TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथ नवमोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


अथ नवमोsध्याय:
॥ नामधारक उवच ॥
भगवानपि संन्यासं प्रगृह्य स्वजनु:स्थलम् ।
कुतो यातोस्य शिष्या: स्यु: के के किमकरोत्तत: ॥१॥
॥ सिद्ध उवाच ॥
महीं प्रदक्षिणीकृत्य प्रतिज्ञातानुसार्यज: ।
मातरं द्रष्टुमाप्तो हि माता वंद्या यतेरपि ॥२॥
शिष्या हि बहवो जाता बाल: कृष्ण उपेंद्रक: ।
ज्ञानज्योति: सदानन्दो माधवोहं च सप्तम: ॥३॥
सरस्वत्यंतसंज्ञा: स्युरेते मुख्यास्तु भूरिश: ।
आसन्नन्ये स तै: साकमाययौ स्वजनु:स्थलम् ॥४॥
पितरौ प्रेक्ष्य बंधूंश्च भगिनीमितरानपि ।
तत्राददे विश्वरूप: पूजां प्रत्यालयं क्षणात् ॥५॥
पित्रार्चितममुं दृष्ट्वा प्राक्स्मृत्यांबाब्रवीत्प्रिय ।
मृत्यून्मुखीं कुपुत्रां मां योरक्षछ्रीपदस्त्वयं ॥६॥
मादृग्भवेत्सुत इति प्रतिज्ञातसुसिद्धये ।
स्वदृगन्यसुताभावात्स्वयमेवाभवत्सुत: ॥७॥
श्रीपाद मे त्वं न सुतोसि देव भवार्णवादुत्धर मा हरेज ।
लोकानुसारी खलु वर्तसे चेत्संबंधमेनं स्मर पुत्र मातु: ॥८॥
कालदैवक्रियेशात्मरव्यांगास्वात्मवैकृता: ।
तत्संघात: प्रवाहोसौ त्वन्मायैतां निवारय ॥९॥
॥ श्रीगुरुरुवाच ॥
संन्यासी यत्कुले जातस्तरत्यपि तरिष्यति ।
कुलैकविंशति: पित्रोर्दुर्गताप्यमृतं लभेत् ॥१०॥
जातोत्रायं हि संन्यासी भो मातस्तेथ किं वद ।
संपत्प्रजान्वितानां व: काश्यां मुक्तिर्भविष्यति ॥११॥
॥ भगिन्युवाच ॥
गतिर्मे काग्रत: स्वामिन्भवसिंधोर्बिभेम्यहं ।
पापिष्ठां मोद्धर हरे सद्गुरुस्त्वं हि मे प्रभो ॥१२॥
॥ श्रीगुरुरुवाच ॥
पतिसेवनमेवैकं तारकं नापरं स्त्रिया: ।
पातिव्रत्यं भज ततो भवाब्धे: पारमेष्यसि ॥१३॥
दंपत्यो: प्राक्कृतं वैरं त्वया गौर्लत्तया हता ।
अत: पत्युर्यतित्वं ते कुष्ठं चांगे भविष्यत: ॥१४॥
इति श्रुत्वातिखिन्नाभूत्तामाश्वास्याह सद्गुरु: ।
वार्धक्ये तृभयं तेस्तु नश्येन्मे दर्शनात्कुरुक् ॥१५॥
इत्युक्त्वा तदनुज्ञात: सशिष्यो गौतमीं ययौ ।
याssनीता गौतमेनेशाद्गोहत्याव्यपनुत्तये ॥१६॥
तामेत्याप्लुत्य भगवान्मुनिं माधवसंज्ञकम् ।
भक्तं गतागतान्मुक्त्वा स्तुतस्तेनाग्रतोगमत् ॥१७॥
सशिष्योग्रे व्रजन्दृष्ट्वा गंगायां मर्तुमुत्सुकं ।
विप्रं गलशिलं कंचिदादिष्टैस्तं कृपानिधि: ॥१८॥
छात्रैरुद्धारितं दीनं शूलरोगाकुलं प्रभु: ।
दयनीयतमं प्राह विधत्से साहसं कुत: ॥१९॥
॥ विप्र उवाच ॥
किं करिष्यसि मां पृष्ट्वा मरिष्ये शूलकातर: ।
कथं जीवामि रोगोन्नवैर्ययं दु:सह: सदा ॥२०॥
प्राणोन्नं जीवनं चान्नं लयोन्नं जीवमन्नमुत् ।
उद्भवोन्नं कथं स्थेयमृतेन्नात्तन्मृतिर्वरम् ॥२१॥
भवांतरेत्र वा नान्नं दत्तं पुण्यं न वा कृतं ।
गोविप्रग्रासोपहृतो निंदिता: पितरौ गुरु: ॥२२॥
नेशोर्चितो वातिथयो हापिता धिक्कृता द्विजा: ।
मिष्टान्नं पितरौ त्यक्त्वा साकं भुक्तं स्त्रिया मया ॥२३॥
इति भात्यन्यथा नेदृक्कष्टं भो मय्युपस्थितं ।
कृतो नान्योपकारो भूभारो मोघभवोsभवं ॥२४॥
॥ श्रीगुरुरुवाच ॥
मा भीर्दास्येन्नपथ्यं ते दिव्योषधमहं भिषक् ।
इत्युक्त्वा विरते तस्मिन्द्विज एक: समाययौ ॥२५॥
सायंदेवाभिध: कांचीवासी कौंडिण्यगोत्रज: ।
सुदीनो यवनाधीनस्तमाह प्रणतं गुरु: ॥२६॥
मर्तुमिच्छति रुग्णोयं व्यथितो दिव्यमौषधं ।
दद्म्यस्मै त्वमपि ब्रह्मन्पथ्यं स्वाद्वन्नमर्पय ॥२७॥
॥ सायंदेव उवाच ॥
मासा पक्षेण वाल्पान्नं भुंक्त आत्यंतिकीं व्यथाम् ।
स तदामोत्यन्नदान्नाद्भवेद्धत्येति भाति मे ॥२८॥
॥ श्रीगुरुरुवाच ॥
भिषक्तमोस्मि नाशंक्यं सापूपं देहि माषयुक् ।
परमान्नं च पथ्यं मा भीर्जाने रुवप्रतिक्रियाम् ॥२९॥
॥ सायंदेव उवाच ॥
तथा कुर्यामपि भवान्सशिष्योंगीकरोतु मे ।
भिक्षां गृहेsस्मि ते शिष्य: प्रपन्नं शाधि मां गुरो ॥३०॥
इत्युक्तिं सौष्ठवौदार्यरम्यां श्रुत्वा तथेति तं ।
ऊचे तत: सशिष्यं तं द्विजो निन्ये निजालयं ॥३१॥
चित्रितेलंकृते गेहे रंगवल्यादिरंजिते ।
स्वासनेषूपवेश्यैतानुपतस्थेंगनान्वित: ॥३२॥
सूपचारै: प्रपूज्येशं रौद्रैर्मंत्रैश्च पौरुषै: ।
नीराज्य श्रद्धया गीतस्तोत्रादिभिरतोषयत् ॥३३॥
गुरुपादोदकं तीर्थं भक्त्या संपूज्य मुक्तिदं ।
पीत्वैनोहारि सस्त्रीक: शिष्यान्सर्वानपूजयत् ॥३४॥
भुक्त्वान्नं गुरुपंक्त्यां स भेजे रुग्णोप्यनामयं ।
नेदं चित्रं हि यद्भक्ता घ्नंत्युद्भवमहारुजं ॥३६॥
स ततोसारसंसारनिर्विण्णो गुरुदर्शनात् ।
भूत्वा क्षणादुदासीन: सर्वतोभजदच्युतम् ॥३७॥
द्विजोपि भुक्तानाचांतान्सूपविष्टान्सुगंधिभि: ।
पत्सेवनैश्चास्यवासैस्तोषयित्वाब्रवीद्गुरुं ॥३८॥
अंघ्र्यब्जवंदनात्तेद्य सफलं जन्म कर्म मे ।
पितरोनुग्रहान्मुक्तास्तत्कृतार्थोस्मि निर्मल: ॥३९॥
गंगा पापं विधुस्तापं दैन्यं कल्पतरुर्हरेत् ।
वायुस्तूलमिवैतत्ते दर्शनं हरति त्रयम् ॥४०॥
साक्षी सर्वांतरस्थस्त्वं परात्माsधोक्षजोमल: ।
नृरूपेणावतीर्णोसि साधूंस्त्रातुमजोव्यय: ॥४१॥
देहि मे तेमलं दास्य श्रद्धोपेतं कुलाय च ।
याचेदो भगवन्नेको ममाधिस्तं निशामय ॥४२॥
यन्निघ्नोस्मि स वै हिंस्रो यवनो हन्ति भूसुरम् ।
प्रत्यब्दमाह्वयत्यद्य तदर्थमिति शुश्रुम ॥४३॥
॥ श्रीगुरुरुवाच ॥
मा भी: क्रूरमपीदानीं यवनं याह्यसंशयम् ।
मुदैष्यस्यर्चितस्तेन तावत्तिष्ठामि मा शुच: ॥४४॥
इत्याकर्ण्यापशंकं स ययौ यवनमंजसा ।
शस्त्रैर्विप्रश्छिनत्तीति भ्रांतोsरं यवनस्तदा ॥४५॥
तं तुष्ट्वा वस्त्रभूषार्थै: प्राह गच्छ सुखं द्विज ।
सायंदेवोपि वीताधिर्हृष्ट: श्रीगुरुमाययौ ॥४६॥
सर्पोप्यद्याद्विराजोर्भं हरेर्वेभो गुरुप्रियम् ।
न क्षमोप्यंतको द्रष्टुं यवन: किमुताल्पक: ॥४७॥
दासोसीष्टं लभेत्ते मे द्ब्यष्टाद्वैर्दर्शनं भवेत् ।
द्विजेत्युक्त्वा वैद्यनाथं गत्वांतर्दध ईश्वर: ॥४८॥
ईदृश्यो लौकिका लीला: कृता भक्तिविधित्सया ।
भजेयुर्मां कथमपि लोका इत्याशयोस्य तु ॥४९॥
लोके प्रत्युपकारित्वं समीक्ष्य भगवान्विभु: ।
लौकिकानन्दजनकां चमत्कृतिमिहाकरोत् ॥५०॥
हेतुनानेन तल्लोका भजंति भगवत्पदम् ।
भजनादेव निर्धूतमला यान्ति मुमुक्षुताम् ॥५१॥
ततोभ्यासाच्च वैराग्यात्तं ध्यायन्त उपासते ।
महाप्रसादोनेनैव लभंते सद्गुरोर्नता: ॥५२॥
ऐक्यज्ञानन्तदा लब्ध्वा महावाक्येन चात्मनो: ।
शान्तिं विनिहताविद्यास्तत्संस्थां यांति ते ध्रुवां ॥५३॥
प्रसन्नात्मान: प्रशान्ता निर्बन्धाद्वैतवर्जिता: ।
स्वात्मारामाश्चरंत्यत्र जदोन्मत्तपिशाचवत् ॥५४॥
स्पर्शेक्षाकीर्तनादीनां सद्गुरोर्महिमा त्वियान् ।
स्नेहाद्द्वेषाद्भयाद्वापि धत्ते यत्र मनोचलम् ॥५५॥
तत्सारूप्यं स पेशस्कृद्धयानात्कीट इवैत्यरम् ।
इत्याद्या मार्गणोपाया हरे: स्यु: सुलभा नृणां ॥५६॥
मृग्योसौ पुरुपेणैव बुद्धयादिगुणहेतुभि: ।
नानुमानैरतो युक्त आत्मैवात्मगुरु: किल ॥५७॥
॥ नामधारक उवाच ॥
भूतेशोन्तर्दधे कस्मात्तेजस्वी भक्तवत्सल: ।
शिष्यास्तस्थुस्तदा कुत्र तच्छ्रोतुं सादरोस्म्यहम् ॥५८॥
॥ सिद्ध उवाच ॥
सर्वे शिश्या भविष्याम इति मत्वात्र यान्तत: ।
मत्वा स्थेयं रह इति छात्रान्त्सद्गुरुरब्रवीत् ॥५९॥
लब्ध्वा द्विजत्वं संस्कारैर्ब्रह्मचारी पठन् त्रयीं ।
द्वादशाब्दं कृती सूत्रमेखलाजिनदण्डधृक् ॥६०॥
सायं प्रात: स कर्माग्निकार्यं भिक्षा चरन् गुरुं ।
भजन्भक्त्याsस्वपन्नह्नि याचितां गुरवेsर्पयन् ॥६१॥
तद्दत्तभुग्लब्धविद्य: स्नायाद्दत्वा वरं व्रती ।
अनाश्रमी न तिष्ठेत भवेत्स प्रत्यवाय्यत: ॥६२॥
स्नातकस्तूद्वहेद्भार्यां गृह्यं परिचरेद्गृही ।
पोष्यभृद्यज्ञकृद्वेदशास्त्रधर्मपरो भवेत् ॥६३॥
पुत्रार्पितश्रीर्भार्यायुगग्राम्यविषयो वने ।
यतात्माsकृष्टपच्याशी यावच्छुद्धयंतरं वसेत् ॥६४॥
स्वारोपिताग्नि: स वानप्रस्थो भार्याज्ञयाsमम: ।
प्रव्रजेद्यतिधर्मज्ञो विरक्तस्तु कुतोपि हि ॥६५॥
त्रिकालस्नायी संन्यासी न्यस्तसूत्रशिखैषण: ।
जपभिक्षाटनध्यानशौचार्चनरतो वशी ॥६६॥
स्त्रीकथालौल्ययानाह:स्वापखट्वाsस्पृगात्मदृक् ।
सद्वेणुमृद्दार्वलाबुमयभाजनदण्डधृक् ॥६७॥
सकृदन्ह्याप्तसद्भिक्षाभुक्शान्तस्तत्त्वचिन्तक: ।
तीर्थान्यटन्नृते वर्षास्त्र्यहमेकस्थले वसन् ॥६८॥
स्थिरीकृतमना: क्कापि ततस्तिष्ठन्सुखी भवेत् ॥
अशक्तस्तु महाक्षेत्रे हरिं ध्यायन्वसेत्सदा ॥६९॥
तस्मात्कृध्वं स्वाश्रमार्हं कृत्यं पातोन्यथा भवेत् ॥
इत्युक्त्वान्यान्प्रेयित्वा गृहेभ्योजोब्रवीद्यतीन् ॥७०॥
काशी प्रयागो गया च श्रीरंग: पुरुषोत्तम: ॥
श्रीशैलो नैमिषारण्यं कुरुक्षेत्रं बदर्यपि ॥७१॥
गोकर्ण: शङ्खकर्णश्च कांच्ययोध्या च गोकुलम् ॥
मथुरा द्वार्वती मायावंतिका करवीरपू: ॥७२॥
गन्धर्वपूर्हरिहरक्षेत्रं सद्देवकन्यका ।
गुहाश्रम: सेतुबन्ध इत्यादिक्षेत्रविस्तर: ॥७३॥
गङ्गासरस्वत्यर्कोत्था विपाट्पौष्णीमरुद्वृधा ।
वितस्तासिक्न्यनेकास्या चन्द्रभागा पयस्विनी ॥७४॥
शरावती मधुमती रेवा गोदामरोद्भवा ।
सरयू कौशिकी पूर्णा भीमा कृष्णा मलापहा ॥७५॥
कावेरी प्रवरा तुंगा क्षिप्रा तापी च वेदिका ।
चर्मण्वती गण्डकीति पूर्वा नद्यो नदा अपि ॥७६॥
तत्संगमा अप्यघघ्नास्तीर्थान्यन्यान्यनेकश: ।
तीर्थानि गुरुसंचाराच्छिश्वद्द्वादशसिन्धुषु ॥७७॥
प्रचरंति तदा तास्तु स्वर्णदीस्नानपुण्यदा: ।
कृध्वं स्नानादि विधिवत्सर्वत्रात्र सर:स्वपि ॥७८॥
ग्रीष्मे रजस्वला नद्यो यद्दिनेंsबु नवं तदा ।
दशाहं नर्ते तीरस्थै: स्नानं मुख्यासु तु त्र्यहम् ॥७९॥
द्युरात्रमपि कूपादौ चरित्वैवं ततोखिला: ।
श्रीशैलं बहुधान्येsब्दे यात यास्याम्यहं ह्यपि ॥८०॥
इत्युक्त्वा प्रेरयामास यात्राया अपि ते ययु: ।
तत्रैव सद्गुरुपदपद्मालिरभवं त्वहम् ॥८१॥
( क्षेपकौ ) यद्वर्जुनाभ्यां विद्योगौ प्राहैष प्राग्यथा तथा ।
गुह्यौ मे प्राह ते शिष्य विनीत कथयामि ते ॥८२॥
इत्युक्त्वा प्रणतायोचे सिद्ध: शिष्याय सत्तम: ।
याभ्यां परं पुमान्याति स्वानंदौ वैष्णवं पदम् ॥८३॥
इति श्रीगुरुचरिते० तीर्थयात्रोद्देशो नाम नवमोsध्याय: ॥९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-16T21:09:33.4830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

klebsiella aerogenes

  • क्लेबसील्ला एरोजेनेज 
  • वातजन दंडाणु 
RANDOM WORD

Did you know?

मंदिराला कळस बांधतात, पण घरातील देव्हार्‍याला कळस का नसतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site