TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथ षष्ठोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


अथ षष्ठोsध्याय:
॥ नामधारक उवाच ॥
शैवं तत्र गणेशेन कुतो लिङ्गं प्रतिष्ठितं ।
सज्जनाश्रयमेतत्तु कथं श्रावय मे मुने ॥१॥
॥ सिद्ध उवाच ॥
विष्ण्वाज्ञया गणेशेन रावणात्तं प्रतिष्ठितं ।
शैवं लिङ्गं ततोत्रासन्देवा: संतोष्यद: शृणु ॥२॥
भजंतीं मृन्मयं लिङ्गं कैलासाप्त्यै तु रावण: ।
प्रसूं निषिध्य सेशाद्रिं श्रीमानाहर्तुमाययौ ॥३॥
हठात्कैलासमुद्धर्तुमुत्कमोजस्विनं शिव: ।
लोकोत्पातभिया गौर्या स्तुतोsगाधोवरोधयत् ॥४॥
सोपि मृत्यून्मुखीभूतो ध्यानतुष्टेन् शंभुना ।
समुद्धृतो दशमुखस्तत्तुष्टयै साध्वगायत ॥५॥
सुस्वरं सांगरागाढ्यं माधुर्यं स्वर्णमुत्तमं ।
कालोचितं जगौ गीतं ततानद्धघनारयुक् ॥६॥
प्राणिमात्रमनोहारि दिव्यं गानं स शङ्कर: ।
प्रीतोब्रवीत्साधु गीतं रावणेष्टं वरं वृणु ॥७॥
॥ रावण उवाच ॥
पूर्मेन्यदुर्लभा हैमी श्रीर्दासी दैवाविद्विधि: ।
मृत्युर्दासोनुगा देवास्तन्मे न क्कापि दुर्लभं ॥८॥
मात्राज्ञप्तोस्मि कैलासमानेतुं भो त्वयान्वितं ।
देहि मे वरणीयार्थं भगवन्वरदोसि चेत् ॥९॥
॥ शिव उवाच ॥
कैलासेन तु किं साध्यं प्राणलिङ्गं ततोधिकं ।
गृहाणानेन मादृक्त्वं पूस्ते कैलासवद्भवेत् ॥१०॥
स्थाप्यते यत्र तत्रैव सुस्थिरं प्रतितिष्ठति ।
तस्मात्स्थापय पुर्येव धृत्वेदं कर्म मा कुरु ॥११॥
इत्युक्त्वा तत्करे लिङ्गं भक्त्याकृष्टमना ददौ ।
रावनोप्यतिसंतुष्टो ययौ लङ्कां खलाग्रणी: ॥१२॥
ज्ञात्वैतन्नारदो योगी शशंस ब्रह्मणेपि स: ।
विष्णवे द्राक् त्रयोपीशं गत्वोचु: किं कृतं त्विदं ॥१३॥
बद्धा: सर्वेमरा येन प्रसिद्धो लोककंटक: ।
राक्षस: प्राणिमात्राशी त्वत्सम: स कथं कृत: ॥१४॥
॥ शिव उवाच ॥
भक्त्याकृष्टं मनो मेद्य तेन गानादिना तत: ।
दत्तं लिङ्गं मया हर्षात्स नाद्यापि पुरं गत: ॥१५॥
व्याजेनैव खलो जय्य इत्युक्त्वा प्रेरयन्मुनिं ।
विघ्नेशं च तदा विष्णुर्लिंगाहरणहेतवे ॥१६॥
नारदस्त्वंजसा योगी गत्वाग्रे रक्षसोब्रवीत् ।
आयातोसि कुतो ब्रूहि रावण द्राक् क्क गच्छसि ॥१७॥
रावणस्त्वब्रवीद्ब्रह्मन् तोषयित्वाद्य शङ्करं ।
लब्ध्वा लिंगं पुरं यास्ये पश्येदं शैवमुत्तमम् ॥१८॥
तत्प्रेक्ष्योचे मुनी रक्ष: शृण्वेक: सैरभाशन: ।
मृगयायां हतो ब्रह्महरीशैर्दुर्धरो मृग: ॥१९॥
तैस्रीण्याप्तानि लिंगानि तच्छृंगेभ्यस्तदात्मवत् ।
मतान्यैशं त्विदं दैवाल्लब्धं सायुज्यदं विभो: ॥२०॥
सोप्याह नद्य श्रोतव्यं गन्तव्यं सत्वरं मुने ।
क्कातीत्य संध्यां यासीति मुनिनोक्त उपाविशत् ॥२१॥
अत्रांतरे गणेशोपि वर्णिलिंग्याययौ स तं ।
करे कृत्वाब्रवीत्कोसि कस्य पुत्र: क्क गच्छसि ॥२२॥
सोप्याहोमाशंकरौ मे पितरौ देवमस्ति ते ।
किं ताभ्यां भो न चेत्पाणिं मोचयाशु बिभेम्यहं ॥२३॥
रावणोप्याह नादेयं ताभ्यां लिङ्गं क्षणं वह ।
हैमीं मे गौरवाल्लंकां दर्शयामि सुखं वस ॥२४॥
बालेनैवोरु लिंगं नो धार्यतेपि न गम्यते ।
लंका घोरेत्यपि प्रोक्त: स तमाश्वास तद्ददौ ॥२५॥
दत्तलिंगोब्धितीरे स सांध्यां कर्तुं क्रियां ययौ ।
बालोप्याह त्रिराहूय नागते स्थापयामि कौ ॥२६॥
इत्युक्त्वा किंचिद्विश्रम्य स्व: पश्यत्सु सुरेषु तं ।
त्रिराहूय हरिं स्मृत्वा लिंगं सोस्थापयद्भुवि ॥२७॥
सोप्येत्य स्थापितं दृष्ट्वा संताड्यार्भं भुजैस्तु तत् ।
उद्धर्तुमैच्छत्क्ष्मा तेन चकंपेप्यचलं तु तत् ॥२८॥
महाबलेश्वर इति लिंगं तत्संज्ञित तत: ।
गोकर्णवद्बलोद्भृत्या जातं तत्संज्ञितं स्थलम् ॥२९॥
कैलासोयं क्षितौ साक्षाद्यात्रेश: परिवारयुक् ।
सदा जागर्त्यतस्तत्र स्थिता देवर्षिसज्जना: ॥३०॥
देवर्ष्यसुररक्षोनृतिर्यग्भिर्यत्र शंकरात् ।
लब्धोभीश्टो वरो नान्यदित: सत्पावनं स्थलं ॥३१॥
श्रृणु किंच्चिद्वसिष्ठेन शप्तोज्ञानकृतागस: ।
राक्षसत्वं द्वादशाब्दं प्राप मित्रसहो नृप: ॥३२॥
तदाहनद्द्विजं तत्स्त्री: शापांते नृप पूर्ववत् ।
भृत्वाप्येष्यसि मच्छापाद्रतेंsतमिति तं जगौ ॥३३॥
अथैष पूर्ववद्भूत्वा स्वं राज्यं प्राप्य दु:खित: ।
स्मरातुरायै महिष्यै साध्वीशापं शशंस राट् ॥३४॥
तत: खिन्नावुभौ तीर्थयात्रासक्तौ यदृच्छया ।
आयांतं गौतमं दृष्ट्वा सर्वं तस्मै शशंसतु: ॥३५॥
गौतमोप्याह भो मा भीर्गोकर्णेधौघहारिणि ।
कामिकल्पद्रुमे क्षेत्रे किं भवेद्ब्रह्महत्यया ॥३६॥
तीर्थानि सर्वतोयानि शैवलिंगानि ता: शिला: ।
लिंगतीर्थमये तत्र दिव्ये किं दुर्लभं नृणां ॥३७॥
श्रृणु तत्र मया दृष्टा चंडाल्येका मृता तु तां ।
शिवदूता विमानेन कैलासं नेतुमागता: ॥३८॥
मया पृष्टास्तु ते प्रोचु: प्राग्वृत्तं श्रृणु गौतम ।
प्राग्भवे विप्रकन्येयं बाल्येभूद्विधवा विधे: ॥३९॥
तन्वी कामपरा नित्यं युवसौंदर्यमोहिता ।
वृत्वा कांतं विशं भेजे सौपपत्यं रहोपि तत् ॥४०॥
जातं लोकप्रसिद्धं हि मलो नाच्छाद्यतेपि कै: ।
संबंधिनस्तु तां त्यक्त्वा प्रायश्चित्तं तदाsभजन् ॥४१॥
ततो रेमेपशंकं सा पानासक्ता मदोद्धता ।
विश: कुटुंबिनी भूत्वा कंदर्पहतचेतना ॥४२॥
प्रमत्ता सैकदा वत्सं मेषभ्रांत्या निहत्य कं ।
स्थापयित्वात्तुमन्येद्यु: शेषं पक्त्वा चखाद ह ॥४३॥
ज्ञात्वाथ गोशिरो जारभीत्या निक्षिप्य तद्भुवि ।
व्याघ्रेणापहृतो वत्स: शिवेत्थं पर्यदेवयत् ॥४४॥
इत्याद्यवाच्यपापानि कृत्वा प्रेत्य स्वकै: समं ।
दारुणां दुर्गतिं भुक्त्वा जातेदृश्यघशेषत: ॥४५॥
जन्मतोस्या गलत्कुष्ठ आंध्ये सत्यपि रक्षिता ।
पितृभ्यां तावपि मृतौ ततोनाथा रुरोद सा ॥४६॥
संगत्य यात्रिकै: सत्रा माघे दैवादिहागता ।
क्षुधिता शिवरात्रौ सा ययाचेन्नं सुदु:खिता ॥४७॥
जनैस्तदाशनाभावात्प्रसारितकरेर्पितं ।
बिल्वमाघ्राय तत्याज मत्वाsभक्ष्यं सुदु:खिता ॥४८॥
लिंगे त्यक्तं तु तत्पूजा श्रुतमन्हीशकीर्तनं ।
उपवासोशनाभावाद्दु:खाज्जागरणं निशि ॥४९॥
एवं सांगं व्रतं चीर्णं तेन भूत्वा सुनिर्मला ।
मृताद्यात्र शिवाज्ञप्ता: स्म आनेतुमिमां द्रुतं ॥५०॥
तैरित्युक्त्वामृतं सिक्त्वा विमानाग्र्ये निधाय तां ।
जग्मु: कैलासं सहोत्थक्रियागतिरियं त्विह ॥५१॥
विदुषस्तु फलाधिक्यं ज्ञात्वेदं गच्छ मुच्यसे ।
तच्छ्रुत्वा द्राङ् नृपो गत्वा क्ष्णान्मुक्तो बभूव ह ॥५२॥
गोकर्णमीदृशं क्षेत्रं सत्तमं सज्जनाश्रयं ।
अतस्तत्रैव तस्थौ हि श्रीपाद: साधुजीवन: ॥५३॥
मोचयित्वा सतोब्दांस्त्रींस्तत्रोषित्वा गतागतात् ।
कृष्णातटे कुरुपुरं प्राप्यादृश्योभवत्स तु ॥५४॥
इति० गोकर्णवर्णनं नाम षष्ठोsध्याय: ॥६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-16T21:09:33.3270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वणवणवाणा

  • स्त्री. 
  • दमणूक ; व्यर्थ श्रम ; कुत्तेघाशी . 
  • भगभग ; गांजणूक . श्रीरामाचे व्रतबंधन । सुखी केले अकिंचन । वणवण निमाली पूर्ण । - भाराबाल ७ . १५ . - क्रिवि . 
  • पुष्कळ श्रम होत असे निरर्थकपणे ( क्रि० हिंडणे ; फिरणे ). उगेच वणवण हिंडोन । - दा १९ . ६ . २४ . वनवन पहा . वणवणणे - अक्रि . धडपड करणे ; कष्ट करणे . जे चित्त वणवणी विषयालागी । - एभा २५ . २४२ . वणवणा --- क्रिवि . वणवणचा अतिशय . सारा हिंदुस्थान वणवणा पायींच हिंडून पहावा - खेया ( प्रस्तावना ). 
RANDOM WORD

Did you know?

कोणती वस्तु खाण्यातून वर्ज्य अथवा तिचा त्याग केल्याने काय पुण्य किंवा फळ मिळते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site