TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथैकविंशोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.



अथैकविंशोsध्याय:
॥ नामधारक उवाच ॥
साधूदितं चरित्रं भो प्रभोर्धन्यं दिनं त्विदं ।
क्षणमात्रोपि कालोद्य नातीतस्तत्कथामृते ॥१॥
॥ सिद्ध उवाच ॥
तन्तुको नाम भक्तोभूत् त्रियामं भगवत्प्रिय: ।
संसारयात्रां निस्तीर्य याममात्रं तमाभजत् ॥२॥
तद्बंधुता कदाचित्तं श्रीशैलं गन्तुमाह्वयत् ।
स प्राह मे मठ: शैल: श्रीगुरुर्मल्लिकार्जुन: ॥३॥
सा तं निषिध्य मूर्खोयमिति मत्वा ययौ नगम् ।
कुतो नेतोसीत्यजेन पृष्टोपि प्राह पूर्ववत् ॥४॥
ततो माघेल्पकालेन शिवरात्रिरुपस्थिता ।
मध्याह्ने तद्दिनेजस्तं प्राह शैलोत्सवोद्य सन् ॥५॥
॥ तन्तुक उवाच ॥
त्वत्पादाब्जोवान्मन्ये क्कापि नास्त्याधिकोत्सव: ।
इदं प्रत्यक्षमज्ञाय मुधा मुग्धा भमंति कौ ॥६॥
तच्छ्रुत्वा प्राह भगवान्मा ब्रूहीदं जगत्प्रभु: ।
सर्वत्रावस्थितोप्येष सत्क्षेत्रमहिमा वर: ॥७॥
महातपस्विभि: क्षेत्रं पवित्रीकृतमस्ति तत् ।
परमात्मा तत्प्रभावात्तत्र जागर्त्यनारतं ॥८॥
अतस्तत्रैव भजतां कार्यसिद्धिर्भवत्यरं ।
महातपस्विनो धन्या: स्वयं मुक्ता अपीतरान् ॥९॥
मोचयंति स्वतपसा जन्मसंसारबंधनात् ।
लोकोद्धृत्यै प्रजायंते सत्तपस्विविभूतय: ॥१०॥
तत्संचारस्थलरज:संस्पर्शोप्यत्र मुक्तये ।
अतस्तत्सेवितक्षेत्रे लोको यास्यति सादरम् ॥११॥
एह्यद्य योगगत्याद्रिं गत्वा ते दर्शयामि तत् ।
इत्युक्त्वा पादुके दिव्ये धारयित्वा दृढं दृशौ ॥१२॥
निमीलयित्वा श्रीशैलं सह तेन ययौ क्षणात् ।
प्राहोन्मील्य दृशौ पश्य श्रीशैलममुमित्यज: ॥१३॥
सोप्युन्मीलितदृग्दृष्ट्वा श्रीगिरिं तदनुज्ञया ।
क्षौरस्नानादि कृत्वागाद्द्रष्टुं श्रीमल्लिकार्जुनं ॥१४॥
यांतं स्वक: प्रेक्ष्य तमाह नोनुयातोसि कस्मान्न युतिं करोषि ।
अद्य क्षणाच्छ्रीगुरुणाहृतोस्मीत्युक्तोपि तेनोक्तममंस्त मिथ्या ॥१५॥
तस्मै यथास्वं स निवेद्य भक्तो गुर्वंघ्रिपद्मद्वय एकतान: ।
प्रासादमेत्यांतरनेकलोकव्याप्तं विवेशेश्वरदर्शनाय ॥१६॥
तत्रोपविष्टं गुरुमर्चयन्ति सर्वेपि कश्चिन्न हि तत्र देव: ।
इत्थं विलोक्यापि गुरुं प्रपूज्य पुनर्गुरुं प्राप्य तदुक्तवान्स: ॥१७॥
अत्र त्वमेवासि कुतोज्ञलोका आयांति हित्वा निकटस्थितं त्वां ।
व्याप्याखिलं त्वं परिपूर्णविश्वं दशांगुलं तिष्ठसि वक्ति वेद: ॥१८॥
॥ श्रीगुरुरुवाच ॥
एक: परात्मा भजतां तथापि स्थानप्रभाव: प्रिय भिन्न एव ।
स्नानं त्विदं सर्वजनाश्रयं सन्मुक्तिप्रदं श्रृण्विह पूर्ववृत्तं ॥१९॥
विमर्षणो नाम नृप: किरातदेशे कृती क्षात्रवृषप्रवीण: ।
द्विजातिभक्तोपि च भूतमात्रहिते रत: साधुजनानुयायी ॥२०॥
स्त्रीलंपट: प्राग्गुणतो निषिद्धभुक्शौवोत्तम: शङ्कररूपचिंतक: ।
तं प्राह साध्वी महिषी कथं शिवे भक्तिर्दृढा धर्मविरुद्धचेष्ट ते ॥२१॥
॥ राजोवाच ॥
पंपापुरे श्वाभवमाद्यजन्यामुच्छिष्टमत्तुं शिवसद्म यातं ।
हन्युर्जना द्वारि मृतिक्षणेजो दृष्टोर्चित: प्रोज्वलिताश्च दीपा: ॥२२॥
प्रदक्षिणं तं हि परीत्य शैवे दिने मृतस्तेन नृपोत्र शैव: ।
ये दुर्गुणास्ते श्वनिसरजोत्था: स्यु: पूर्वसंस्कृत्यनुगो हि जीव: ॥२३॥
प्राड्मे जनि: क्केति तयाह पृष्ट: प्राक्त्वां कपोतीं सति चंचुमांसां ।
चिल्लोहनच्छ्रीमदगे शिवाग्रे प्राणार्पणान्मे महिषीह जाता ॥२४॥
क्केतो भवान्यास्यसि चाप्यहं क्क शंसेति पृष्ट: स तु सिंधुदेशे । राजा भविष्याम्यपि सृंजयोत्था मत्स्त्री त्वमग्रेपि कलिंगजा त्वं ॥२५॥
साराष्ट्रकेहं खलु मागधी त्वं गन्धारजावन्तिदशार्णजौ च ।
नृपोप्यनन्तोपि ययातिजा त्वं पांड्योहमग्रेपि विदर्भजा त्वं ॥२६॥
स्मरोपमो धीगुणशीलशाल्यहं वृत्त्वा तदा त्वां रतिभां स्वयंवरे । त्वया सहेष्ट्वा पुरुदक्षिणान्मखान्सम्राट्तया प्राप्य सुतान्सुभोगयुक् ॥२७॥
लब्ध्वात्मतत्वं घटजाच्च जीवन्मुक्तो भविष्यामि सह त्वयैवं ।
राड्दंपती वै प्रतिजन्म भूत्वा मुक्तौ भविष्याव इति ह्यवोचत् ॥२८॥
शंभो: पुर: साहजिकासुदानादेवं तिरश्चोपि गतिस्तु लोका: ।
बुत्ध्वेदमायात्यपि देवता तु स्थलानुमानात्खलु जागरूका ॥२९॥
इत्युक्त्वा धारयित्वेश: पादुके सङ्गमं क्षणात् ।
तमानीयेरयद्ग्रामं प्रहृष्ट: प्रययौ स तु ॥३०॥
तत्रत्या: संगमेsदृष्ट्वा गुरुं खिन्ना अवेक्ष्य तं ।
आयांतमब्रुवन्यांत: कस्मात्क्षौरं कृतं त्वया ॥३१॥
स प्राह मां क्षणान्नीत्वा श्रीशलं भो यथाविधि ।
क्षेत्राचारं कारयित्वा संप्रत्यत्रानयत्प्रभु: ॥३२॥
तच्छ्रुत्वात्रैष मध्यान्हे दृष्टो ब्रूते मृषेति ते ।
मत्वैत्य संगमे तत्र निशि सर्व उपोषिता: ॥३३॥
चक्रुर्जागरणं शैवनामोच्चारणपूर्वकं ।
तत: शैलाज्जन: प्राप्त: पक्षात्स प्राह विस्मित: ॥३४॥
श्रीशैलेयं शिवद्वारि तंतुक: सकृदीक्षित: ।
तदा सप्रत्यया: सर्वे ननंदुर्विस्मिता भृशम् ॥३५॥
सद्गुरो: सेवया बाढं कर्मबंधं निहत्य स: ।
सिषेवे परमानंदं यत्र नो द्वंद्वसाध्वसं ॥३६॥
एकैकयापि भक्यैवं मुक्ता: कति न वेद तान् ।
कवी शिष्यावभूतां तौ मुक्तौ श्रीगुरुकीर्तनात् ॥३७॥
गुरुलीलामयास्ताभ्यां प्रभूता ग्रथिता: कथा: ।
तल्लीला वक्ति क: कार्त्स्न्याद्यत्र वेदोपि शङ्कित: ॥३८॥
॥ नामधारक उवाच ॥
कौ शिष्यौ सद्गुरोर्जातौ तन्मे कथय सादरं ।
वक्ता हि श्रोतृपृच्छाशी: स्मृतिमेति यत: कथा ॥३९॥
॥ सिद्ध उवाच ॥
नंदिशर्मा द्विज: कश्चित्कुष्ठार्तस्तुलजापुरि ।
त्र्यब्दं तेपे तप: स्वप्ने देव्योक्तं गच्छ चेश्वरीं ॥४०॥
स चंदलेश्वरीं प्राप्य सप्तमासं तपोतपत् ।
तयाप्युक्तं यति गच्छ स्थितं भीमामरायुतौ ॥४१॥
स प्राह तां गच्छ मर्त्यमिति वक्तुं न लज्जसे ।
परीक्षितं त ऐश्वर्यमियत्कष्टं कुतोर्पितं ॥४२॥
इत्युक्त्वा स तपस्तेपे भक्तैर्देव्या स हापित: ।
यद्भव्यं तद्भवत्वेव कष्टमेतावदर्जितं ॥४३॥
देव्याज्ञया तथैवाल्पं सह भोग्यमिति द्विज: ।
मत्वा स्वगतमानम्य देवीं भुक्तो ययौ यतिं ॥४४॥
गंधर्वपुरमासाद्य स यति: क्वेत्यपृच्छत ।
पापं मत्वार्जुनाभं तं कुष्ठिनं नोत्तरं ददु: ॥४५॥
तं कश्चिदाह स्नात्वारं शिवरात्रिव्रतस्य च ।
पारणायै मठे देव आयास्यत्यत्र तिष्ठ भो: ॥४६॥
अत्रांतरे प्रभु: प्रप मठं भक्तास्तमब्रुवन् ।
द्विजोर्जुनश्वेतदेह इदानीं कश्चिदागत: ॥४७॥
विश्वसाक्षी तमाहूय प्राह हित्वामरान्नरं ।
आयातोसि कुतोर्ह: किं दोषोथस्थास्नुरुघृतौ ॥४८॥
तच्छ्रुत्वा मत्क्रुतं ज्ञातमनेनैष न मानुष: ।
प्रत्यक्ष: परमात्मेति मत्वोचे तं क्षमाप्य स: ॥४९॥
मूढोहं कुत्सितमति: पापात्मा पापसंभव: ।
शरण्यं त्वां प्रपन्नोस्मि दयाब्धिं भक्तवत्सलं ॥५०॥
मयि कुष्ठं समुत्पन्नं विवाहोर्ध्वं तदैव तु ।
पितृदारैरपि परित्यक्तं मां कोपि नेक्षते ॥५१॥
नांगीकुर्वंत्यपि सुरा भात्यतोपि मृतिर्वरं ।
परात्मना त्वया नोचेत्स्वीकृतोत्र जहाम्यसून् ॥५२॥
॥ श्रीगुरुरुवाच ॥
मा भी: पापोत्थरोगोयमियत्कालमनेन तु ।
भुक्तं पापमतो भक्तिर्मयि जाताचलामला ॥५३॥
अत्रास्ते संगमे तीर्थराजोघौघविनाशन: ॥
तत्र स्नाहीति संभाष्य सोमनाथमथाब्रवीत् ॥५४॥
विधिवत्कारयित्वा षट्कूलतीर्थे सचैलकं ।
अश्वत्थमर्चयित्वा द्राक्सोमनाथामुमानय ॥५५॥
सोप्युक्तवत्कारयित्वा तमानीय गुरो: पदे ।
उपानयत्तमाहेश: पश्योत्तिष्ठाखिलं वपु: ॥५६॥
स्वर्णीभूतं स तु स्वांगमुत्थायोद्वीक्ष्य विस्मित: ।
किंचित्कुष्ठांकिताष्ठीवद्गुरुं प्रांजलिरब्रवीत् ॥५७॥
भगवन् किं कृतं त्वेतत्कुष्ठं शिष्टं कुतोल्पकं ।
तच्छ्रुत्वा सस्मितं प्राह त्वत्संशयफलं त्विदं ॥५८॥
इत्याश्राव्य गुरोर्वाक्यं प्रणिपत्याब्रवीद्वच: ।
सुधाप्यंबुधिया पीता मृतिं नयति किं दव: ॥५९॥
स्प्रष्टाsवित्वाद्दहत्यल्पं स्वभावं परिहृत्य किं ।
हरे स्वभाव: पूर्णत्वं तवानेनैति किं वद ॥६०॥
॥ श्रीगुरुरुवाच ॥
यद्भावो यादृश: क्कापि नान्यथा स्यात्स्वदोषत: ।
ग्रहीतुर्भात्यन्यथार्के जन्मांधस्येव शून्यता ॥६१॥
मर्त्येन मम किं भूयादिति शंकोदित त्वयि ।
तत्फलं त्विदमस्त्येक: प्रतीकारोत्र तं कुरु ॥६२॥
श्रुतिबृंहितया सिद्धयेत्पुरुष्टुत्या त्वमर्त्यता ।
भविष्यत्यनया सिद्धयेत्पुरुष्टुत्या त्वमर्त्यता ।
भविष्यत्यनया शुद्धिस्त्वं कृतार्थो भविष्यसि ॥६३॥
तच्छ्रुत्वा दीनवाग्लोलत्सर्वापघन आह तं ।
स्वामिन्सर्वांतरस्थस्त्वं किं वाच्यं तेग्रत: प्रभो ॥६४॥
लिपिमप्यक्षमो ज्ञातुं कथं स्तौमि पुरुष्टुत ।
अन्यत्किमपि कर्तुं मां यथास्वं विनियोजय ॥६५॥
प्रभु: प्राह सकृद्वक्त्रान्निर्गतं न पुनर्वच: ।
ममांत: प्रविशत्येव दंतावलरदोपमं ॥६६॥
उक्तमेव त्वया कार्यमित्युक्त्वा भस्म मंत्रितं ।
प्रक्षिप्य तन्मुखे प्राह स्तुहि नानाविधोक्तिभि: ॥६७॥
सोपि गीष्पतिवद्भूत्वा तं स्तोतुमुपचक्रमे ।
प्रेमगौरवनम्रांगो हर्षगद्गदया गिरा ॥६८॥
साक्षात्तत्वमसीश त्वं कर्ता भर्ताव्ययो ध्रुव: ।
त्वं सर्वं खल्विदं ब्रह्मास्यात्मा साक्षी जगन्मय: ॥६९॥
धिया गुणैस्त्रिधाभूतात्स्वभेदात्सत्वलक्षणात् ।
भूतान्युद्भाव्य सर्वात्मन्विश्वं सृष्टं चराचरं ॥७०॥
मायामयं ह्यस्वतंत्रं वित्पात्रं कल्पितोत्र ना ।
सोपि त्वन्मायया भ्रांतो भूत्वा संकल्पवान् सदा ॥७१॥
यात्यधो विस्म्रुतात्मा सत्कर्मायत्तो वियोनिषु ।
भ्रमते भुक्तनिरय: कल्पेपि वासनाहृदा ॥७२॥
स्थित्वोद्भवति कल्पादौ प्राग्वत्सत्कर्मवानपि ।
गत्वोर्ध्वं पतति क्षीणपुण्योधश्चंद्रमंडले ॥७३॥
ततोप्योषधिगो भूत्वा पुंसि रेतस्ततोप्यसौ ।
स्त्रीपुंयोगाच्छुक्ररक्तमयो गर्भत्वमेत्यहो ॥७४॥
कललं प्राक्पंचरात्राद्बुद्बुद: सप्तरात्रत: ।
पेशी पक्षादर्बुदोथ भवति स्वस्थितो घन: ॥७५॥
मासा क्रूर: शिरो द्वाभ्यां ग्रीवाद्यंगानि च त्रिभि: ।
चतुर्भिस्त्वग्रोमनखा: पंचभि: षड्भिरप्यथ ॥७६॥
नासास्याक्ष्यादिरंध्राणि सप्तभिश्चलनं च धी: ।
अष्टभिर्नवभि: पूर्णो देही भूत्वेश्वरं जगौ ॥७७॥
जातो मृत: शश्वदहं वियोनीर्मयोषिता भक्तिपराड्मुखेन ।
अवाड्मुखं देव जरायुवीतं मामुद्धर त्रस्तमितो भजे त्वां ॥७८॥
एवं स्तुत्वा सूतिवायुत्यक्तो विस्म्रुतलब्धधी: ।
रोरूपति जनुर्लब्ध्वा मोहितो माययेश ते ॥७९॥
अनभिप्रेतमापन्न आसनोत्थानचेष्टने ।
पराधीनतया भुंक्ते स व्यथां वक्तुमक्षम: ॥८०॥
ततोपि क्रीडनासक्तो वयस्यैरज्ञभावग: ।
तारुण्ये विषयासक्तो मत्तो दुर्जनसंगत: ॥८१॥
देवमायां स्त्रियं प्रेक्ष्य तद्भावैरजितेंद्रिय: ।
भोगोत्सुक: खलोज्ञातकार्याकार्यो दुरध्वग: ॥८२॥
वार्धक्ये स्वजनत्रस्तो रुग्णोस्वस्थो जराकृश: ।
श्वासकासकफाविष्ट: संभवत्यजितेंद्रिय: ॥८३॥
शतायुरपि रात्र्यार्धं हृतं शिष्टमपीदृशं ।
कथकारं नृजन्मापि श्रेष्ठं भक्त्या विना त्वयि ॥८४॥
तत्साफल्यं नवविधत्वद्भक्त्यासक्तसंगति: ।
त्वयि भक्ति: साधने द्वे त्वां याचे भक्तवत्सल ॥८५॥
भो जनात्रावतीर्णोयं सद्धर्मत्राणकारण: ।
परमात्मा परं ब्रह्म लीलाधाम्नैष नो नर: ॥८६॥
सेव्यताममृतत्वाय योगैर्वा श्रवनादिना ।
भजतोनुभजत्येष भगवान्भक्तिभावन: ॥८७॥
यथा तृणौघोग्निस्पर्शाद्भस्मसाज्जायते तथा ।
नि:शेषाघं कृपांशेन निर्दग्धं मेमुना तथा ॥८८॥
भगवन्कति ते वाच्या वाङ्मनोsविषया गुणा: ।
श्रुत्या नेतीति सिद्धेपि श्रद्धावद्योगिगोचर ॥८९॥
इत्यादिना बहु स्तुत्वा पदो: प्रणिपपात स: ।
शिष्टं कुष्ठं तदा नष्टं विशिष्टेष्टसुतुष्टित: ॥९०॥
तत्रैव स्थापन्यामास तं दत्वेष्टं वरं प्रभु: ।
सोप्यानीय वधूं स्थित्वा व्यरचद्विविधा: कथा: ॥९१॥
कवितां प्रसृतां लोके तस्य ज्ञात्वा नृकेसरी ।
कश्चित्कविरमंस्तेयं गर्होदारापि नृस्तुति: ॥९२॥
तद्ग्रामे केनचिन्नीतो गुरुस्तस्मै व्यदर्शयत् ।
उपास्यकल्लेशलिंगस्थं स्वं रूपिं हृदर्चने ॥९३॥
पंचभिस्तं नवै: श्लोकैर्नित्यवन्मानसार्चने ।
स्तुवंतं श्रीगुरु: प्राह क्कास्ते कल्लेश्वरो वद ॥९४॥
तच्छ्रुत्वा स तदा ध्यानं विसृज्य भगवान्स्वयं ।
नृरूपेणावतीर्णोयमिति मत्वान्वगाद्गुरुं ॥९५॥
नृकेसरिर्गुरुं प्राप्य रचितै: पंचभि: शुभै: ।
श्लोकैस्तुष्टाव तं प्रह हित्वेशं स्तौषि किंनरं ॥९६॥
॥ नरकेसर्युवाच ॥
भवान्मयाज्ञभावेन मानुषो लौकिको मत: ।
कृपयापास्य मेsज्ञानं सत्वं रूपं प्रदर्शितं ॥९७॥
तेन नष्टोद्य मे मोहस्त्वत्प्रसादाज्जनार्दन ।
प्राक्पुण्यं फलितं मेद: शिष्यालौ मां नियोजय ॥९८॥
भगवानपि सुप्रीतस्तस्मै दत्वांशुकं वरं ।
प्राह कल्लेश्वरं विप्र भज तत्रापि मत्स्थिति: ॥९९॥
स प्राह भगवन्तेद: प्रत्यक्षं रूपमुत्तमं ।
हित्वोत्सहे न गंतुं मां स्वपादाब्जे स्थितीकुरु ॥१००॥
मद्धाम्न्याप्तोस्यनायासाद्भगवन्भक्तकामधुक् ।
दयाब्धे मा क्रुरूपेक्षां दयनीयतमस्य मे ॥१०१॥
इत्युक्त्वा स पपाताग्रे तमाश्वास्य दयानिधि: ।
शिष्यत्वेनोररीकृत्य स्वात्मसौख्यमुपादिशत् ॥१०२॥
एवं भूत्वा कवी द्वौ तौ संग्रथ्य हरिसत्कथा: ।
तत्कीर्तनाच्छ्रद्धयात्र कृतकृत्यौ बभूवतु: ॥१०३॥
इति श्रीगुरुचरिते भक्तियोगे भक्तिवर्णनं नाम तृतीयोsध्याय: ॥
आदित: एकविंशोsध्याय ॥२१॥

Translation - भाषांतर

Last Updated : 2016-12-16T21:09:34.5130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

clay soil

  • चिकण मृदा 
RANDOM WORD

Did you know?

तेल आणि तूप दिवा एकत्र का लावूं नये?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.