तं ते दिक्पमात्राभी राट्त्वं तेनासि विष्णुवत् ॥
राजन्ममाज्ञयैवाश्वरारुह्य व्रज मा वद ॥८६॥
तत: सोप्यारुरोहश्वं तमाह भगवान्नृप ॥
गत्यानया क्रियालोपो भवेदग्रे व्रजाम्यत: ॥८७॥
एहि मंदं पापनाशतीर्थे तिष्ठामि भूपते ।
इत्युक्त्वार्धक्षणात्पंक्तियोजनायतमापतत् ॥८८॥
सशिष्य: स तु तत्तीर्थे सांध्यं कर्माकरोत्तदा ।
सायंदेवसुतो नागनाथो गच्छन्ददर्श तं ॥८९॥
चकोरश्चंद्रमिव तं दृष्ट्वा ह्रुष्ट: स्वदैवतं ।
संप्रार्थ्य स्वगृहं नीत्वा भोजयामास सादरं ॥९०॥
सशिष्यस्तद्गृहे मुक्त्वा तमाहैष्यति राडिह ।
स तु म्लेच्छो न साध्वेतत्तीर्थे स्थेयमतो द्विज ॥९१॥
इत्युक्त्वा स ययौ तीर्थं स राजाप्याययौ तदा ।
प्रतीत: पादचारी स निन्ये निजपुरं गुरुं ॥९२॥
अलंकृतं शुभं नानारत्नतोरणमण्डितं ।
पताकाध्वजसंकीर्णं पुरं भास्वत्सुशोभनं ॥९३॥
गीतवाद्यजयध्वानसंकुलं शिष्ययुग्गुरु: ।
नीराजितो रत्नदीपै: पालकस्थो विवेश स: ॥९४॥
पट्टकूलच्छन्नसृत्या नीत्वांत:पुरमीश्वरं ।
भद्रासने तूपवेश्य तूजयामास तं नृप: ॥९५॥
शिष्यान्यथास्वपीठस्थान्प्रपूज्य महिषी: स्त्रिय: ।
पुत्रान्पौत्रान्सखीन्स्वांश्च दर्शयामास शंभवे ॥९‍६॥
गीतं सवाद्यं नृत्यं च छत्रचामरमालिने ।
तस्मै समर्प्य प्रकृतीर्दर्शयामास सर्वश: ॥९७॥
म्लेच्छा विरुद्धचेष्टं धिक्चक्रुर्भूपं द्विजार्चकं ।
प्रशशंसुर्द्विजा राजा पुण्यश्लोकोयमित्यपि ॥९८॥
गुरुस्तमाह हृष्टोस्मि दृष्ट्वा ते प्रकृती: शुभा: ।
तुष्टोस्याभिर्न वा ब्रुहि नि:शंकं निकटे मम ॥९९॥
स प्राहाभिर्न तुष्टोस्मि साम्राज्यं तेंघ्रिसंस्थितं ।
श्रुत्वा तत्परमं कांक्षे दुरापमपि देहि मे ॥१००॥
अदैव भवते कुर्वे सर्वस्वात्मनिवेदनं ।
इत्युक्त्वा स तथा चक्रे राट् संकल्पपुर:सरं ॥१०१॥
॥ श्रीगुरुरुवाच ॥
कृतं साधु त्वया भूप तुष्टोनेन ददामि ते ।
मन्मनस्काय भक्ताय शुद्धभावाय कांक्षितं ॥२॥
इत्युक्त्वा श्रीगुरुर्यूने भूधुरं पार्थिवार्पितां ।
ज्येष्ठायादाद्विनीताय तदौरससुताय स: ॥३॥
भूपं प्राह गुरु: शीघ्रं प्रव्रजाहमितो द्रुतं ॥
गत्वा मठं समाश्वास्य शिष्यान्भक्तानपीतरान् ॥४॥
श्रीपर्वतं गमिष्यामि त्वमप्येहि नगोत्तमे ।
भवेन्मे दर्शनं तत्र जीवन्मुक्तो भविष्यसि ॥५॥
इत्युक्त्वा गौतमीं गत्वा स्नात्वा शिष्यान्वित: प्रभु: ।
संप्राप्तोमरजाभीमासंगमं योगिजीवन: ॥६॥
तत्रत्या अपि तं दृष्ट्वा सर्वे जल्हादिरे तदा ।
नीराज्य श्रीगुरुं चक्रुस्तदर्तं ब्रहम्भोजनं ॥७॥
सर्वत्र प्रसृता भक्तिर्म्लेच्छा अपि भजंत्यत: ।
कलौ घोरेत्र न स्थेयं साक्षादेवेत्यमंस्त स: ॥८॥
श्रीशैलमुक्तवद्गत्वा म्लेच्छायापि स सद्गतिं ।
सर्वस्वात्मार्पंणाद्दत्वा पुन: प्रापाव्ययो मठं ॥९॥
तस्थौ भजत्कामधेनु: प्रत्यक्षस्तत्र वै सतां ।
अगोचरस्त्वनार्याणां जन्मांधानामिवोष्णगु: ॥११०॥
कृष्णापंचनदीयोगे प्रात: स्नात्वात्र संगमे ।
कर्म कृत्वान्हिकं भिक्षां मठे भुक्त्वैव तिष्ठति ॥१११॥
दर्शिता विविधा लीला दर्शयत्यप्यनंतश: ॥
दर्शयिष्यति को वित्ति प्रभावं तस्य दुर्ग्रहं ॥१२॥
यो यो यस्य तु कामस्तद्भजनात्सिद्धिमेत्यरं ।
भजतोनुभजत्येष यतोसौ भक्तिभावन: ॥१३॥
जागरूका कलौ प्राय: काचिन्न भगवत्कला ।
तत्साक्षाद्भगवंतं तं श्रद्धयाsसंशयं गुरुं ।
अभ्यर्च्याssपामृतं द्रक्तच्छ्रवणान्नमधारक: ॥१४॥
इति सिद्धोदितं श्रुत्वा श्रद्धयाsसंशयं गुरुं ।
अभ्यर्च्याsपामृतं द्राक्तच्छ्रवणान्नमधारक: ॥१५॥
तत्संवादमयं ग्रंथं धर्म्यं गंगाधरात्मज: ।
सच्छ्रीगुरुचरित्राख्यं व्यरचत्तारकं सुधी: ॥१६॥
यत्र क्कापि स्थापित: प्रेतभूतरक्षोमुख्यासद्ग्रहार्तिघ्न एष: ।
सप्ताहं तत्पाठिने श्रृण्वतेपि दत्तात्रेयोभीष्टकामान्ददाति ॥१७॥
स एवात्रेयगोत्रोत्थगणेशब्रह्मपुत्रगां ।
पुनानोर्थो जयत्यत्र ग्रंथात्मा तारकोव्यय: ॥१८॥
ॐनमो भगवन्विश्वहेतो ब्रह्मेडिताज ते ।
मालीनो विश्वभृल्लीलाविहार्यस्यार्थभावन: ॥११९॥
इति श्रीगुरुचरिते भक्तियोगे पंचमोध्याय: ॥
आदितस्त्रयोविंशोsध्याय: ॥२३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-16T21:09:34.6400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

live conductor

  • सचेतन वाही 
RANDOM WORD

Did you know?

अशुभ कार्य करून आल्यावर, घरात प्रवेश करण्यापूर्वी पाय कां धुवावेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site