संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| नवमोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - नवमोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव नवमोऽध्यायः Translation - भाषांतर स्कन्दाः - पुरा मन्दरशैलेन्द्रशिखरे रम्यकन्दरे । नानाप्रस्रवणोपेते मृगपक्षिगणाकुले ॥१॥ रम्ये मन्दशैलाग्रे भृङ्गी नाम महामुनिः । यत् किञ्चित् काममालम्बय मनसि द्विजपुङ्गवः ॥२॥दिव्यं वर्षसहस्रं तु तपस्तेपे सुदारुणम् । ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षास्वाकाशसंश्रयः ॥३॥हेमन्ते जलमध्यस्थो जितक्रोधो जितेन्द्रियः । एवं स तपसा विप्रो ह्यनैषीवत्सगयुतम् ॥४॥नैवासौ दृष्टवान् शम्भुं तेनातप्यत दुर्मनाः । तत्रान्तरेऽभवद्वाणी शुम्भेराकाशमध्यगा ॥५॥वाणी - वदाम्यहमुपायं ते शुद्धचित्तस्य सांप्रतम् । यथा शीघ्रं प्रसन्नः स्यात् देवदेवो महेश्वरः ॥६॥भक्तोऽसि त्वं महेशाने पात्रभृतोऽसि चानघ । ब्रह्मचर्येण वा किं ते गुरुशुश्रषयाऽपि वा ॥७॥ समस्तदेवान् धर्मांश्च उत्सृज्य नियमादिकम् । भक्त्याराधय देवेशं करुणामृतवारिधिम् ॥८॥भक्त्यैव परया देवस्तोषं याति महेश्वरः । रहस्य ते वदाम्यद्य तस्यैवाराधनक्रमम् ॥९॥ येन शीघ्रं स तुष्टः स्यात् महेशः पार्वतीपतिः । प्रदक्षिणं हि परमा पूजा शम्भोर्महात्मनः ॥१०॥कुरु प्रदक्षिणं शम्भोर्नित्यं भक्त्या द्विजोत्तम । प्रसन्नस्त्वयि देवेशः सर्वान् कामान् प्रयच्छति ॥११॥इत्युक्त्वा विररामाथ शम्भोराकाशवाक् तदा । तदा प्रभृति भृङ्गीशो भृङ्गवत् पुष्पलिप्सया ॥१२॥ बभ्राम लिङ्गागारे स भस्मरुद्राक्षधृक् सदा । अहोरात्रमविश्रान्तो यथा मेरुं हि भास्करः ॥१३॥ संस्तुवन् देवदेवेशं शिवमेव निरन्तरम् । रुद्रमावर्तयंस्तत्र चकारासौ प्रदक्षिणम् ॥१४॥हित्वा च देवीं स्कन्दं च गणपं चण्डिकेश्वरम् । प्रदक्षिणैकपरमो भृङ्गी भृङ्गवदास ह ॥१५॥संस्तुवन्नेवमीशानं तत्स्तुतिं श्रृणु सत्तम ॥१६॥भृङ्गी - शम्भो सङ्गतकामिनी नवसुधाधृग्धुर्यमौर्वीघनो धेनूनांपतिवाहन प्रमथपाधीशान विश्वार्चित ।वैकुण्ठात्मजकुण्ठितोरुसुशरापारव्यथां संहर शम्भो देव दयानिधे करुणया मां पाहि विश्वेश्वर ॥१७॥पौलस्त्यात्मजबाहुतोलितमहाकैलासमूलस्थितापारोद्वाहपरिश्रमार्तभुजभग्नार्तिस्तवाम्रेडित ।स्वर्गङ्गापतनोरुगर्वकुलिशाखर्वाकपर्दोल्लसल्लीक्षेवाशुधृताव्ययेश्वर महादेवाद्य मां पालय ॥१८॥भूमिस्यन्दनवाहने सुनिहिता वेदाश्च ते वाजिनो मौर्वीं ते धनुकुध्रकौ शरवरो भूमेः सुतानायकः ।सूर्येन्दू रथकर्षणाङ्कगयुतौ यन्ता स्वयं ते विधिःलक्ष्यं ते त्रिपुरं तथापि यमिनां चित्ते ह्यलक्ष्यो भवान् ॥१९॥ तव शङ्कर किङ्करार्हता हरिपद्मासननेत्रसंभवाः ।वृषवाहाध्वरदक्षशिक्ष शम्भो करटींत्वग्धृगहीश्वरोरुमाल ॥२०॥गिरिपरिवर्तितसागरोदरोद्यद्गरलीलानिहताः सुरासुराद्याः ।भवता भवतापहारिणा गरभुक्त्या सुखिनः सुरासुराः ॥२१॥एवं संस्तूयमानश्च भृङ्गिनः पुरतः शिवः । प्रादुरासीद्वृषारूढो नीलकण्ठस्त्रिलोचनः ॥२२॥ देव्यालिङ्गितवामाङ्गो गणबृन्दनिषेवितः । दृष्ट्वा प्रणम्य देवेशं सामिचन्द्रकलाधरम् ॥२३॥दृष्ट्वा तत्पार्श्वगांस्तत्र गणेन्द्रान् वारणप्रभान् । त्रिनेत्रान् नीलकण्ठांश्च भस्मदिव्यत्रिपुण्ट्रकान् ॥२४॥ नन्दिकेशश्चण्डिकेशो महाकालोऽथ बाणकः । कालामुखः शङ्कुकर्णो वीरभद्रो मयूरकः ॥२५॥ गजकर्णस्ताम्रवक्त्रो वृद्धसेनो विदूरथः । सोमनन्दी महानन्दी तुहुण्डश्चैव डुण्डकः ॥२६॥छत्रचामरकोटीभिर्व्यजनैश्च पताककैः । गणानां शतसाहस्रैः अयुतैर्नियुतैः पुनः ॥२७॥कोटिकोटिभिरन्यैंश्च विविधायुधभूषणैः । वृतं महेशं तुष्टाव भृङ्गी चन्द्रकलाधरम् ॥२८॥भृङ्गी - शम्भो स्फार तटीद्वयोरुतटिनीगर्वादिनिर्वापणो वीर्योत्तेजिजटानिटालनयनस्त्वं धूर्जटिः पाटकः ।घोराकृत्रिमगोसहायुतमहाकण्ठीरवोद्यत्प्रभा कट्यां त्वत्करटीभवं वरशयः शूलानलेनाहितः ( ? ) ॥२९॥त्वं खण्डपर्शो शशिखण्डचूड खट्वाङ्गखङ्गशरहेतिमहोरुबाहो ।आखण्डलादिसुरवन्दित पुण्डरीकचर्माम्बराम्बुज अहीशवरोरुहार ॥३०॥कुण्डलीशकृतकुण्डल गण्डस्फालनील नलिनामलमाल ।शूलमूलवरहस्तकपाल द्योतितामलझलंझलपाद ॥३१॥सूतः - तत्स्तुतिं शङ्करः श्रुत्वा प्राह तं भृङ्गिनं मुनिम् । त्रैलोक्यजननीं दृष्ट्वा तामूचे भक्तवत्सलः ॥३२॥ईश्वरः - देवि त्वद्दर्शनेनायं गणपो भवतान्मम । मम सारूप्यभाङ् नित्यमेष भृङ्गी महामतिः ।सदाशिववचः श्रुत्वा देवी प्राह महेश्वरम् ॥३३॥ देवी - देवदेव महेशान सर्वज्ञ करुणानिधे । त्वया वरो न दातव्यो मुनये चन्द्रशेखर ॥३४॥ वदामि कारणं चास्य भृङ्गी नामैष दुर्मतिः । प्रदक्षिणं ते प्रचरन् मां चाद्य कुरुते बहिः ॥३५॥श्रुत्वा देव्यास्तदा वाक्यं देवदेवो महेश्वरः । तां दृष्ट्वा कुपितां शम्भुः प्रत्यूचे हिमशैलजाम् ॥३६॥ईश्वरः - श्रृणु देवि ममैवायं कुरुतेऽद्य प्रदक्षिणम् । मामेव शरणं यातः तस्मान्नो मन्युमर्हति ॥३७॥ प्रसादं कुरु भक्तस्य शरणं च गतस्य माम् । इति प्रसादयन् देवीं प्रोवाच हिमशैलजाम् ।दृष्ट्वा चापि मुनिं तत्र प्राञ्जलिं विनयानतम् ॥३८॥ईश्वरः - अहं विश्वाधीशो भुवनमखिलं शैलतनया अहं वह्निः सोमो गिरिशतनया भूतनिवहः ।अहं पञ्चार्णस्थः श्रृणु द्विज नवार्णा भगवती नचावां वै भिन्नौ जगदखिलमाभ्यां सुविहितम् ॥३९॥यश्चोदुम्बरडम्बरः फलभरैरैवं महेशाङ्गजाद्रोमाग्रेषु अनन्तकोटिगणनाहीनाङ्गकोट्यो मुने ।भिन्ना लोकपरंपरा हरिहरब्रह्मादयो वै सुराः विश्वं भूतमिदं विचित्रजनकं विश्वेशमाह श्रुतिः ॥४०॥प्रालेयाचलकन्यके तव मनः पद्मोत्पलाभं कथं अस्मिन् भृङ्गिमुनौ ममान्तरतनौ कोपः कथं ते वद ।संप्राप्नोतु पतन्नपि त्रिपदतां त्वद्दृक्पयोजांचितः सर्वेषां गणमौलिरेष इति मे वांछा परं जायते ॥४१॥इत्युक्तं गिरिजा शिवस्य वचनं श्रुत्वा प्रहृष्टा मुनिः वत्सोत्तिष्ठ गिराऽधुना प्रपत मा भूमाविति प्राह तम् ।त्वं मे पुत्रवरोऽसि मां च शिवतो भिन्नां न संपश्य भो किञ्चित् द्रोणमरीचिकाविरहिता सूर्यप्रभा सूर्यतः ॥४२॥मायाऽहं प्रकृतिः परः स भगवान् मायी महेशः शिवः विद्याधीश्वर एव विश्वजनको लोकातिगः शङ्करः ।मुक्ताः कालकलाविलासकलितैः ब्रह्मेन्द्रनारायणाः श्रीमृत्युञ्जय एव कालकलनातीतो महेशः परः ॥लोकानुग्रहरूपतो हि समया कैलासमौलौ स्थितः ॥४३॥न वेद वेदोऽपि शिवप्रभावं स्वात्मानमेवाद्वयमीशितारम् ।सर्वेन्द्रियाणां पुरुषं परायणं को वेद यो वेद शिवः सनातनः ॥४४॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे भृङ्गिप्रसादार्थं देवीसांत्वनं नाम नवमोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP