अथैकोनविंशोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


॥ नामधारक उवाच ॥
कर्मयोगं ज्ञानयोगसहायं चित्तशोधनं ।
उक्त्वापि भगवान्कस्मात् भक्तियोगं जगौ वद ॥१॥
॥ सिद्ध उवाच ॥
भक्तिरेवानुत्तमात्र सर्वसाधनकारिणी ।
कर्मज्ञस्याप्यभक्तस्य मोघं कर्मेत्यथाब्रवीत् ॥२॥
त्रिभिर्योगपथैरेव परस्परसहायकै: ।
ब्रह्माद्वंद्वं समं शान्तं गम्यते नैकयोगत: ॥३॥
श्रद्धालु: सात्विको भक्तो नितरां भगवत्प्रिय: ।
सकार्ममपि तद्भिन्नं शश्वत्क्षिपति दुर्भवे ॥४॥
कर्मण्यकर्म य: पश्येदकर्मण्यपि कर्म य: ।
स लोके भक्तिमान्धीमान्मुच्यते कर्मबन्धनात् ॥५॥
भक्तियोगमयं तस्य भक्तिगम्यस्य चेष्टितं ।
श्रृणु तस्मिन्दृढा भक्ति: पूता यच्छ्रवणाद्भवेत् ॥६॥
भिक्षां सशिष्यगुरव एकैक: प्रत्यहं ददौ ॥
भास्कराख्यो द्विजो दीन आययौ तत्र भक्तिमान् ॥७॥
आदाय गुरवे भिक्षां दातुकामो गुरुप्रिय: ।
स त्रिपुंभुक्तिपर्याप्तं तण्डुलादिकमाप तं ॥८॥
तद्दिने केनचिद्दत्ता भिक्षा श्रीगुरवे वरा ।
शिष्यभक्तयुजे तत्र सोपि भोक्तुं ययौ द्विज: ॥९॥
सायमेत्य मठे भिक्षाद्रव्यमादाय स द्विज: ।
सुष्वापैवं त्रिमांसं स तत्र तस्थौ सुभाविक: ॥१०॥
तं तत्रोपहसन्ति स्म प्राप्य स्वल्पान्नतो गुरुं ।
भिक्षां दातुं प्राज्यशिष्यं पुष्णाति स्वमितीतरे ॥११॥
तज्ज्ञात्वा तं प्रभु: प्राह भक्तियोगविधित्सया ।
द्राङ्मे सशिष्यभक्ताय भिक्षां देह्यद्य भाविक ॥१२॥
तच्छ्रुत्वा हृषित: शाकसितादुग्धघृतादिकं ।
स आनीय स्वयं पाकं कर्तुमारेभ उत्तमं ॥१३॥
दातुं तदान्यमप्युवतं भिक्षां देहि श्व इत्यज: ।
त निवार्याह्वयाशेषान्भोक्तुमित्याह भास्करं ॥१४॥
तच्छ्रुत्वाप्याव्हयत्तान्स त ऊचुर्लज्जसे न किं ।
पक्तान्नकणतुल्यान्न: किमाहूय करिष्यसि ॥१५॥
तच्छ्रित्वैत्य गुरुं तत्स शशंस भगवांस्तदा ।
आनयित्वात्र भोक्तव्यं सर्वैरित्याह तान्गुरु: ॥१६॥
शङ्किता अपि तद्वाक्यात्तूष्णीं स्थित्वा बहूनि ते ।
निर्माय भुक्तिपात्राणि सर्वे स्नात्वाययु: पुन: ॥१७॥
शाट्येशस्याज्ञयाच्छाद्य सिद्धान्नं तीर्थमन्त्रितं ।
सहान्यै: षड्विधं सोदाद्गरवे ब्राह्मणै: सह ॥१८॥
भक्तान्छिष्यान्स तत्रत्यांस्त्र्यपत्येष्टयुजो द्विजान् ।
गुरुं चेष्टं सुखं भोक्तुं प्रार्थयामास सादरं ॥१९॥
परमान्नान्नपौल्याज्यसूपशाकादिषड्रसै: ।
षोढान्नममितं नीत त्रिपुंपर्याप्तपाकत: ॥२०॥
नीत्वा नीत्वापि भोक्तृभ्यो दत्तं तत्र तु पूर्ववत् ।
नाप्यल्पं दातृभिस्तष्टं चेष्टा भगवतस्त्वियं ॥२१॥
भुक्तं सशेषमाकण्ठं तृप्ता: स्मोलमिति द्विजा: ।
उक्त्वोत्तस्थौ ( ? ) सहाजेन ततो गुर्वाज्ञयांघ्रिजान् ॥२२॥
हीनांश्चाहूय तेभ्योदात्कामं नान्नं व्यहीयत् ।
पशुपक्षिमृगादिभ्य: प्रकामं स उपानयत् ॥२३॥
न शिष्टास्तत्र केपीति श्रुत्वा भुक्त्वा तदाज्ञया ।
यादोभ्योदात्स शेषान्नं तदा नि:शेषतां ययौ ॥२४॥
माधुर्यं सुरसान्नस्य दुर्लभं ह्यमृतांधसां ।
स्वप्नेपि न श्रुतं रुच्यं तृप्तिरेषाप्यलौकिकी ॥२५॥
प्राक्पार्थसंकटेरण्ये निशीथेदात्स्वमायया ।
ऋषिभ्योन्नं हरिरिति श्रुतं दृष्टं त्वदोत्र तु ॥२६॥
नृणां चतु:सहस्राणि भुक्तानि स्वल्पपाकत: ।
जीवा अगणिता भुक्ता मायातर्क्येयमीशितु: ॥२७॥
भास्करोयं प्रियो भक्तो यत्प्रसादोस्य नान्यके ।
त्रिमासं सर्वदा तेन पादसंवाहनादिभि: ॥२८॥
श्रद्धाभक्त्यैव भगवान्सेवितस्तत्फलं त्विदं ।
इत्युक्त्वान्ये नरा: प्रेम्णा तुष्टुव: श्रीगुरुं परं ॥२९॥
दत्वा प्रभुर्भास्करमीप्सितं वरं प्रस्थापयामास गृहाय स द्विज: ।
ईशप्रसादात्सकलार्थयुग्ययौ सायुज्यमंते दृढभक्तियोगत: ॥३०॥
शृण्वन्यदप्यद्भुतमीशचेष्टितं गंगाव्हया तत्र तु षष्टिवत्सरा ।
साध्वी वशानर्च परेशमन्वहं भक्त्यैकदोचे स तु तां किमिच्छसि ॥३१॥
॥ गंगोवाच ॥
लोकोsपुत्रस्य न स्व:स्था लुप्तपिण्डोदकक्रिया: ।
पितरोध: पतंतीति श्रुत्वा स्वामिन्बिभेम्यहं ॥३२॥
भवेग्रे मे सुपुत्राप्त्या गतिर्भूयादितीच्छया ।
सर्वेश तेर्चनं कुर्वे पाहि मां करुणानिधे ॥३३॥
॥ श्रीगुरुरुवाच ॥
कमावर्तेन मायाब्धौ क्क भ्रमिष्यसि वेत्सि किं ।
क्केयं तत्र स्मृतिस्तेत्र पुत्रौ गंगे भविष्यत: ॥३४॥
तच्छ्रुत्वा पल्लवे ग्रंथिं बध्वोचे पुत्रवत्यहो ।
निष्कला जातिवन्ध्यापि भवेयं त्वत्प्रसादत: ॥३५॥
व्रततीर्थार्चने यातं वयो मे पुत्रकामया ।
विशेषात्सेवितोश्वत्थो मौर्ख्याद्दास्यति किं स मे ॥३६॥
॥ श्रीगुरुरुवाच ॥
ब्रह्मनारदसंवादं शृण्वात्थ यदसत्तु तत् ।
नारदाश्वत्थमूलेहं मध्येजोग्रे शिव: पुन: ॥३७॥
अवाक्प्रत्यगुदक्शाखास्त्रयाणां प्राक्समा: सुरा: ।
तीर्थाब्धयश्चांकुरेषु गोयज्ञर्षिश्रुतिद्विजा: ॥३८॥
ओंकारोंध्र्यंतशीर्षस्थ्ग इत्यश्वत्थोस्त्यसंस्कृत: ।
नार्च्य: संस्कृत्य मौंज्युक्तकालेस्मिन्सत्क्षणेर्चयेत् ॥३९॥
नार्कारशुक्रनिट्सन्ध्याकुयुक्पर्वादिषु स्पृशेत् ।
वर्णित्वमौनसत्त्वाढ्यो भजेन्नामुं वधूरपि ॥४०॥
तत्तले गोविशा लिप्ते रंजिते स्वस्ति वाचयेत् ।
संस्नाप्य सप्तकलशै: पूजयेत्स्वाधिकारत: ॥४१॥
ध्यात्वाष्टबाहुं श्रीविष्णुरूपमावेष्ट्य वाससा ।
नाममन्त्रैर्मंदगत्या शक्त्या कार्या: प्रदक्षिणा: ॥४२॥
नमेत्प्रदक्षिणायास्तु भक्त्याद्यंतसमाप्तिषु ।
पदे पदे मेधफलं दैन्यर्णार्त्यघतापहृत् ॥४३॥
ग्रहार्तिघ्नं सौरिवारे तन्नामोच्चारणं तरो ।
सदेशेपैति नु: कालमृत्यू रौद्रमनोर्जपात् ॥४४॥
तत्रातिफलदा ब्रह्मभुज्याप्लुतिजपाध्वरा: ।
पुत्रादिकामसिध्द्यै नो विलंबोक्षय्यपुण्यदात् ॥४५॥
येनेह स्थापितोश्वत्थस्तेन स्व: स्थापितं कुलं ।
येन च्छिन्नोपि वंश: स्वस्तेन च्छिन्नो न संशय: ॥४६॥
प्रदक्षिणादशांशेन हवनं तद्दशांशत: ।
कृत्वा ब्रह्मभुजिं दद्याद्धैमाश्वत्थार्थगोतिलान् ॥४७॥
सद्ब्रह्मभ्यो लभेदिष्टमित्यूचे नारदं विधि: ।
तस्मात्तं विधिना साध्वि भज द्राक्सिद्धिदोस्ति स: ॥४८॥
त्वं भीमामरजायोगे स्नात्वा षट्कूल उत्तमं ।
संगमस्थं भजाश्वत्थं सत्यं पुत्रौ भविष्यत: ॥४९॥
तथा कुर्वेपि षष्टयब्दा मत्वोक्तिं तव वेदवत् ।
इत्युक्त्वा सेश्वराश्वत्थं पत्या भेजे यथाविधि ॥५०॥
चतुर्थेन्ह्याह तत्स्वप्ने कृत्वाश्वत्थप्रदक्षिणा: ।
यद्दास्यति गुरुर्भुंक्ष्व भवेत्पुत्र इति द्विज: ॥५१॥
साप्युत्थाय तत: स्नात्वा सङ्गमं प्राप्य सद्गुरुं ।
भक्त्या प्रदक्षिणीकृत्य साश्वत्थं प्रणनाम ह ॥५२॥
दत्वा फले स तां प्राह दान देहि समाप्य सत् ।
व्रतं प्रदक्षिणारूपं फले भुंक्ष्वेष्टकामदे ॥५३॥
प्राग्युगेनेकपुत्रा: स्युरौरसो दत्तकस्त्विह ।
औरसस्तूत्तमोस्यास्य दर्शनं पितृमुक्तिदं ॥५४॥
तत्साध्वीहौरसौ पुत्रौ तारकु ते भविष्यत: ।
मदर्चनफलं त्वेतन्न संदेहोत्र शोभने ॥५५॥
तथेत्युक्त्वापि सा गेहं गत्वा चक्रे यथोदितं ।
निष्कलाप्यृतुमत्यासीन्नि:सीममहिमा प्रभो: ॥५६॥
शुद्धयूर्ध्वं सह पत्यैत्य सा प्रपूज्य गुरुं मुदा ।
गृहं गत्वा दधौ गर्भं तन्निशीशप्रसादत: ॥५७॥
स्वतंत्रसंविद्भगवान्लीलां को वेत्ति यत्स्तुतौ ।
द्विसहस्ररसज्ञोपि कुण्ठिश्चकिता श्रुति: ॥५८॥
वलीपलितवेपर्यैद्देहो विद्धो जराकृश: ।
साधत्त गर्भमित्यन्ये प्रशशंसु: परस्परं ॥५९॥
तद्भर्ता सोमनाथस्तु प्रीत्या पुंसवनादिका: ।
क्रिया व्यधात्क्रमात्पुत्रीं कालेसौषीत्तत: सती ॥६०॥
तदेयं कन्यका साध्वी सच्छीलगुणशालिनी ।
भविष्यति कुलोद्धर्त्री पुत्राढ्येत्याह दैववित् ॥६१॥
तच्छ्रुत्वा स द्विजेभ्योदादर्थवस्त्रादिकं द्विज: ।
प्रापतुर्द्वादशेह्नीशं कन्यां संस्थाप्योचे प्रणम्य सा ।
संसृतिस्थजरद्वंध्यद्रुमस्ते फलितो दृशा ॥६३॥
सेव्यते फलितोपि द्रु: पांथैश्चेत्सफलो वरं ।
वन्ध्योपि मोघफलत इति भातीश वेत्सि तत् ॥६४॥
तच्छ्रुत्वा सस्मितं कन्यामादायेशो जगाद तौ ।
शीलधीगुणपुत्राढ्या भवेत्साध्व्यखिलार्चिता ॥६५॥
कन्या लब्धोत्तमेयं वां पुत्रेच्छा चेद्भवेत्सुत: ।
मूर्ख: शतायुर्वाल्पायुर्विद्वान्वां कतर: प्रिय: ॥६६॥
सार्भो विद्वान् प्रियोल्पायुरपीत्युचतुरप्युभौ ।
तथेत्युक्त्वा स सापत्यौ गमयामास तौ प्रभु: ॥६७॥
गर्भं साप्यल्पकालेन धृत्वासूत सुतं शुभं ।
श्रद्धया निष्कलाप्येवं पुत्रौ लेभेथ किं वद ॥६८॥
विद्याविनयवान् भृत्वा पितृशुश्रूषणोद्यत: ।
धार्मिक: पंच पुत्रांस्तत्पुत्रो लब्ध्वाम्रुतं ययौ ॥६९॥
कन्यापीशप्रसादात्सा दीक्षितस्य सती शुभा ।
भूत्वा गुरूक्तवद्ब्रह्मवादिनी प्राप सद्गतिं ॥७०॥
एवं गुरुप्रभावोयं श्रद्धादृष्टयैव दृश्यते ।
सद्भक्तैर्न त्वभक्तै: स जन्मांधैरिव भास्कर: ॥७१॥
दण्डकुण्डीकरं शान्तं काषायाच्छादनं सदा ।
ध्यायंतौ यतिरूपं तं दम्पती मुक्तिमापतु: ॥७२॥
श्रद्धाभक्त्यैव सुलभा गुरुवाक्यानुवर्तिनां ।
उभयी सिद्धिरप्यन्यच्चित्रं तच्चेष्टितं श्रृणु ॥७३॥
तत्रैत्य नरहर्याख्यो विप्र: कुष्ठी जगद्गुरुं ।
प्रणत: शरणं प्राप्य प्रावोचद्गद्गदाक्षर: ॥७४॥
हरे शम्भो परानंदमूर्ते जय जयाच्युत ।
भक्तवत्सल ते कीर्ति श्रुत्वात्राप्तोस्मि सद्गुरो ॥७५॥
यजुर्विदोपि मे तुण्डं केपि नेक्षंति कुष्ठिन: ।
तीर्थार्चनजपै: कुष्ठं तन्मे नापैत्यघात्मन: ॥७६॥
कृपया तेपयायात्तदिति मत्वागतोस्म्यहं ।
नास्ति चेत्तत्प्रतीकार: शंसाग्रेसूंस्त्यजामि ते ॥७७॥
तच्छ्रुत्वा प्राक्तनाघोत्थ कुष्ठं नश्येदिति प्रभु: ।
प्रोक्त्वा शुष्कौदुम्बरैधो दृष्ट्वावोचत्स कुष्ठिनं ॥७८॥
मद्वाक्ये भक्तिमांश्चेत्तत्काष्ठमारोप्य संगमे ।
भज पल्लविते तस्मिन्छुद्धोकुष्ठो भविष्यसि ॥७९॥
ॐमित्युक्त्वा तदारोप्य श्रद्धाभक्त्या स संगमे ।
भेजे दत्वाधारबन्धं परितोंबुनिषेचनै: ॥८०॥
कृपास्य सद्यस्तव शुध्द्यभावादुक्तं फलं कष्टमिदं कुतोस्मिन्
शङ्कांकुरस्यात इदं त्यजेति जनैर्निषिद्धोप्यभजत्सदेध्मं ॥८१॥
तदैत्य ते गुरुं प्राहर्भवद्वाक्याद्द्विजो जरत् ।
भजतीध्मं बोधय तं मरिष्यत्युपवासत: ॥८२॥
॥ श्रीगुरुरुवाच ॥
करोति साधु तद्विप्रो दृढभक्त्या तरिष्यति ।
भक्तिर्हि तारकात्रैव भवसिन्धुनिमज्जत: ॥८३॥
मंत्रे तीर्थे द्विजे देवे दैवज्ञे भि ( भे ) षजे गुरौ ।
यादृशी भावना यस्य तस्य सिद्धिस्तु तादृशी ॥८४॥
वच्मि सूतर्षिसंवादं प्राग्वृत्तं दृढभक्तिदं ।
ऋषीन्सूतो जगादेदं सिंहकेतुनृपात्मज: ॥८५॥
धनंजयाख्य: पांचाल एकदा वनमभ्यगात् ।
दृष्ट्वा स मृगयाश्रांतस्तत्र जीर्णं शिवालयं ॥८६॥
तस्थौ तत्र क्षणं साकं शबरेणानुयायिना ।
दृष्ट्वा लिंगानि रम्याणि दूत: प्राह नृपं गृहे ॥८७॥
लिङ्गं नीत्वा पूजयितुं कांक्षेज्ञोस्म्यनुशाधि मां ।
यदाज्ञापयसे देव दृढभक्त्या करोमि तत् ॥८८॥
॥ राजपुत्र उवाच ॥
संस्थाप्य सत्स्थले लिङ्गं शुचिर्भूत्वा स्त्रियान्वित: ।
भक्त्या पूजय मत्वेशमुपचारैर्यथाविधि ॥८९॥
चिताभस्मान्वहं देयं दत्तान्नं भुंक्ष्व भार्यया ।
प्रसादबुध्द्येत्युक्त्वा स पूजाविधिमुपादिशत् ॥९०॥
सोपि तुष्टो गृहीत्वैकं लिङ्गं गत्वा गृहं स्त्रिया ।
भेजे यथोपदेशं तद्भस्मादात्प्रत्यहं मुदा ॥९१॥
भस्मैकस्मिन्दिने क्कापि न लेभेभूत्स दुर्मना: ।
तद्भार्या प्राह मां दग्ध्वा शम्भवेsर्पय भस्म तत् ॥९२॥
शरीरं कृमिविड्भस्मरूपांतं क्षणभंगुरं ।
तत्साफल्यं कुरु हरे भस्मार्पणनिमित्तत: ॥९३॥
॥ शबर उवाच ॥
तिष्ठत्स्विनक्ष्माग्निषु साक्षिषु प्रिये भर्तृत्वमाश्रुत्य वृतास्यदोन्यथा ।
कुर्यां कथं तन्वि किशोरि बालिके भो साध्व्यलब्धैहिकसौख्य उत्तमे ॥९४॥
सा प्राह मोहे वितथोयमध्रुवे येन ध्रुवं साहजिकं प्रसाध्यते ।
तत्साधयास्मिन्परकीयकल्पना नास्त्येव तेर्धांगविभाग्यदो वपु: ॥९५॥
प्रोक्ते सुयुक्ते प्रियया तथेत्यसौ प्रोक्त्वा गृहे तामवरुध्द्य सालयां । दग्ध्वार्पयद्भस्म शिवाय नित्यवभ्द्रांत्या प्रसादक्षण आह्वयत्प्रियां ॥९६॥
दग्धापि साह्वानत आप पूर्ववत्तां सद्म चालोक्य स शंकितोब्रवीत् । दग्धापि गेहेन सहागता कथं सुप्तोत्थितास्मीति शबरुवाच तम् ॥९७॥
शम्भुप्रभावोस्त्विति तेन भाषिते द्राक्प्रादुरासीन्निजरूपधृक् शिव: । दौष्कुल्यदोषं परिहृत्य दर्शनात्ताभ्यां शिवोदादुभयत्र कांक्षितं ॥९८॥
भक्ते: प्रभावोयमियान्न किंचित्फलत्यृते भक्तिमतोस्य सिध्द्येत् । भक्त्येष्टमित्याह स तान्कदाचिद्गच्छन्प्रभु: स्नातुममुं ददर्श ॥९९॥
तं तादृशं प्रेक्ष्य कमण्डलुस्थक्षीरेण तत्प्रोक्ष्य स शुष्ककाष्ठं ।
ददर्श सद्दिव्यदृशा तदेध्मे सद्योंकुरा भूरिश आविरासन् ॥१००॥
दिव्यं स्वधामांकुरितं च काष्ठमदृष्टकुष्ठोग्रत आस्थितं तम् ।
दृष्ट्वा स काष्ठार्पितदृष्टिमीशं तुष्टाव सत्प्रेमभरानतांग: ॥१०१॥
कोट्यर्कभं कोटिसुचंद्रशांतं विश्वाश्रय्म देवगणार्चितांघ्रिं ।
भक्तप्रियं त्वात्रिसुतं वरेण्यं वंदे नृसिंहेश्वर पाहि मां त्वम् ॥१०२॥
मायातमोर्कं विगुणं गुणाढ्यं श्रीवल्लभं स्वीकृतभिक्षुवेषम् ।
सद्भक्तसेव्यं वरदं वरिष्ठं वंदे नृसिंहेश्वर पाहि मां त्वम् ॥१०३॥
कामादिषण्मत्तगजांकुशं त्वामानंदकंदं परतत्त्वरूपम् ।
सद्धर्मगुप्त्यै विधृतावतारं वंदे नृसिंहेश्वर पाहि मां त्वम् ॥१०४॥
सूर्येंदुगुं सज्जनकामधेनुं मृषोद्यपंचात्मकविश्वमस्मात् ।
उदेति यस्मिन्रमतेस्तमेति वंदे नृसिंहेश्वर पाहि मां त्वम् ॥१०५॥
रक्ताब्जपत्रायतकांतनेत्रं सद्दंडकुंडीपरिहापिताघम् ।
श्रितस्मितज्योत्स्नमुखेंदुशोभं वंदे नृसिंहेश्वर पाहि माम त्वम् ॥१०६॥
नित्यं त्रयीम्रुग्यपदाब्जधूलिं निनादसद्बिंदुकलास्वरूपम् ।
त्रितापतप्ताश्रितकल्पवृक्षं वंदे नृसिंहेश्वर पाहि मां त्वम् ॥१०७॥
दैन्याधिभीकष्टदवाग्निमीड्यं योगाष्टकज्ञानसमर्पणोत्कम् ।
कृष्णानदीपंचसरिद्युतिस्थं वंदे नृसिंहेश्वर पाहि मां त्वम् ॥१०८॥
अनादिमध्यांतमनंतशक्तिमतर्क्यभावं परमात्मसंज्ञम् ।
व्यतीतवाघृत्पथमद्वितीयं वंदे नृसिंहेश्वर पाहि मां त्वम् ॥१०९॥
स्तोत्रे क्क ते मेस्त्युरुगाय शक्तिश्चतुर्मुखो वै विमुखोत्र जात: ।
स्तुवन्द्विजिव्होभवदीश्वर त्वां सहस्रवक्रश्चकितोपि वेद: ॥११०॥
स्तुत्वैवं प्रणतीश्वक्रे तमाश्वास्याब्रवीद्विभु: ।
मत्परसादान्महत्वश्रीकीर्तिसत्पुत्रवान् भव ॥१११॥
शिष्योत्तम त्वं योगज्ञो भविष्यसि कुलं च ते ।
त्वद्वद्भविष्यत्यानीय वधूं तिष्ठ ध्रुवं त्विह ॥११२॥
तथेत्युक्त्वा द्विजो भार्यामानीय स तया सह ।
तत्र तस्थौ ततो लेभे पुत्रान्पुत्रीं स सत्तमान् ॥११३॥
विद्यासरस्वतीमंत्रं गुरुदत्तं जपन्वरम् ।
भेजे गुरुं भवासक्तो जीवन्मुक्तोभवद्द्विज: ॥११४॥
तत्कुलं चापि तत्तुल्यं तद्भक्तिमहिमा त्वियान् ।
त्वत्पूर्वजोपि तत्तुल्यस्तस्मात्ते मतिरीदृशी ॥११५॥
सद्गुरोस्तु प्रसादोयं भविष्यत्यपि ते कुले ।
वर्धमान: सदैवेति संविन्मे ब्राह्मण ध्रुवा ॥११६॥
इति श्रीगुरुचरिते भक्तियोगे भक्तिमहिमवर्णनं नाम प्रथमोध्याय: आदित एकोनविंशोsध्याय: ॥१९॥

N/A

References : N/A
Last Updated : December 16, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP