TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथ अष्टादशोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


अथ अष्टादशोsध्याय:
॥ नामधारक उवाच ॥
निद्रितं मोहतम्यां मे मनोहंकारघूर्णितं ।
बोधार्कोदयबुद्धं तत्पातुमैच्छत्कथामृतं ॥१॥
॥ सिद्ध उवाच ॥
वत्स विष्णौ प्रबुद्धोसि यत्तृप्ति: श्रृण्वतोपि नो ।
मन्ये त्वयि प्रसादोस्ति श्रीमद्भगवतो हरे: ॥२॥
श्रृण्वेको ब्राह्मणस्तत्र त्यक्तान्यान्नप्रतिग्रह: ।
दैवाप्तभुगृती शांतोसक्त: कर्मपरो गृही ॥३॥
तत्स्त्री: कृत्येव सस्त्रीका: स्वादु भक्त्वान्यसद्मनि ।
लभंते स्वंशुकार्थांस्तद्दृष्ट्वा पतिमगर्हयत् ॥४॥
भोक्तुं भर्त्रा सहाहूता धनिनैकेन सैकदा ।
पत्याsक्रुट्कामलोभेन निषिद्धैत्यावदद्गुरुं ॥५॥
दीनां कुचैलां क्षुधितां पत्या साकं धनी गृहे ।
दाताह्वयति भोक्तुं मां पतिं बोधय नैति स: ॥६॥
तच्छ्रुत्वाहूय तं गच्छ भोक्तुं वध्वेत्यजोब्रवीत् ।
स प्राह नियमं हित्वा तथा कुर्वे त्वदाज्ञाया ॥७॥
इत्युक्त्वागात्तया भोक्तुं श्वक्रोडोच्छिष्तपाकत: ।
भुंजंती ददतेन्नं सा दृष्ट्वा पत्ये शशंस तत् ॥८॥
उत्थायोभौ तत: खिन्नौ गुरुं प्राप्य तदूचतु: ।
स प्राहांगाद्य लब्धं ते स्त्री: परान्नसुखं परं ॥९॥
सोचेद्य च्छलितो भर्ता क्षंतव्यो मंतरद्य मे ।
तामाह श्रीगुरुरित: पत्यनुज्ञानुगा भव ॥१०॥
॥ विप्र उवाच ॥
निष्ठान्यथाकृता मेद्य दुष्ट्याघं कथं व्रजेत् ।
जन्मप्रभृत्यद्य यावन्नेदृक्पापं मया कृतम् ॥११॥
॥ श्रीगुरुरुवाच ॥
मा भीस्त्वय्येष दोषो न दुश्चित्तं न कुलस्त्रिय: ।
कार्यं सात: परं नेच्छेत्तथात्तुं क्कापि नैह्यत: ॥१२॥
कदाचिद्यस्य कस्यापि कर्माभाव उपस्थिते ।
द्विजाभावात्तु भोक्तव्यं तत्र दोषोन्यथा भवेत् ॥१३॥
॥ विप्र उवाच ॥
परान्नं कस्य भोक्तव्यं कस्मिन्गेहे न कुत्र वा ।
कस्माद्दानं गृहीतव्यं निषिद्धं चापि शंस मे ॥१४॥
॥ श्रीगुरुरुवाच ॥
सद्विप्रवैदिकगुरुश्वशुरस्वशिष्यमातामहालय उ भोजनतो न दोष: ।
नाsचारहीनपरकर्मरताहितार्तक्षुद्राशुचिस्वगुरुदु:खकरान्नमद्यात् ॥१५॥
दातारमेति सततं सुकृतं तदन्नभुक्त्यास्य भोक्तुरघमेति तथाप्यमंत्रात् ॥ हूत्यांघ्रिजस्य च तथा खलु मासपुण्यं दर्शे परान्नग्रहणादपयाति भोक्तु: ॥१६॥
कन्यालयेsर्भजननोत्तरमन्नमद्याल्लक्ष्मीरपैति सततं परगेहवासात् । ग्राह्यं च दानमपि सज्जनतो ग्रहे सत्क्षेत्रादिके न न कुहाप्यतिनिंद्यदानम् ॥१७॥
उत्तमं यज्ञाशिष्टान्नं दीक्षितब्रह्मिणोरपि ।
स्वार्थं पक्तं क्कापि नाद्यादद्याद्यज्ञार्पितं शुभं ॥१८॥
नश्येज्जपादापदि दानदोष: स्वाचारमप्यापदनापदिष्टम् ।
विविच्य विप्रा: प्रचरंति ये न क्काप्याधिदैन्यर्णगदान्स्पृशन्ति ॥१९॥
स्वाचारहीना: परकर्मसक्तास्तेमुत्र चात्रापि सदार्तिभाज: ।
तस्माद्द्विजाचारममुं निराशीस्त्वं कर्तुमर्हस्युभयार्थदं वै ॥२०॥
॥ विप्र उवाच ॥
देव देव जगन्नाथ दयाब्धे भगवन्प्रभो ।
सद्वुरो सर्वमाचारं वक्तुमर्हसि मे हरे ॥२१॥
॥ श्रीगुरुरुवाच ॥
विस्तृतोब्धिवदाचारो मुनीनामपि दुर्ग्रह: ।
तस्मात्सारं सद्गतिदं वक्ष्ये शाक्त्यादिसंमतम् ॥२२॥
आचार आद्यो धर्मो नु: सुखदस्तूभयत्र स: ।
श्रुतिस्मृतिपुराणोक्तचरणं विष्णुचिंतनं ॥२३॥
श्रद्धया देशकालाप्तदानं पात्रे दया क्षमा ।
शौचानसूयानायासाsतृट्ताकार्पण्यमंगले ॥२४॥
सत्ता दैवीसम्पदेतल्लक्षणो धर्म उच्यते ।
श्रैष्ठ्यं कर्माप्यते तस्मात्ततो ज्ञानं ततोमृतम् ॥२५॥
श्रुतिस्मृतिपुराणानि धर्ममूलं श्रुतिर्वरा ।
तद्वैरे द्वौ वृषौ श्रुत्योर्द्वैधे स्मृत्योस्तु लौकिक: ॥२६॥
वर्णाश्रमविभागोक्तो देशकालोचितो वृष: ।
लौकिकोपि चतुर्वर्णै: सेवनीय: प्रयत्नत: ॥२७॥
स्वनुष्ठितादन्यधर्माद्विगुणोपि स्वको वर: ।
स्वगृह्योक्तोविरुद्धोपि स्मार्तो ग्राह्यो द्विजातिभि: ॥२८॥
नित्यं नैमित्तिकं कर्म नातीयात्काम्यमैच्छिकं ।
तत्त्यागी क्कापि न सुखी ब्रह्मीभूतमृते भवेत् ॥२९॥
प्रमादलुप्तकर्मा तु प्रायश्चित्त्या शुचिर्विना ।
अनुतप्तं प्रयत्नाद्धीदु:संगापहृतक्रिय: ॥३०॥
भजेत्सलक्षणं धर्मं श्रद्धाभक्तियुतो नर: ।
ब्राह्मणस्तु विशेषेण यतोस्मै श्रैष्ठ्यमर्पितं ॥३१॥
दानादाने याजनेज्येध्ययनाध्यापने द्विज: ।
स्नानसन्ध्याजाप्यहोमपाथयज्ञपरश्चरेत् ॥३२॥
वैदिकां तांत्रिकां मिश्रामाद्यां वैकां चरेत् क्रियां ।
विमल: सुमुखस्नातो द्विराचांतो गुरूक्तिमान् ॥३३॥
त्रिकच्छी धौतसच्छुष्कद्विवासा यतगोशिख: ।
मृद्भस्मगन्धान्यतमलिप्तो दर्भकर: शुचि: ॥३४॥
पीठस्थोंsतर्जानुकर: प्रकुर्यात्कर्म सत्स्थले ।
उपोषितो विना नैशं कुर्याद्यज्ञजपाsर्चनम् ॥३५॥
दोषो नौषधगव्येक्ष्वप्फलतांबूलभक्षणे ।
कर्म संकल्प्य कार्यं सम्पूर्णतास्येश्वरार्पणात् ॥३६॥
॥ क्षेपक: ॥
खेर्को यत्रैत्युद्गमास्तौ प्राक्प्रत्यक्ते ततोपरा: ॥३६॥
द्युनक्तं प्रागुदग्वक्रो होमाद्येग्न्यादिसंमुख: ।
सौम्यैंद्यैशान्यनुक्तायां दक्षांगं चोपवीतता ॥३७॥
आसीनत्वं मध्यपाठो देवतीर्थमनुक्तके ।
निवीतं कण्ठलंब्यार्षं दक्षांसस्थं तु पित्र्यकम् ॥३८॥
प्राचीनावीतमन्यांसस्थं सूत्रं तूपवीतकं ।
भ्रष्टं वा त्रुटितं सूत्रं त्यक्त्वा दद्धयान्नवं विधे: ॥३९॥
त्रिघ्नीकृत्य त्रिपद्या षण्नवतिस्वकरोन्मितं ।
तूलादिसूत्रं पुनस्त्रिरावृत्य नवसूत्रकम् ॥४०॥
कृत्वा त्रिरावृतं ग्रन्थिं दत्वा काजशिवान्नमन् ।
प्रोक्ष्याब्लिंगै: पंक्तिवारं सावित्र्या धेहि मन्त्रवत् ॥४१॥
शश्वद्योज्या: सत्स्थिताग्निमंत्रदर्भासनद्विजा: ।
पिण्डादिस्था: कुशा विप्र: प्रेतश्राद्धाच्चितानल: ॥४२॥
मंत्रा गौस्तुलसी नीचेsसन्त: सन् शोधितो द्विज: ।
सोंकारान्सर्वदा होमे स्वाहांतान्वामहस्तहृत् ॥४३॥
आर्शच्छंदोदेवताविनियोगज्ञो मनून्जपेत् ।
शूद्राहृतं द्विजक्रीतं समिद्दर्भाप्सुमाद्यसत् ॥४४॥
अफेनानुच्छिष्टहस्तनखास्पृष्टामलांबु सत् ।
कुशकाशयवोशीरगोधूमव्रीहिकुन्दरा: ॥४५॥
दूर्वामौंजस्तृणं दर्भा वर्षामास्वीकृता: शुभा: ।
मूलतो ब्रह्मविष्ण्वीशा दर्भे सर्वेबितोमरा: ॥४६॥
कर्मोत्तरांत प्राक्संस्थं व्यस्तं वा पित्र्यमग्निगं ।
याम्यंतं तद्वदास्यं च ज्ञेयोंगें वामत: क्रम: ॥४७॥
तर्जन्यल्पाध:कराग्रमध्यादिषु यथाक्रमं ।
तीर्थं पित्र्यं कायदैवमाग्नेयं ब्राह्ममुच्यते ॥४८॥
पित्रर्षिदेवादानोपस्पर्शकार्यं चरेत्तु तै: ।
वामान्वारब्धान्यपाणि: कर्माद्यांताम्बुदानयुक् ॥४९॥
त्वक्फलकृमिरोमोत्थस्व्हेतासृक्पीतमेचकं ।
वासो दग्धं द्विजादे: सद्धौतमस्फाटितं स्वकं ॥५०॥
ब्राह्मे मुहूर्त उत्थाय गणेशब्रह्मविष्ण्वजान् ।
देवानत्वा गुरून्खेटान्गां सछ्लोकांश्च संस्मरेत् ॥५१॥
ग्रामाद्ब्रहिस्तु नैरृत्यां सद्द्व्रंब्वध्वादिवर्जिते ।
स्थलेम्बु दूरात्संस्थाप्य यतनासाक्षिवाक् तृणे ॥५२॥
उदड्मुखोन्यथा नक्तमासीनो वस्त्रमस्तक: ।
आर्षसूत्रं दक्षकर्णे कृत्वा मूत्रविशौ त्यजेत् ॥५३॥
लिङ्गं सहाद्भिरप्स्थार्द्रधात्रीमात्रमृदा गुदं ।
त्रिर्वामो दशवारं च कर: शोध्या: करांघ्रय: ॥५४॥
प्रत्येकं सप्तवारं द्विगुणं वीर्येर्धमन्यके ।
वर्णिवानप्रस्थभिक्षो: शौचं द्वित्रिचतुर्गुणं ॥५५॥
अर्धार्धार्धं निशाशक्तिमार्गेष्वज्ञाबलासु तु ।
गन्धलेपांतावधि स्याद्गंडूषान्वामतस्त्यजेत् ॥५६॥
द्विजो द्वादश चान्योल्पान्तर्जन्यास्यं न शोधयेत् ।
क्षीरिकण्टकिवृक्षाम्रनिम्बापामार्गदारुणा ॥५७॥
द्वादशांगुलमात्रेण द्विजोन्योल्पेन मन्त्रवत् ।
शुद्धास्योब्गोविशा प्रात: स्नायान्मध्यंदिनेम्मृदा ॥५८॥
भिक्षुर्व्रती त्रिकालं न चिरंटी शिरसा सदा ।
शीतै: शीताप्सम्पुटितोष्णकैर्वाब्लिंगमंत्रितै: ॥५९॥
धाम्न्याचमनसंकल्पमार्ष्टितृप्त्यघहारि नो ।
दीपाल्युत्सवमांगल्याsब्दाद्येभ्यंगं सदैच्छिकम् ॥६०॥
अनिंद्याहेsधवाभिक्ष्वोर्नेदं स्नायान्न शीतकै: ।
मांगल्येsर्भोत्पत्तिपर्वक्रांतिश्राद्धेषु नोष्णकै: ॥६१॥
स्नायाद्वांत्यशुचिस्पर्शदु:स्वप्नरतिदुर्गमे ।
नद्यां प्रवाहाभिमुखो वरुणं प्रार्थ्य मंत्रवत् ॥६२॥
स्नात्वालोड्यांब्वम्बुमंत्रै: स्वमुन्मार्ज्याघमर्षणं ।
कृत्वा स्नात्वा तर्पयित्वा जले देवानृषीन्पितॄन् ॥६३॥
निष्पीडयोदग्दशं वास: शोधितांगो गृहं व्रजेत् ।
स्रवत्यात्मा सरंध्रोत: प्रात:स्नानं विशोधनं ॥६४॥
त्रिसप्तद्वादशाहं चेत्संध्यास्नानाग्निवर्जित: ।
द्विजोपि शूद्रोशक्तश्चेन्मांत्राद्यन्यतमं चरेत् ॥६५॥
हृद्यभौमाग्नेयमांत्रानिलदिव्यै: शुचिर्हरे: ।
ध्यानमृद्भस्माम्मनुगोरजोवर्षात्मकाप्लवै: ॥६६॥
मेधालोलुपतारोग्यरूपतेजोयशोबलं ।
शौर्यदु:स्वप्नहृत्यायुर्लभेत्स्नातोन्यथापरम् ॥६७॥
स्नात्वा मृद्भस्म हुत्वांगे धार्यमभ्यर्च्य चन्दनं ।
केशवाद्यैर्द्वादशभि: सिते पक्षेsसिते परै: ॥६८॥
ललाटोदरहृत्कण्ठदक्षकुक्षिभुजश्रुति: ।
कुक्षिदो:श्रुतिपृष्ठांगककुन्मूलेनकं त्विति ॥६९॥
मृद्गन्धतिलकैरंक्या भस्मपुंड्रै: षडर्णत: ।
मृताशौचे न गन्धान्न मांगल्ये भस्म धारयेत् ॥७०॥
गयाश्राद्धाधानपट्टप्रेतकृत्योत्तरीयकं ।
पादुका रौप्यमुद्रा न क्षौरं जीवत्पिता भजेत् ॥७१॥
रौप्यहैमीखड्गमुद्रावत्तर्जन्यल्पकांगुलि: ।
साग्रागर्भचतुर्दर्भपवित्रानामिकोपि वा ॥७२॥
मुक्तांगुष्ठाल्पगोकर्णाकृतिहस्तेन कं त्रिभि: ।
केशवाद्यै: प्राश्य हस्तौ द्वाभ्यां प्रक्षाल्य चाधरौ ॥७३॥
द्वाभ्यां प्रोक्ष्यास्यमेकैकात्करं पादौ शिरोपरै: ।
आस्यं नासेक्षिणी कर्णौ नाभिं हृत्के भुजौ स्पृशेत् ॥७४॥
नासां सांगुष्ठतर्जन्यांगुष्ठेनास्यं च दृक्श्रुती ।
सानामिकेन साल्पेन नाभिं करतलाग्रत: ॥७५॥
हृद्बाहून्कं च सर्वाभि: स्पृशेदाचमनं त्विदं ।
त्रिभि: पीत्वा शुद्धपाणि: स्पृशेत्कर्णमसम्भवे ॥७६॥
माषमज्जxमात्राम्बुपानेथ द्विरुपस्पृशेत् ।
मूत्राद्युत्सर्गxत्ध्यूर्ध्वं स्नाने दाने सुरार्चने ॥७७॥
प्राक्परे कर्मसंध्यासु सुप्ते वासोवृतौ क्षुते ।
कासश्वासागमादानाध्ययनाशुद्धभाषणे ॥७८॥
श्मशानचत्वारगतौ पच्छौचे स्वाsन्ययो: कृते ।
आचामेद्धीनसंभाषे स्त्रीशुद्रोच्छिष्टभाषणे ॥७९॥
रक्ताश्रुपातेसुयामे जलोत्तारेभिवादने।
उच्छिष्टस्पर्शेsपाने च याते कर्णं स्पृशेत्तु वा ॥८०॥
विप्रदक्षश्रुतौ देवपाशीनेंद्वग्न्यबाशुगा: ।
संध्याज्ञानाद्भवेच्छूद्र: संध्याहीनोशुचिर्द्विज: ॥८१॥
विx संध्यावंदनेन नाधिकारोन्यकर्मसु ।
सम्यग्ब्रह्मात्र ध्यायंति विप्रा: संध्या तत: स्मृता ॥८२॥
भाढ्या भहीनार्कयुक्ता तूत्तमा मध्यमाधमा ।
प्रात:संध्यापरा तद्वत्सार्कार्कोना च भान्विता ॥८३॥
त्रिनाड्यधस्तामकृत्वा चतुर्थार्घ्यं प्रदापयेत् ।
अध्यर्घयामादासायं संध्या मध्यान्हिकी स्मृता ॥८४॥
धृत्वाल्पानामिकांगुष्ठैर्यतिर्वर्णी च पंचभि: ।
अन्यो नासां शनैर्वायुं सव्ययापूर्य शक्तित: ॥८५॥
प्रणवव्याहृती: सप्त गायत्रीं शिरसा सह ।
त्रिर्जपन्कुम्भितं मन्दं दक्षनाड्या विरेचयेत् ॥८६॥
कार्योन्यथासुयामान्यो मूलबंधोत्र सत्तम: ।
जालंधरोड्डियाणाख्यौ कुम्भके रेचके हितौ ॥८७॥
प्राणायामोघनिघ्नोयं कार्य: सर्वेषु कर्मसु ।
ग्रामाद्बहि: स्याद्द्विगुणं नद्यां शतगुणं फलं ॥८८॥
तीर्थे सहस्रं संध्यायामनंतं सांध्यकर्मजं ।
वहि:संध्या सुरापानन्रुतोक्त्याद्यघहारिणी ॥८९॥
संध्यामुपासिष्य इति संकल्प्यादाय मार्जयेत् ।
गोकर्णाकृतिताम्रादिपात्रे वामकरेप्यप: ॥९०॥
वरान्तैर्नान्तै: सथान्तै: क्रमात्के पादयोर्हृदि ।
आपोहिष्ठेति पच्छोप: प्रातर्मघ्यंदिने निशि ॥९१॥
सूर्यश्चाप: पुनंत्वग्निश्चेति प्राश्य ह्युपस्पृशेत् ।
सोंकारव्याहृत्योंकारयुग्देव्यप्सूक्ततो द्विज: ॥९२॥
मार्जयेत्प्रतिमंत्रं के ऋतं चेति तृचांतरे ।
नि:श्वास्याघनरं स्मृत्वा दक्षनासापुटेन तं ॥९३॥
बहिर्नि:सार्य हस्तेप्सु पतितं नावलोकितं ।
क्षिप्त्वा क्षितौ वामभाग आचम्याप्पोरितांजलि: ॥९४॥
गोशृंगमात्रमुद्धृत्यांजलिं व्यंगुष्ठतर्जनीं ।
तिष्ठन्ध्यायायन्संमुखोर्कं देव्यार्घ्यं त्रिर्निवेदयेत् ॥९५॥
असावादित्यो ब्रह्मेति ध्यात्वासिच्य प्रदक्षिणं ।
परीत्याचामेन्मध्याह्ने नतोर्घ्ये हंस इत्यृचा ॥९६॥
जपेद्गृहाद्बहिर्द्विघ्नं त्रिघ्नं नद्यां शतं फलम् ।
गोष्ठे वनेग्निहोत्रे च हरहर्यग्रतोमिति ॥९७॥
काष्ठासनेकीर्त्यकर्णं दौरात्म्यं पल्लवेंशुके ।
दैन्यं रुग्ग्राव्ण्यथारोग्यं भसिते कंबले सुखं ॥९८॥
विदैणेयेजिने द्वैपे मोक्ष: प्रज्ञायुषी कुशे ।
व्याहृत्यास्मिन्सिद्धपद्मस्वस्तिकाद्यासनात्सुखं ॥९९॥
उपविश्य क्षमां प्रार्थ्य भूतान्युत्सार्य भावयेत् ।
यथांगमात्मन्यात्मानं देव्या तद्रूपमेकधी: ॥१००॥
आर्षंदैवतछंदांसि स्मरन्नक्षरपूर्वकान् ।
न्यासान्कृत्वाखिला मुद्रा: प्रदर्श्य मनुदेवता: ॥१०१॥
तां बालां बालादित्येति त्रिभिर्ध्यानैस्त्रिकालत: ।
ध्यात्वा चागच्छ वरद इति तिष्ठन्समाहित: ॥२॥
प्रागास्यो मन्त्रार्थमनुसंदधानो जपेच्छनै: ।
सोंकारव्याहृतिं देवीं छिन्नपादां स्रजांशुके ॥३॥
मत्रकारौ मनस्त्राणौ तद्योगान्मंत्र उच्यते ।
जन्मविच्छेदपापघ्नौ जपकारौ तु तद्युजा ॥४॥
प्रोक्तो जपो हि यज्ञोयं सर्वयज्ञेषु तूत्तम: ।
वाचिकोसन्मानस: सन्रहस्यो मध्यमो जप: ॥५॥
शाखारेखाशङ्खमणिप्रवालस्फटिकैर्जपे ।
मुक्तापद्माक्षीस्वर्णाक्षैर्दशोत्तरगुणं फलम् ॥६॥
प्रोक्षिता स्रक् सती मेरुलंघने स्रक्च्युतौ जपे ।
तंद्यादौ च जपाच्छुद्धिर्देवीं नासाग्रदृग्जपेत् ॥७॥
यतिर्जपेत्षडोंकारां सहस्रं चाष्टयुक्शतं ।
अन्योष्टाविंशतिं पंक्तिं नार्थार्थं तां जपेद्द्विज: ॥८॥
मैत्रै: सौरैरुपस्थाय वारुणैश्च क्रमात्सदा ।
जातवेदसे तच्छंयोस्त्रिर्नमो ब्रह्मणे इति ॥९॥
प्रणम्य दिक्तत्पदेवविप्रान्सन्ध्यां विसृज्य च ।
गुरु निषण्णं प्रागास्यं संमुखोत्राभिवादयेत् ॥११०॥
कराभ्यां यथावामान्यकर्णौ स्पृष्ट्वा पदौ गुरो: ।
व्यस्ताभ्यां स्पृष्ट्वा शिरोंघ्र्योर्न्यसेत्तदभिवादनं ॥११॥
हृद्दृग्वाक्पत्कोरुवक्ष:करैर्देवान्नमेद्वरान् ।
ज्ञानल्पानपि सद्विप्रान्पाणिभ्यान्नाशुचीन्नमेत् ॥१२॥
कर्मस्थाग्न्यादिहस्तान्तद्वत्स्वयं चाल्पकान्करात् ।
उद्वाहोर्ध्वं चरेत्सायं प्रातरौपासनं स्वयं ॥१३॥
पत्नी वान्यतराग्रेन्यश्चेद्धमन्या प्रबोध्य तं ।
प्रादुष्कृताग्निं ध्यात्वालंकृत्य संस्कृत्य हौम्यकं ॥१४॥
ज्वालायां समिधं हुत्वा प्रात: सूर्याय चाग्नये ।
सायं तूष्णीं तूभयत्र द्वितीयां जुहुयात्तत: ॥१५॥
उपतिष्ठेत्स्वर्चिताग्नि: सूर्याग्निमनुभि: क्रमात् ।
कायाभ्यां तूभयत्रात्र षष्ठिधान्यमिताहुति: ॥१६॥
पयोदध्याज्यनीवारयवव्रीह्यादिहौम्यकं ।
गृह्यं परिचरेछ्रौताग्नीन्वापि ज्ञाततद्वृष: ॥१७॥
नातीयाद्ब्राह्मणो यज्ञान्नित्यमासिकवार्षिकान् ।
नाहोतीयाद्विना दानं शक्त्या दद्यात्किमप्युत ॥१८॥
भगवंतं हरिं विष्णुं संस्मरेत्सर्वदासकृत् ।
संस्कृते साररे च्छन्ने स्वे गृहे निवसेद्गृही ॥१९॥
भू: पूताप्युपलिप्ता चेत्पुनर्लेपेन शुद्ध्यति ।
तन्नित्यं वास्तूपलिपेत्प्रेताद्योलिप्तकेस्ति हि ॥२०॥
कांस्यांशुकेत्र गर्ह्ये गोविशा नैरृतितो गृहं ।
उपलिप्य स्वलंकार्यं रंगवल्ल्यादिनान्वहं ॥२१॥
स्थाप्यं गव्यं तिलाश्चर्म मणिश्रीखण्डधेनव: ।
त्रिसंध्येर्च्योमर: प्रातर्विस्तराच्चंदनादिना ॥२२॥
मध्यान्हे निशि दीपैर्वा गोवज्जन्मान्यथा द्विज ।
गुर्वर्काग्न्यंब्वष्टधार्चा गोविप्रान्यतमार्चनं ॥२३॥
कुर्यात्तिष्येजसामीप्यं शालिग्रामे तमप्युत ।
गुर्वाज्ञया भक्तिमान्यं पूजयेत्स प्रसीदति ॥२४॥
देवो भक्ततपोयोगादृच्छत्यर्चनगौरवात् ।
बिम्बाभिरूप्यात्सामीप्यं भक्तिरेवात्र कारणं ॥२५॥
नाश्रद्दधानोधिकारी संशयात्मात्र नास्तिक: ।
येभ्यो मातेति पुंगंधं निवार्यादाय चाखिलान् ॥२६॥
सम्भारानुपविश्याग्रे देवस्याप्पूरितं घटं ।
दक्षभागे निधायाब्जं प्रपूज्य प्रोक्ष्य तत्स्थलं ॥२७॥
स्वं सम्भारांश्च भूभूतशुद्धिं कृत्वा यथायथं ।
प्राणान्प्रतिष्ठाप्य चांतर्बहिर्मातृकथा न्यसेत् ॥२८॥
तनौ देवेपि पुंसूक्तमन्त्रैश्चापि यथाक्रमं ।
करांघ्र्यूरुकटीनाभिहृद्ग्रीवादोर्मुखाक्षिके ॥२९॥
एवं भूत्वा सुरोर्घ्यादिपात्राण्यप्पोरितानि च ।
संस्थाप्येशकलां हृत्स्थामापादतलमस्तकं ॥१३०॥
ध्यात्वांजलौ सुमगतं विभाव्यार्चागतां तत: ।
प्रकल्प्यार्चां देवरूपां साक्षान्मत्वा ततोर्चयेत् ॥३१॥
सम्पूज्य पीठद्वाराशा मंत्रतंत्रविधानत: ।
पुंमंत्रैर्वाह्वानपीठपाद्यार्घ्याचमनाप्लवान् ॥३२॥
वस्त्रे सूत्रे गंधपुष्पे धूपदीपाशनादिकं ।
नतिप्रदक्षिनापुष्पांजलीन्भक्त्यार्पयेत्क्रमात् ॥३३॥
( क्षेपक ) यजेत्पौराणिकैर्मंत्रै: स्त्री: शूद्रश्च द्विजोदितै: ।
सम्भवे सत्याप्लवादौ दद्यात्पंचामृतानि च ।
भूपा: सुभोगा गंधोर्ध्वमशनेन्नं चतुर्विधं ॥३४॥
राजोपचारताम्बूलदक्षिणारार्तिकै: फलै: ।
स्तोत्रैर्गीतैर्नृत्यवादयिस्तोषयेद्द्विजभोजनै: ॥३५॥
घण्टानादं चरेदादौ स्नाने धूपप्रदीपयो: ।
दद्यादाचमनं स्नाने नैवेद्ये वस्त्रसूत्रयो: ॥३६॥
जलं प्रत्युपचारं च शङ्खांब्वीशं विनाप्लुतौ ।
स्वारामारण्यक्रयाप्तं पुष्पं सन्मध्यमं त्वसत् ॥३७॥
तद्वच्छ्वेतारक्तकृष्णं वर्ज्यं पर्युषितं सुभं ।
सच्छिद्रं जन्तुयुक् शीर्णं कीटाद्यात्तं स्वयं च्युतं ॥३८॥
समलं वामहस्तांघ्रिस्पृष्टं क्षालितमम्बुनि ।
बकुलाब्जाशोकजातीदूर्वाबिल्वं शमी कुश: ॥३९॥
तुलसी करवीरं च मल्लिकाशोकमुत्तमं ।
कोविदारार्कधत्तूरशाल्मलीकुटजैर्हरि: ॥१४०॥
नार्च्यो गणेशस्तुलस्या दूर्वयार्येश्वरोsसितै: ।
रक्तै: केतकनिम्बाद्यैर्बिल्वं श्वेतसुमं प्रियम् ॥४१॥
दूर्वा गणेशस्य विष्णोस्तुलसीत्यादि सर्वेश: ।
ज्ञात्वा पुष्पाणि देयानि श्रद्धया देवतुष्टये ॥४२॥
हुत्वा पुंसूक्तेन दत्वा पुष्पाणि प्रार्थयेद्धरिं ।
मंत्रं जपेद्यथाशक्ति भक्त्या तद्गतहृद्द्विज: ॥४३॥
द्विजदेवांघ्र्यब्जतीर्थं पेयं धार्यं च मूर्धनि ।
चतुर्ध्याध्ययनं कुर्यात्स्ववृत्त्या पोष्यपोषणम् ॥४४॥
स्ववृत्त्या जीवनाभावाद्गुर्वापद्यन्यवार्तया ।
जीवेतानिंद्यया नैव हीनवृत्त्या कुटुम्ब्यपि ॥४५॥
कृतसन्ध्य: कृतोपस्थो जानुस्थसकुशांजलि: ।
सोंकारव्याहृतिं देवीं रोदसीदत्तदृग्जपेत् ॥४६॥
तां पच्छोर्धर्चश: सर्वां वेदान्सांगान्स्वशक्तित: ।
तिष्ठन्नासीनो व्रजन्वानध्यायेल्पं जपेत्तत: ॥४७॥
त्रिर्नमो ब्रह्मण इति तर्पयेत्साक्षतांजलि: ।
देवानृषीन् तिलै: पितॄन्स्वगृह्योत्कविधानत: ॥४८॥
यज्ञादिवर्ज्यमाशौचे कर्म मानसिकं चरेत् ।
यमाग्निपितृभे नंदाशुक्राकीहे जनुर्दिने ॥४९॥
मांगल्येsब्दतदर्धार्धं विवाहव्रतचौलत: ।
तिलैर्नैमित्तिकमृते तर्पयेन्न गृहे तु न ॥५०॥
भीष्मं माघसिताष्टम्यां दीपाल्यां तर्पयेद्यमं ।
नित्यैर्नैमित्तिके: श्राद्धै: सत्पुत्र: पुत्रतां व्रजेत् ॥५१॥
त्रियज्ञाढ्यं वैश्वदेवं कुर्यात्सूनापनुत्तये ।
ध्याते कुण्डस्थापितेग्नौ दीप्तेन्नाद्याहुतीर्हुनेत् ॥५२॥
प्रात: सायं बलीन्दद्यात्पितृभ्योपि बहिर्बलिं ।
भूताद्युद्देशत: क्षिप्त्वा कांक्षेदतिथिमागतं ॥५३॥
कमप्यभ्यर्च्य शक्त्यान्नं देयमीश्वरतुष्टये ।
साद्यान्तांब्वन्नं यतौ तत्स्वल्पमप्यद्रिसिन्धुवत् ॥५४॥
बलावनुद्धृते नाद्यान्नोद्धरेच्च स्वयं बलिम् ।
नित्यं श्राद्धं चरेद्वान्नं दद्यादद्याच्च पोप्ययुक् ॥५५॥
मन्त्रवत्परिषिचार्द्रहस्तांघ्र्यास्योविदिड्मुख: ।
दक्षभागे बलीन्दत्वाहं वैश्वानर इत्यमुम् ॥५६॥
स्मृत्वापो मंत्रवत्प्राश्य हुतप्राणाहुतीर्ग्रसेत् ।
धृतपात्र: प्राणमंत्रैरजावद्भोजनं चरेत् ॥५७॥
पात्रधारणमौने तु प्राणहुत्यूर्ध्वमैच्छिके ।
तैजसे राजते हैमे ताम्रे जंब्वाम्रचम्पके ॥५८॥
रम्भामधूककुडजपनसोदुम्बेरच्छदे ।
भोक्तव्यं मण्डलोर्ध्वस्थे विधवाव्रतिभिक्षुभि: ॥५९॥
न तैजसेखिलैर्वल्लीपलाशार्कवटादिषु ।
पीठस्थोप्यासनारूढ: प्रसृतप्रोष्ठपान्न तु ॥६०॥
नार्भैर्वध्वोद्वाहमृते नाद्याद्दुष्टैकपंक्तिग: ॥
द्वार्भस्माग्न्यपस्तंभमार्गैंर्भिंद्यात्पंक्तिं तु संशये ॥६१॥
नाद्यात्पाकाग्निदेवासद्गृहे सन्ध्यातिरात्रिषु ।
पीतशेषं ग्रासशेषं रात्रिपर्युषितं विना ॥६२॥
तैलाज्यपक्कं शूद्रान्नमुदक्यादिविलोकितं ।
केशकीटादियुक्पक्कं व्याद्युच्छिष्टं सदा त्यजेत् ॥६३॥
कुसुम्भालाबुवृंताककोविदारवटादिकं ।
कुस्थानोत्थान्नशाकादिपलाण्डुलशुनाद्यसत् ॥६४॥
सद्गोलुलायीदुग्धादि सदन्यासां तु गर्हितं ॥
कांस्येसन्नारिकेलेक्षुरसो गव्यं च ताम्रके ॥६५॥
गुड: सदध्यार्द्रकोसन्केवलं लवणं त्वसत् ।
श्वोदक्यापतिताद्यारश्रवणे तद्विलोकने ॥६६॥
भुक्तौ परस्परस्पर्शे नाद्यात्पंक्तिस्थ उत्थिते ।
गुरून्विनोलूखलादेर्नाद्याद्यावद्ध्वनि द्विज ॥६७॥
नष्टे दीपे न भोक्तव्यं न मूत्राद्युत्सृतौ भुजि: ।
लेह्याद्यसद्धस्तदत्तं नोच्छिष्टं भाजने न्यसेत् ॥६८॥
ग्रसेदास्याविकारेण ग्रासानष्टौ यतिर्वनी ।
षोडश द्वात्रिंशदन्यो वर्णीष्टं मधुरं द्रवम् ॥६९॥
प्राङ्मध्येम्लादिकठिणं तिक्ताद्यन्ते द्रवं ह्यपि ।
सर्वं सशेषमश्नियात्पायसाज्याब्धिजैर्विना ॥७०॥
नाद्याद्व्रताहेर्कपर्वनक्तं भूताष्टमी दिवा ।
तलप्रसृतशाखाभिर्भुक्तं फूत्कारतोप्यसत् ॥७१॥
त्यक्त्वोच्छिष्टं क्षितौ मन्त्रात्पीतापोशनशेषकं ।
कौ सिक्त्वा रौरव इति मंत्राच्छुद्धकरास्यपात् ॥७२॥
हस्तोद्धृष्टाम्बु सिक्त्वाक्षणोर्जपेच्छर्यातिमित्यपि ॥
आतापिं चेति ताम्बूलं सत्पंचत्र्यैकपूगयुक् ॥७३॥
सांगं प्राग्ब्रह्मणे दद्यादद्यान्नादोधवा यति: ।
चूर्णांघ्र्यग्रशिरोनं सत्पर्णं चाहोवशेषकम् ॥७४॥
नयेत्पुराणमननात्ततो नक्तं कृतक्रिय: ।
स्वपेद्यामोर्ध्वं द्वियामं विष्ण्वर्पितसमक्रिय: ॥७५॥
सुमुहूर्तकृते तल्पे स्तुवन्निट्सुखशाय्यहीन् ।
त्रिसन्ध्ये न स्वपेद्भूत्यां धान्येन्ह्यमरगोगृहे ॥७६॥
न श्मशानाध्ववल्मीकघोरदेश उदक्शिरा: ।
नग्नो नोर्ध्वं देवगुर्वो: प्रवासे प्राक्पद: स्वपेत् ॥७७॥
कार्या निशाद्ययामांतं संकटांतरिता क्रिया ।
नैशा निशीथपर्यंतं प्रायश्चित्तं तत: परं ॥७८॥
कर्मवैगुण्यादिदोषे लोपादावपि सर्वश: ।
प्रायश्चित्तं चरेद्विद्वान्यथावन्नान्यथा शुचि: ॥७९॥
स्वर्क्षे स्वजायामृतूर्ध्वं शुद्धामुपगमेद्रह: ।
प्राक्चतुर्निट्श्राद्धतत्प्राग्दिनाहोव्रतपर्वसु ॥८०॥
जन्माहाद्यष्टमीभूतमूलांत्यपितृभेषु नो ।
कैश्चिदुक्तं दशाब्दोर्ध्वं वर्णी स्यादृतुग: सदा ॥८१॥
द्वेषादिनोपगच्छेद्यो नर्तौ स भ्रूणहाप्यृतौ ।
यो विदेशं व्रजेद्वंध्यां कन्यापुत्रान्वितामृते ॥८२॥
षोडशाहमृतु: कन्याsसमेत्राह्नि समे सुत: ।
भवेन्निषेकसमये यादृक्चित्तविकल्पना ॥८३॥
भ्रूणस्तद्वदतस्ताभ्यां सत्वं धार्यं हिताप्तये ।
पितृत्राता हि सत्पुत्र: प्रायोपुत्रा: पतंत्यध: ॥८४॥
पितृतारक एकोपि सत्पुत्रोत्र ध्रुवादिवत् ॥
किं कार्यं बहुभिर्दुष्टैर्धार्तराष्ट्रशतोपमै: ॥८५॥
तारकोत्रैवमाचार: प्रोक्त: शाक्त्यादिसंमत: ।
विचाराचारमादाय कर्म कुर्वन्सुखी भव ॥८६॥
उभयीसिद्धिभाजस्ते य आचारं चरंत्युमुं ।
स्वाचारहीना दण्डया: स्युर्ब्राह्मणास्तु विशेषत: ॥८७॥
इति गुरुमुखलब्धं धर्ममेनं चरन्स द्विज इह सुखमिष्टं साधु भुक्त्वाsप मोक्षं । तत उदित इहासौ तिष्यलुप्तोपि धर्मो विभुरपि लघुसिध्द्यै भक्तियोगं ततान ॥१८८॥
इति श्रीगुरुचरिते कर्मयोगे कर्मकाण्डकथनं नाम पंचमोsध्याय: ५ आदितोष्टादशाsध्याय: ॥१८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-16T21:09:34.3430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Guardian Spirit

  • पालकदेवता 
RANDOM WORD

Did you know?

पुष्पे पत्रे, किती काळाने शिळी ( निर्माल्य ) होतात ? पूजेत वापरू नयेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.