अथ प्रथमोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


नौम्युदेति यदज्ञानाज्जगद्रज्ज्वहिवत्पुन: ।
यत्तत्वं मीलति ज्ञानां तं चितानंदसद्गुरुम् ॥१॥
भात्यनिकवदेकं सद्धीभेदादेकरूपया ।
विदास्यैक्यं परं ब्रह्म तत्सत्यं दत्तसिज्ञितं ॥२॥
बोद्धुं भृत्वात्रिपुत्र: स्वपदरसपरान्दिव्ययोगेन बालान्
दत्ताख्य: कार्तवीर्य यदुमपि च समान्स्वाश्रितानुद्दधार ।
भूयोsन्यान् श्रीपदख्य: पुनरपि नृहरि: संज्ञया स्वीयभक्तान्
कृष्णाभीमातटस्थो जयति परगुरु: स्मर्तृगाम्येष दत्त: ॥३॥
योsजोsक्रियोsस्पृहोsप्येको बहु स्यामिति तृष्णया ।
प्रकृत्या गुणमय्येदं ततानेशो जगत्प्रभु: ॥४॥
आब्रह्मस्तंबपर्यंतं देहबुद्धींद्रियात्मकम् ।
सृष्टं चराचरं तत्र संवित्पात्रं नरोत्तम: ॥५॥
इंद्रियार्थे स्थितौ रागद्वेषौ येन जितौ स तु ।
दैवीसंपल्लभेन्मोक्षं तदर्थ संभवत्यज: ॥६॥
गाढं प्रियोsस्य भगवांस्तस्यायमपि तादृश: ।
गुप्त्या अवतरत्यस्य लीलाधाम्नाप्यजोsव्यय: ॥७॥
युगे युगेsवतीर्यापि कार्याते व्यसृजत्तनू: ।
एवं ब्राह्मेह्नि संप्राप्तो युगाष्टाविंशपर्यय: ॥८॥
दारुणेsस्मिन्कलौ प्राप्ते ज्ञात्वा स्वांशाशजोतय: ।
दयोना इत्याविरासीद्दत्तस्तु भगवान्स्वयम् ॥९॥
स कृष्णामरजातीरविहारी लोकपावनी: ।
भिक्ष्वात्मनात्र सल्लीला: कृत्वाsदृश्योsस्ति तत्र हि ॥१०॥
ओंकारोच्चारणं जातमात्रेण नयनं तथा ।
स्वर्णतामयसोsभ्यासमृतेपि ब्रह्मपाठनम् ॥११॥
तत्त्वोपदेशनं पित्रोर्बाल्ये तीर्थाटनं तथा ।
योगाख्यापनसंन्यासवर्त्मसंस्थापनेsन्यथा ॥१२॥
कथं भाव्यं द्राग्घरण्म प्रतीपाचरणै रुज: ।
तथाsवाचोsपि विद्वत्तादानं स्राग्विप्रदुर्गते: ॥१३॥
हरणं त्रिस्थिलायात्राचरणं मृतजीवनम् ।
वशागोदोहनं विश्वरूपाविष्करणं यतौ ॥१४॥
विद्वद्गर्वापहरणं निंद्यास्याद्वेदवाचनम् ।
विश्वस्ताया अवैधव्यदानं कर्मप्रकाशनम् ॥१५॥
जरदेव:पल्लवतां नयनं निष्कलस्त्रियै ॥
सुप्रजस्त्वार्पणं कुष्ठहरणं दृष्टिमात्रत: ॥१६॥
क्षणेsष्टग्रामगमनं छिन्नसस्यविवर्धनम् ॥
इत्यादिकं कृतं दिव्यं करोति च करिष्यति ॥१७॥
भपार्थिवरजोंब्वंशगणका: संतु कुत्रचित् ॥
भूयोsगणेयोरुगुणगुणान्गुणयितुं ह्यलं ॥१८॥
लीलाप्रादुष्कृतगुणरूपोsरूपोsगुणोप्यरम् ॥
श्रव:सृत्या प्रविश्यांतर्भक्तस्याघं धुनोत्यज: ॥१९॥
तदेकनिष्ठ: पूतात्मा जीवन्मुक्तो भवेत्तत: ।
निर्द्वंद्वस्यारब्धभुजो देह: पततु वा न वा ॥२०॥
( क्षेपक: ) ॥ तत्राज्ञानसमुत्पन्नद्वंद्वाभाव: प्रवर्तते ।
प्रारब्धांते स यात्येव कैवल्यं पदमुत्तमम् ॥
अयं हि ब्रह्मभूयाप्तिसत्पथो नाक्षिगोचर: ।
मोहांधानामसत्संगविवेकानां कुसंपदां ॥२१॥
कृतस्ववर्णाश्रमदृष्टकर्मा विद्वान् सदिष्टो गुरुदेवभक्त: ।
इहैव भुक्तिं च लभेत मुक्तिं संन्यास्यनेनैव पथा स योगी ॥२२॥
एवं सुवृत्तं महिमानमीशुतु: श्रुत्वास्य भीमामरजागमे ययौ ।
कश्चिद्भवभ्रष्टमना: स्तुवन्गुरु तप्त: शरण्यं श्रितकल्पशाखिनम् ॥२३॥
गणेशं शारदां नत्वा श्रीगुरुं नामधारक: ।
द्विजस्तुष्टाव घोरेत्र नृधाम्ना विश्रुतं हरिम् ॥२४॥
सर्वज्ञ माम न जानीषे विश्वसाक्षिन्न चेक्षसे ।
विलापो न श्रुतो विष्णो मम श्रुत्वाप्युपेक्षसे ॥२५॥
चेज्ज्ञातेsत्र क्क वैक्लव्यं कथं दैन्यं त्वयेक्षिते ।
श्रुते चेच्छुक्कुतोsप्यर्हा त्वय्युपेक्षा दयानिधे ॥२६॥
सर्वदेवेश्वरोsपि त्वं त्वं नोsपि कुलदैवतं ।
त्वां हित्वा कतमं याचे वेद्मीशन्त्वापि वेत्सि मां ॥२७॥
सर्वोsपि वेत्ति भूपं न भूप: सर्वन्तथोचितं ।
अज्ञे तु त्वयि सर्वज्ञे कथं श्लाघ्यमिदं प्रभो ॥२८॥
नासेवकायादात्रेsपि चेद्दास्यस्युचितं न तत् ।
सेवेच्छु: श्रीश किन्दाता तद्वत्प्रत्युपकार्यपि ॥२९॥
ज्योतिर्द्योतमिहव्दोंबु सेवोनेर्पयति ध्रुवे ।
पदं बिभीषणेsदात्रोर्दत्तं मे देह्यत: प्रियम् ॥३०॥
निधयस्तेsनुगा दास्य: सिद्धय: श्रीस्तु किंकरी ।
तत्ते किं भगवन्देयं किं कार्यं परिपूर्ण ते ॥३१॥
स्वसेवककुलं भूमौ पालयन्ति नृपा अपि ।
कुतो मोपेक्षसे दीनं मत्पूर्वार्चित विश्वभृत् ॥३२॥
देवेश मेsपराधैश्चेदायास्यन्तर्विषादतां ।
पत्ताडितार्भकै: किं नु प्रसू रुष्यति मानुषी ॥३३॥
जीवनं पितरौ यत्र भिन्नावन्यतराच्छिशो: ।
त्वं तूभयं मे किं कार्यं निर्घृणे विश्वभृत्त्वयि ॥३४॥
साहसं कुरु मेत्युक्त्वा यथा दारु भिनत्ति वि: ।
तथा साहजिकैदोषौर्निन्दाम्यंह: करोम्यहम् ॥३५॥
आघे पुण्यवत: प्रोक्तं प्रायश्चित्तमवेक्ष्य मां ।
आरात्पलायते भीत्या शार्दूलमिव शृंगिणी ॥३६॥
मालिन्यदोषभीत्या तु माषराशे: पृथक्किमु ।
कार्यं जपो मदंगाघात्किं करोति पृथग्घरे ॥३७॥
मादृक्पापो हरे नास्ति भवादृङ् नास्ति पापहा ।
पाह्यनन्याश्रयं दीनं त्यक्त्वौदासीन्यमीश माम् ॥३८॥
द्रवन्त्यपि शिला: श्रुत्वा मद्विलापं दयानिधे ।
कारुण्यं ते कुतो यातं म्रियमाणं न वेत्सि यत् ॥३९॥
एवं विलाप्य मार्गेsसौ गुरुध्यानैकतानहृत् ।
तस्थौ प्रायोपवेशेन दैवात्स्वप्नस्तदाभवत् ॥४०॥
धेनुर्वत्सं यथोपैति भगवान्भक्तवत्सल: ।
प्राप्यावधूतवेषेण स्वप्नेsमुं पर्यतोषयत् ॥४१॥
इति प्रथमोsध्याय: ॥३॥

N/A

References : N/A
Last Updated : December 16, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP