संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| सप्तमोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - सप्तमोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव सप्तमोऽध्यायः Translation - भाषांतर जैगीषव्यः - श्रुतं ते तारकाराते नन्दिनश्चरितं शुभम् । नन्दिकेशस्य भक्तस्य चरितं संश्रुतं मया ॥१॥त्वतः षड्वक्त्र शुभदं देवदेवप्रसादजम् । न तृप्तिरस्ति भक्तानां शम्भोः संशृण्वतो मुहुः ॥२॥चरितं परमं पुण्यं त्रिनेत्रप्रियकृत्तमम् । चण्डीशः परमो योगी चण्डं पापं महत् पुरा ॥३॥कृतवान् पितरं हत्या स कथं गणपो भवेत् । देवदेवप्रसादेन चरितं वक्तुमर्हसि ॥४॥सूतः - इति तस्य मुनेर्वाचं श्रुत्वा पञ्चास्यसंभवः । षड्वक्त्रस्तमथोवाच जैगीषव्यं शिवार्चकम् ॥५॥स्कन्दः - पुरा गर्गकुलोत्पन्नः कर्मभद्रोऽभवद्द्विजः । माल्यवच्छिखरे साधुः वर्णाश्रमरतो युवा ॥६॥सुनीतिर्नाम तद्भार्या छायेवादित्यमन्वगात् । शीलेन भर्तुर्निरता शुश्रूषन्ती पतिं सदा ॥७॥देवाग्निमुनिविप्रेषु अतिथौ भर्तृतत्परा । काले पुष्पं फलं चान्नं निवेदितवती सती ॥८॥स्वाध्यायशीलिनं विप्रं सेवन्ती भक्तितत्परा । माल्यवच्छिखरे रम्ये चननिर्झरकन्दरे ॥९॥नानापक्षिमुखापारनदीनिर्झरशोभिते । मृगसारससंघुष्टसरोजातोत्पलावृते ॥१०॥नवशाद्वलसंयुक्तगोप्रचारवनस्थले । निनाय दिवसान् विप्रो भार्यया तपसि स्थितः ॥११॥कदाचित्तपसा स्वैरं वर्तमाने महामुनौ । आजगामाथ तन्मित्रं वैदर्भो नृपसत्तमः ॥१२॥रथेन तं मुनिं याज्यो याजकं मुनिसत्तमम् । माल्यवच्छिखरे तत्र दृष्ट्वा राजानमत्रिज ॥१३॥स्वागतेनामिनन्द्याथ विष्टरेणोपमन्त्र्य तम् । सोऽनमित्रोऽथ वैदर्भो गार्ग्यं तं प्रणिपत्य हि ॥१४॥उवाच कुशलं विप्रं तपोऽग्निषि वने तथा । मृगपक्षिगणे पुत्रे तपस्विषु नृपस्तदा ॥१५॥राजा - भगवंस्तव पादाब्जं द्रष्टुमभ्यागतः पुरात् । सनाथं कुरु मे गार्ग्य त्वन्समागमतो मुने ॥१६॥यियक्षुरस्मि भगवन् हयमेधेन शङ्करम् । तत्र होता भवान् मेऽद्य समायातु रथेन मे ॥१७॥इति वैदर्भवचसा हृष्टो विप्रोऽभ्युवाच तम् । प्रसन्नमानसो विप्रः प्रीतिस्निग्धं हितं वचः ॥१८॥विप्रः - याज्यो भवांश्च नृपतिर्दक्षिण्यो दक्षिणो नृपा । त्वमपूजो महाभर्गं भद्रं ते नृपसत्तम ॥१९॥राज्याङ्गेषु समस्तेषु भवतः कुशलं नृप । शङ्करस्य प्रसादेन आरोग्यं विद्यते न वा ॥२०॥तदा मुनिवचः श्रुत्वा प्राञ्जलिः प्राह तं नृपा ॥२१॥ राजा - अनुष्यातस्त्वया स्नेहैः किं ममावद्यतां व्रजेत् । इत्युक्त्वा तौ तदा तत्र नृपगार्ग्यौ महामती ॥२२॥तं भोजयन्नृपं विप्रः स्वाद्वनैः परमैस्तदा । कथामिरनुरूपाभिर्दैवपित्र्यैर्नृपोत्तमम् ॥२३॥एवं विप्रेण नृपतिः प्रत्यागात्पुग्मोजसा । रथेन जवनाश्वेन यज्ञवाटं महर्द्धिमत् ॥२४॥दीक्षितः स नृपस्तत्र ऋषिभिर्वेदपारगैः । विससर्जाश्वमतुलं पुनः प्राप्ते तुरङ्गमे ।२५॥अयजद्धयमेधेन शास्त्रदृष्टेन कर्मणा । दक्षिणाश्च तथा गावो भूमिस्वर्णधनादिकम् ॥२६॥नियुतं प्रयुतं चैव प्रादात् स नृपसत्तमः । ऋत्विग्भ्यश्चाथ विप्रेभ्यः संपूज्यान्नैस्तथा नृपः ॥२७॥विसर्जयामास मुनीन् गार्ग्यश्चामन्त्र्य तं नृपः । गोभिर्हिरण्यभारैश्च माल्यवच्छिखरं ययौ ॥२८॥तत्र गाश्चारयामास वनभूमिषु सर्वतः । पुत्रैः शिष्यैर्महाभागो धर्माय दुदुहेऽथ गाः ॥२९॥ तस्य पुत्रोऽभवत तत्र चण्डीशाख्योऽथ वर्णिकः । स पितुर्वाक्यतस्तत्र स सहाध्यायिभिस्तदा ॥३०॥चारयामास ता गावो दण्डहस्तः श्रुतीः पठन् । मेखली च तथा दण्डी आषाढी भस्मभूषणः ॥३१॥रुद्राक्षभूषणो नित्यं वनलिङ्गेष्वपूजयत् । प्रदुग्धगावस्तत्रैव चण्डीशाख्यो वटुस्तदा ॥३२॥अलाबुदारुपात्रे च अभिषिच्य महेश्वरम् । वनलिङ्गे च स तदा स गवां पयसा तदा ॥३३॥रुद्रसूक्तैस्तथा कैश्चिद् द्रोणपुष्पर्वनोद्भवैः । वन्यैः फलैर्निवेद्येशं तुष्टाव परमेश्वरम् ॥३४॥चण्डीशः - त्वं धर्मभृद्धर्मवहोऽसि शम्भुः सारङ्गधृक् तद्भवचर्मवस्त्रः ।त्वं शम्बरारिहुतभुक् धृतशम्बराङ्कः त्रैयम्बकाब्जाम्बरपूज्य पाहि ॥३५॥स्कन्दः -स सहाध्यायिभिः सर्वैः सायमायाति वै गृहम् । स पितुश्च तथा गोभिः पितुः पादावुपस्पृशन् ॥३६॥प्रदुग्ष्वाऽथ पुनर्गावो निवेद्य पयसो घटीः । अग्निहोत्रार्थमुद्युक्तः स समिद्भिः पितुर्मुदे ॥३७॥एवं निवपतस्तस्य काश्चिद्दोहविवर्जिताः । गावो दृष्ट्वा तथा गार्ग्यश्चुक्रुधे पुत्रमोजसा ॥३८॥न दुहन्ति तथा गावः काश्चित्पुत्र किमद्य ते । चरित्रं च विचित्रं ते सदा चारयतो वने ॥३९॥स पितुर्वचनं श्रुत्वा चण्डीशः पितरं तदा । प्राह तं विनयोपेतः प्राञ्जलिर्मीतभीतवत् ॥४०॥चण्डीशः - न जानेऽहं पितः किञ्चित् प्रौढवत्सा दुहन्ति न । तस्य तद्वचनं श्रुत्वा किञ्चित् काले गते मुनिः ॥४१॥स सहाध्यायिभिस्तस्य ज्ञापितो वनमध्यगः । निलीय वृक्षषण्डस्थस्तच्चेष्टां ददृशे तदा ॥४२॥स दुदोह तदा गावः तत्पयोभिर्महेश्वरम् । अभिषिच्य महादेवं पुष्पैर्वन्यफलैस्तदा ॥४३॥संपूज्य परया भक्त्या भस्मरुद्राक्षभूषणः । निमील्य स्तौति देवेशं प्रणामप्रक्रमादिभिः ॥४४॥ तत्तादृशं विलोक्यैव क्रोधान्धीकृतलोचनः । पूजां मन्त्रकृतां लिङ्गे नाशयामास पादतः ॥४५॥ विलोक्य पितरं तत्र वरिवस्याविनाशकम् । समिदाहरणार्थाय कुठारं स्वपुरः स्थितम् ॥४६॥गृहीत्वा छेदयामास पितुः पादौ शिवद्रुहौ । विलुठन्तं तदा भूमौ पितरं साश्रुलोचनम् ॥४७॥ भग्नसक्थिं च रक्ताङ्गं वाचा संसज्जमानया । तुष्टाव देवदेवेशं तल्लिङ्गाग्रे महेश्वरम् ॥४८॥स कठोरकुठारधारया निजघानाशु तद्रुमूलभागे ।शिवलिङ्गे निहितौ तवैव पादौ कथमित्येव चुकोप चण्डिकेशः ॥४९॥सालं यथा भुविगतं परिकृत्तशाखं काष्ठाशया वरकुठारकरेण दीनम् ।भूमौ तदा विलुलितं पितरं स दृष्ट्वा सञ्जातवेपथुरसुक्षतलोलनेत्रम् ॥५०॥सन्तुष्टुवे च जगतां पितरं महेशं गङ्गाधरं श्रुतिवचोमनसोरगम्यम् ।व्याघ्राजिनाम्बरमुमाकरगाढगूढं वाचाऽतिसन्नहृदयो भयभावयुक्तः ॥५१॥ इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे चण्डिकृतस्वपितृपादच्छेदनं नाम सप्तमोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP