संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
द्वादशोऽध्यायः

शिवाख्यः चतुर्थाम्शः - द्वादशोऽध्यायः

श्रीशिवरहस्यम्


स्कन्दः -
पञ्चवर्षाणि बालोऽसावुपमन्युर्महाद्युतिः । चकार नियमं घोरं शोणाकूले जपन् तदा ॥१॥
भस्मत्रिपुण्ट्रुद्राक्षधारको मुनिसत्तमः । वर्षं पर्णाशनो बाल उपमन्य्वीश्वराभिधम् ॥२॥
प्रतिष्ठाप्यार्चयत् तत्र त्रिकालं बिल्वपल्लवैः । निवेद्य फलमूलानि वन्यपुष्पैर्महेश्वरम् ॥३॥
वर्षं फलाशनस्तस्थौ वर्षं वाताशनोऽभवत् । रुद्रमावर्तयंस्तत्र मुनिर्निश्चलमानसः ॥४॥
तताप परमं घोरं तपः परमदुश्चरम् । सुरवित्रासनकरं त्रिनेत्रपदपूजकः ॥५॥
ततो वर्षान्तिमे तत्र बालं दृष्ट्वा मुनीश्वराः । यतयश्च तदा सर्वे विस्मितास्तत्तपःक्रियाम् ॥६॥
बालं च बालासंकाशं तपन्तमनलं यथा । देवा ब्रह्मादयश्चैव नारदाद्या महर्षयः ॥७॥
धन्योऽयमित्यवोचंस्ते महामन्युपदार्चकः । नान्यत्रास्य चलं चेतो महेशपदपूजनात् ॥८॥
भक्तिरस्य विरूपाक्षे ब्रह्मजन्मतपःफलम् । शिवभक्तोऽयमधुना सर्वदेवाधिकस्त्वयम् ॥९॥
मुनीनामपि मान्योऽ‍यं बालभानुप्रभोऽर्भकः । अर्भकोऽपि सदास्माकं मान्यो भर्गपदार्चकः ॥१०॥
संसारभर्जकोऽत्यन्तं पापसङ्घैकतर्जकः । एकस्य दर्शनेनापि महापातकराशयः ॥११॥
विनाशमुपगच्छन्ति शाङ्गसङ्गावलोकनैः । इत्यमन्यन्त देवास्ते उपमन्युं महाद्युतिम् ॥१२॥
मुनयो मुनिपत्न्यश्च सर्वे विस्मयितान्तराः । तस्मिंस्तदा तप्यमाने उपमन्यौ मुनेः सुते ॥१३॥
तद्ध्यनधारासंक्रान्तो महादेवो महेश्वरः । जगाम दर्शनं तस्य उमायुक्तो वृषाधिपः ॥१४॥
त्रिनेत्रो नीलकण्ठश्च सर्वाभरणभूषितः । पूर्णेन्दुद्युतिसर्वाङ्गो गणवृन्दनिषेवितः ॥१५॥
संस्तुतो देवसङ्घैश्च मुनिभिस्तत्र शंकरः । आलोक्य स महादेवं ववन्दे बालको मुनिः ॥१६॥
उत्थाप्य तं मुनिवरं बालं शीतांशुभूषणः । पस्पर्श पाणिना वक्त्रं शन्तमेन महेश्वरः ॥१७॥
उपमन्युः करस्पर्शात् महेशस्यामितात्मनः । प्रणम्य देवं तुष्टाव भक्त्या नम्रशिरोधरः ॥
प्रबद्धाज्जलिहस्ताग्र उग्रदेवं कपर्दिनम् ॥१८॥
उपमन्युः -
जय शङ्कर पार्वतीपते मृड शंभो शशिखण्डमण्डन ।
मदनान्तक भक्तवत्सल प्रियकैलास दयासुधाम्बुधे ॥१९॥
सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः ।
शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥२०॥
महतः परितः प्रसर्पतः तमसो दर्शनभेदिनो भिदे ।
दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥२१॥
न वयं तव चर्मचक्षुषा पदवीमप्यभिवीक्षितुं क्षमाः ।
कृपयाऽभयदेन चक्षुषा सकलेनेश विलोकयाशु माम् ॥२२॥
त्वदनुस्मृतिरेव पावनी स्तुतियुक्ता नहि वक्तुमीश सा ।
मधुरं हि पयः स्वभावतो ननु कीदृक् सितशर्करान्वितम् ॥२३॥
सविषोऽप्यमृतायते भवान् शवमुण्डाभरणोऽपि पावनः ।
भव एव भवान्तकः सतां समदृष्टिर्विषमेक्षणोऽपि सन् ॥२४॥
अपि शूलधरो निरामयो दृढवैराग्यरतोऽपि रागवान् ।
अपि भैक्षचरो महेश्वरः चरितं चित्रमिदं हि ते प्रभो ॥२५॥
वितरत्यभिवांछितं नृणां परिपृष्टः किल कल्पपादपः ।
हृदये स्वत एव धीमते नमतेऽभीष्टफलप्रदो भवान् ॥२६॥
सहसैव भुजङ्गपाशवान् विनिगृह्णाति न यावदन्तकः ।
अभयं कुरु तावदाशु मे गतजीवस्य पुनः किमौषधैः ॥२७॥
सविषैरिव भीमपन्नगैः विषयैरेभिरलं परीक्षितुम् ।
अमृतैरिव संभ्रमेण मामभिषिञ्चाशु दयावलोकनैः ॥२८॥
मुनयो बहवोऽथ धन्यतां गमिताः स्वाभिमतार्थलाभतः ।
करुणाकर येन तेन मां अवसन्नं ननु पश्य चक्षुषा ॥२९॥
प्रणमाम्यथ यामि चापरं शरणं कं कृपणाभयप्रदम् ।
विरहीव विभो प्रियामयं परिपश्यामि भवन्मयं जगत् ॥३०॥
बहवो भवताऽकम्पिताः किमितीशान न माऽनुकम्पसे ।
दधता किमु मन्दराचलं परमाणुः कमठेन दुर्धरः ॥३१॥
अशुचिं यदि मां नु मन्यसे किमिदं मूर्ध्नि कपालदाम ते ।
अथ शाठ्यमसाधुसङ्गमं विषलक्ष्मासि न किं द्विजिह्वभृत् ॥३२॥
विलुठाम्यवनौ किमाकुलः किमुरो हन्मि शिरो भिनद्मि वा ।
कुमु रोदिमि रारटीमि वा कृपणं मां न यदीक्षसे प्रभो ॥३३॥
शिव सर्वग शर्व सर्वतः प्रणतो देव दयां कुरुष्व मे ।
नम ईश्वर नाथ दिक्पते पुनरेवेश नमो नमोस्तु ते ॥३४॥
क्क दृशं विदधामि किं करोम्यधितिष्ठामि कथं भयाकुलः ।
क्कनु तिष्ठसि रक्ष रक्ष मां मयि शम्भो शरणागतोऽस्मि ते ॥३५॥
शरणं तरुणेन्दुशेखरः शरणं मे गिरिराजकन्यका ।
शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतः ॥३६॥
परलोकभयात् प्रतिक्षणं मे हृदयं मुह्यति मुग्धचन्द्रमौले ।
सदयं परिगृह्य साधु बन्धो कुरु मां निर्भयमर्भकं त्वदीयम् ॥३७॥
हर हर भव भीम भर्ग शंभो त्रिनयन रुद्र महेश विश्व शंभो ।
हर हर दुरितं त्रिशूलपाणे शिव शिव शङ्कर किंकरस्तवाहम् ॥३८॥
यथा मृकण्डोस्तनयं यमारे यथैव पाण्डोस्तनयं मखारे ।
यथा शिलादस्य सुतं कृपाब्धे तथैव मां पाहि पिनाकपाणे ॥३९॥
सूतः -
उपमन्युकृतं स्तोत्रं यः पठेत् शिवसन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥४०॥
तत्स्तुत्या मोदितः शंभुः तं प्राह विनयानतम् ।
देव्याः पश्यन् मुखाम्भोजं गणानां पश्यतां तदा ॥४१॥
शिवः -
वत्सोपमन्यो कामं ते वृणु तं पूरयाम्यहम् । गाणपत्यं प्रदत्तं ते विद्यास्तत्र चतुर्दश ॥४२॥
प्रतिमान्त्वद्य ते वेदाः साङ्गोपाङ्गाः शिवागमाः । शैवाचार्यो भवानस्तु पार्वत्यास्तनयो ह्यसि ॥४३॥
इत्युक्ते शम्भुना तत्र विप्रोवाच महेश्वरम् ॥४४॥
उपमन्युः -
मात्रा पित्रा महादेव सह भोक्तुं सदाशिव । क्षीरान्नं परमं मेऽद्य भक्तिं त्वत्पादयोर्दृढाम् ॥४५॥
याचेऽहं देवदेवेश इत्युक्तं तस्य शङ्करः । देवीं वीक्ष्य तथेत्याह महादेवोऽम्बिकायुतः ॥४६॥
तं प्राह पश्यतां तत्र मुनीनां भावितात्मनाम् ॥४७॥
ईश्वरः -
क्षीरोदार्णव एष ते सुविहितः त्वं शैववर्याग्रणीः
त्वं विष्ण्वादिगुरुर्मवस्यमिहितो मल्लिङ्गपूजादरः ।
त्वं नित्योसि सदा ममात्मजवरोऽपर्णाप्रियः स्कन्दवत्
त्वत्स्तुत्या नितरामभीष्टफलदो यः स्तौति मां लिङ्गम् ॥४८॥
तस्मै तां वितरामि मुक्तिमखिलां भुक्तिं सदा मानुषा -
नन्दामोदपरंपराभिरिह ते ( ? ) वर्धेत मत्पूजकः ॥४९॥
प्रालेयाचलसन्निभान्नगिरयो भक्ष्यैश्च भोज्यैर्युताः
प्राज्याज्यादिपरिप्लुताः सुमधुरं क्षीरोदधिं त्वं पिब ।
पश्यान्नाधिपपूजनेन विहिता वाञ्छाधिकास्त्वत्परो
भक्तिर्मेऽस्तु सजग्धिरप्यनुदिनं नैवेद्यशेषेण मे ॥५०॥
इत्युक्त्वा पुरसूदनः प्रमथपस्तत्रागमच्चाम्बया
कैलासं मुनिनन्दनोऽपि सहसा दैर्वस्तदा पूजितः ।
पित्रा मात्रनुमोदितः स च गिरिं देवप्रसादोद्भवं
ज्ञानं सर्वसुपूजितान्नकलितं क्षीराम्बुधिं चापिबत् ॥५१॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे उपमन्युतपःस्तोत्रगाणपत्य क्षीरसमुद्रप्रदानादिवर्णनं नाम द्वादशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP