संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| अष्टादशोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - अष्टादशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव अष्टादशोऽध्यायः Translation - भाषांतर स्कन्दः - जैगीषव्य महायोगिन् शांकरो गौतमो मुनिः । चकार तपसा देवान् हरपादार्चने रतः ॥१॥सभार्यो भीमपादाब्जस्मरणेन मुनिः परम् । भस्मरुद्राक्षसंपन्नः कुशावर्तेऽवसन्मुनिः ॥२॥तस्य रूपवती भार्या अहल्या शक्रधर्षिता । तां दृष्ट्वा स मुनिः क्रोधात् शापास्त्रैस्तं व्यताडयत् ॥३॥तां त्यक्त्वा स मुनिर्धीरस्त्र्यम्बके भूधरेऽवसत् । तत्पापशमनार्थाय तपसाराधयच्छिवम् ॥४॥रुद्रपञ्चक्षरासक्तो भस्मरुद्राक्षभूषणः । तुष्टाव देवं हृष्टात्मा स्वकष्टविनिवारकम् ॥५॥गौतमः - उक्षवाहमरविन्दलोचनेनार्च्यपादयुगलेन्दुसुचूडम् ।वेदवृन्दकसनन्दनस्तुतं नन्दिवक्त्रकमलेक्षणं भजे ॥६॥ स्कन्दतातमखिलार्थदायकं सुन्दराङ्गमखिलात्मकमेकम् ।मन्दारमन्दिरनतप्रियवामदेवं सामाग्गसंस्तुतमुमाधवमादिदेवम् ॥७॥कामदाहक सुरार्चित शम्भो व्योमकेश परिपालयाद्य माम् ।पद्मनन्दनसनन्दवन्दित इन्दुकुन्दधवलाङ्गकिरीट ॥८॥बिन्दुनादरहितं प्रणवाछं छन्दसां च निलयं भज शम्भुम् ।इभनिभवदनारविन्दलोभं भसितोद्भवभासमासिताङ्गम् ॥९॥भवभयहरणं भवोद्भवं तं प्रसभं स्तौमि भवं भवानिनाथम् ।भव भवदीयकटाक्षसङ्घैः मम हृत्सङ्गतरङ्गितो भवाब्धिः ॥१०॥तत्सुत्त्या तु तदा प्रीतस्तमाह परमेश्वरः ॥ईश्वरः -कस्ते कामो मुनिश्रेष्ठ तत्ते संपूरयाम्यहम् । त्वत्स्तुत्या तपसा भक्त्या तुष्टस्ते कष्टनाशकः ॥११॥वृणु कामान् महाभाग गौतमोत्तममानस ॥१२॥सूतः - इत्थं शम्भोर्वचः श्रुत्वा नत्वा तं गौतमो मुनिः । प्रार्थयामास स स्नातुं स्वस्य भार्यायुतस्य च ॥१३॥शुद्धये तं महादेवं सदाऽन्नं च गिरिप्रभम् । गृहे सिद्धे शांभवानां सदा भोजयितुं प्रियम् ॥१४॥ तदा तत्प्रार्थनायोगात् स्वजटामूलतो हरः । विससर्ज तदा गङ्गां गौतमीं नाम नामतः ॥१५॥संप्लावयन्ती देवाद्यैः संस्तुता निर्गता ततः । गोदावरी वरनदी नन्दा सप्तमुखाब्धिगा ॥१६॥सिंहसंस्थे गुरौ माघे तत्र स्नात्वा महामुनिः । भार्यया पापनिर्मुक्तो बभूव विजितेन्द्रियः ॥१७॥देवास्तस्थान्ये मुनयः तत्कालस्नानमास्थिताः । गौतमोऽप्यवसत् तत्र भस्मरुद्राक्षभूषणः ॥१८॥ अर्चयन् त्र्यंबकेशानमक्षयान्नपदः सदा । विरूपाक्षप्रसादेन क्षयद्वीरपरेषु च ॥१९॥ तदुदन्तं द्विजाः श्रुन्वा सर्वे दुर्भिक्षपीडिताः । सर्वदेशस्थिता विप्राः कण्वकात्यायनादयः ॥२०॥भार्गवः कावषेयश्च धौम्यहुण्डाश्च कङ्कताः । बालखिल्यास्तथा विप्राः वैखानससमुद्भवाः ॥२१॥भारद्वाजवीतहव्याः तथैवाङ्गिरसास्तथा । साग्नयोऽनग्नयश्चैव विधुराः सधुगस्तदा ॥२२॥गृहस्थाश्च वनस्थाश्च यतयो वर्णिनस्तथा । सहस्राणां तदजग्मुर्नियता गौतमं मुनिम् ॥२३॥त्र्यंबकं तेऽथ संप्राप्य स्रात्वा गोदावरीजले । भस्मरुद्राक्षसंपन्नः बिल्वपल्लवपाणयः ॥२४॥संपूज्य त्र्यंबकेशानं नत्वा वै संस्तुवन् शिवम् ।विप्राः - द्विजराजकलाधरं महेशं द्विजकुलपूज्यमुपास्महे शिवं त्वाम् ।द्विजपतिवाहनपूजितांघ्रिपद्मं वरहारीकृतद्विजह्वमीश्वरम् ॥२५॥सुब्रह्मण्यपितासि शङ्करविभो ब्रह्मण्यदेवो भवान् किंचोक्तः श्रुतिषु त्वमेव भगवन् देवेश विश्वाधिकः ।त्वां चैवोपनिवीतिकाः हृदि परं नान्यं हि धावामहे तस्मात् त्वां द्विजराजशेखरधरं त्वामेव विप्रा वयम् ॥२६॥गौतमं ते समागत्य प्रणम्योपाविशंस्तदा । केचिदालिङ्गिंतास्तेन केचित् स्नेहेन भाषणैः ॥२७॥ परिप्रश्नैश्च कुशलैस्तं मुनिं ते समर्चयन् ॥२८॥गौतमः - भवतां भवभक्तानां दर्शनेन मनोरथाः । पूर्णास्तूर्णं स्वर्णवर्णपर्णादस्कगदा द्विजाः ( ? ) ॥२९॥बहूनां शाम्भवानां च समवायः सुदुर्लभः । नितगं परितुष्टोऽस्मि यथासंभवमद्य मे ॥३०॥ विश्राम्यतां कियत् कालं नित्यं स्वाद्वन्नभोजनैः । सुवृष्टया वर्षयत्येव वर्ष्यो वेदे च गीयते ॥३१॥भगवांस्त्र्यम्बकः साम्बो मां स्नेहेनानुपश्यत ।सूतः - इति गौतमवाक्येन प्रहृष्टा मुनिपुङ्गवाः । ऊचुः प्राञ्जलयः सर्वे गौतमं त्र्यंबकार्चकम् ॥३२॥मुनयः - भवश्च भवतापार्तिविनाशनपरायणः । त्वमन्नपतिपादार्चाप्रभवानन्नसंचयान् ॥३३॥अक्षयांश्च विरूपाक्षप्रसादेनाप्तवानसि । क्षुत्क्षामपीडिताः सर्वे वयं त्वाः वीक्ष्य निर्वृताः ॥३४॥त्र्यक्षभुक्तोपभक्ष्येणः क्षतपापा वसामहे । अनावृष्टिभयं यावत् तावत् ते वशगा वयम् ॥३५॥इत्युक्तं गौतमः श्रुत्वा मुनीनां भावितात्मनाम् । दुर्भिक्षपीडिते काले तैरुवास निजाश्रमे ॥३६॥तेऽपि गोदावरीतीरे तत्रावसथकल्पनैः । ऊचुस्त्र्यंबकमाश्रित्य पूजयन्तो मुनीश्वराः ॥३७॥दक्षशिक्षविषमाक्षभक्षिते शेषभक्ष्यनिकरं परिधूय ।ध्वांक्षवद्बलिभुजो रटामहे पार्वणान्नविनिमग्नमानसाः ॥३८॥ संतृप्यच्छिवभुक्तशेषनिवहैरेषां द्विजानां मुदे चाहल्यासहितस्तताप शादां षण्णां द्व्यं वै मुनिः ।इत्थं विप्रसहस्रकैः प्रतिदिनं त्र्यक्षप्रसादोद्भवं अन्नानां पतिपूजनेन सुतगं साध्यासप्रीत्या द्विजान् ॥३९॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे गौतमचरित्रे तपो-गङ्गनयन-द्विजसन्तर्पणादिवर्णनं नाम अष्टादशोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP