संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| विंशोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - विंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव विंशोऽध्यायः Translation - भाषांतर जैगीषव्यः - स्कन्दानन्दितमन्दारमन्दरप्रियहर्षितः । घटोद्भवो महायोगी शिवभक्तवरो द्विजः ॥१॥ तरङ्गमालाकलितमपिबत् सागरं कथम् । कथं गर्भे वसन् योगी शिवज्ञानमवाप्तवान् ॥२॥व्यासस्य पुत्रो भगवान् शुकः शुग्रहितो वद । तदद्य संप्रधार्याशु वद मे शूरसंहर ॥३॥ स्कन्दः - अत्र ते वर्णयिष्यामि शांभवानां विचेष्टितम् । शम्भुभक्तः पुरा कुम्भसंभवोऽम्भोधिपानकृत् ॥४॥मित्रावरुणसंभूतः तत्पितुर्मेनकाप्सराम् । दृष्ट्वा चस्कन्द कुम्भे वै ऋषेस्तस्य महात्मनः ॥५॥घटोद्भवोऽभवन्नाम्ना महर्षिः संशितव्रतः । वसिष्ठोऽपि महाविप्रो जातस्तस्मान्महामुने ॥६॥कल्माषपादनिहतं स्वस्य शक्तितनूभवम् । तपसा शम्भुभक्त्या च व्यासः पौत्रात्मजोऽस्य हि ॥७॥व्यासो जज्ञेऽमिमतप्रज्ञः तत्र विप्र पराशरात् । स बदर्यां तपस्तेपे वर्षायुतमनन्यधीः ॥८॥ भस्मरुद्राक्षसंपन्नः शिवलिङ्गार्चने रतः । पञ्चाक्षपरो नित्यं रुद्रविद्राविपातकः ॥९॥संस्तुवन् परमेशानं शुकं पुत्रमवाप ह । गर्भेऽप्युपादिशत् शम्भुः ज्ञानं तत्पारमेश्वरम् ॥१०॥व्यासः - उर्वी मौर्वी रथाङ्गौ शिखिशशिहरयो बाणतूणस्तथाब्धिः यन्ता धाता विधाता उरगतुरगका वेदसङ्घार्कचन्द्राः ।लीलां तेऽद्यानुलोके ललितदृगुदये ज्वालकीलावलीढं मुग्धं मुग्धेन्दुचूडत्रिपुरवरपुरं संभृतैः किं तवान्यैः ॥११॥धराधरकुमारिकावर कपालपाणे हर प्रसीद परमेश्वर स्मरहराद्य गङ्गाधर ।पयोधिशयबाणधृक् गरधृगुर्वीधर धराधरणधारण प्रणतहृत्पयोजान्तिक ॥१२॥अनाथजननाथ ते दिवसनाथ नेत्रेण मां विलोकय सनाथय प्रमथनाथ लिङ्गार्चकम् ।समन्मथशराहतिप्रमथितान्तरङ्गं हि मां अनाथमगजापते अव हि विश्वनाथाधुना ॥१३॥तत्स्तुत्या तोषितः शम्भुस्तस्मै पुत्रं ददौ शुकम् । गर्भान्निसृष्टमात्रः स स्तुवन्नीशं वनं ययौ ॥१४॥शुकः - पतङ्गदृगपाङ्गतो भवभुजङ्गभङ्गो भवेत् समुल्लसितपल्लवैर्भजति मुक्तिवलीव माम् ।कुरङ्गकिणसङ्गदृक्प्रसरतोऽद्य सांसारिकं रुजं हर दयाधनैर्वितर दृष्टिवर्षं मयि ॥१५॥निशापतिकलाधरं कुलिशपाणिसंपूजितं सुशोभिजटजह्नुजामृडशिखण्डचूडाधुना ।दृढं तव पदाम्बुजं शिव भजामि हृत्पद्मके शिवासख सुखं सदा शिखिसखाकृते पाहि माम् ॥१६॥शान्तं दान्तहृदन्तरे सुविहितं यान्तं वृषेन्द्रेण तं स्वान्तस्थं सकलेषु भान्तमखिलं तान्तं सदा पोषकम् ।वान्तप्रायभवेषु तुच्छितधियं तं मुक्तिकान्ताप्रियं देवं दान्तशमप्रशान्तमनसा यामीषणावर्जितः ॥१७॥ अम्बरकेशसुशम्बरवैरिन् त्रिपुरहराम्बरहृदि विहर ।मुरहर शङ्कर द्विरजवरानन शरवणभवनुत परिपाहि ॥१८॥एकैवास्मि न संशयस्त्रिभुवने नेहास्ति नाना जगत् मिथ्यैवाहिभयं यथा मरुमरीच्यार्द्रीकृता भूर्भवेत् ।शुक्तौ यत् कलधौतवन्मृदि महाकुम्भोपमानं तथा वाचारम्भणमेव युक्तिजनकं कार्यं न वै कारणम् ॥१९॥यद्भासा जगदद्य भाति नितरां सूर्यानलौ वायवो भीत्या भान्ति स्वतेजसामपि परं जानन्ति नो मां स्थितम् ।को मोहो मयि पश्यतां स्थिरचरं त्वेकत्वनानात्वधी - र्भिद्यत्येव विभेदभावजनकं त्वज्ञानमेतत् स्फुटम् ॥२०॥ईशावास्यमिदं जगत् श्रुतिशतैः प्रोक्तं च तद्भेदधीः नो कश्चिद्विनिवर्तते च यतते मोक्षाश्रमे श्रान्तियुक् ।त्वद्भक्त्या विमुखः सदैव हि वृथा बोधाद्भवे भ्रश्यते बुद्ध्या वृद्धधियो भवन्ति च वृथा किञ्चायुषोऽन्ते नराः ॥२१॥विद्या सुद्योततेऽन्तर्हृदि जटिलतमो भिद्यते खिद्यतेऽन्तः खद्योतद्युतिवत् सविद्युत इमा नो भान्ति चन्द्रानलाः ।यूकाशूकसमो मयूखसमहामाली च लीला हि ते घूकास्तर्कवितर्कजालजटिला विध्वंसितास्त्वद्दृशा ॥२२॥सीमाभूमा त्वमीशो दृढतरमहिमा त्वत्पदाब्जे किलैको यस्त्वां ध्यायति ध्यानहीनवपुषा स त्वं त्वमात्मा परः ।नो तत्र त्रिपुटीकुटीरकुटिल चित्तं निटालेक्षण लक्ष्यात्मा त्वपलक्षलक्षितहृदा त्वं वेत्सि तं त्वामनु ॥२३॥शमितो मृगतृष्णिकेव भूमौ मृगदृष्टयैव स एव बन्धहेतुः ।सुभवोद्भवपादसेविनां सुगमा वै निगमागमोरुशीर्षाः ॥२४॥पदजातप्रकटप्रभावबोधैरहमेव त्वमसि क्क भेदहेतुः ॥२५॥तन्त्रयन्त्रकृतमन्त्रविभक्तैर्मान्त्रिकोऽहमिति धीर्न विमुक्त्यै ।भेदभानकलनाविचारतः त्वां न जानत इमे पशवः स्युः ॥२६॥युक्तियुक्तमपि भुक्तमखेदं भक्तमेव विगुणं न तु भुक्त्यै ।मुक्तिमार्गफलने श्रुतिसूक्ता वक्ति तत्वमसि वाक्यतोऽर्थवत् ॥२७॥बहुत्वेऽप्येकत्वे भ्रमभवनतान्ताः किल नराः न चैकं द्वित्वं वा श्रुतिशिरसि वाक्यार्थकलने ।न बन्धो मोक्षो वा न परमवरो नापि हि नरः चकास्ति ब्रह्मेदं परमशिव एको ध्रुवसुखः ॥२८॥वित्तपित्तमपनीय चित्ततो हृत्तमो रसदृशा परिधूय ।कर्तृतामपि निजात्मविद्यया भोक्तृतामपि सदात्मदर्शनात् ॥२९॥दर्शनं च हृदि तत्र विलाप्य प्रपतकामकलनो दलिताशः ।मूलकूलजनितामथ विद्यां हृद्यमेन परिधूय अविद्याम् ॥३०॥उमाजाने जाने तव भव यदार्तं जगदिदं न जाने तद्भिन्नं शिव भजनबोधैर्गुरुजनैः ।रमाजानेर्जानिं जनिमृतिनिदानादिविमुखं महीजानेः सौख्यं लवशतसुराणां मम कियत् ॥३१॥तर्कैस्तर्कितुमप्यशक्तकरणैर्मीमांस्यमेतन्न वै शब्दैश्चापि जडैश्च तन्त्रनिवहैः दृश्यः किमात्मा भवान् ।मनःक्लृप्तास्तर्का गुणगुणजबुद्धिप्रतिभुवो विचारं चेतो यत् तदपि शिव मीमांसकमतम् ॥३२॥यतः शब्दो वाग्भूर्मनवचनदरे त्वमसि दृक् न वै जातं किञ्चिन्न च भवति संप्रत्यति भवत् ।न वै कार्यं तस्य प्रभुरणुरपि स्थूलमपि न न रूपं त्वग्गन्धो न रसरसना वापि भगवन् ॥३३॥त्वमात्मा स्वे धाम्नि स्थित इव विभासीदमखिलं न चोपाधिर्भूतान्यखिलतनवः कल्पितधिया ।महाविद्यामोहाद्विविधतग्शास्त्रस्य विषयं अविद्यावत् सर्वं भवति त्वयि दृष्टे परतरे ॥३४॥तदेतत् त्वं चापि त्वमहमिति दृश्यं च न हि दृक् अखण्डे पिण्डाण्डप्रभवविहिते बुद्धिकरणे ।ततो जातं शास्त्रं तव शिवद बोधे कथमिदं जडं चेतोवाग्मिः प्रतिपदविमृश्यं भवशतैः ॥३५॥कुxर्कैर्नानेव प्रभवसि च भक्त्यैव सुकरः ॥३६॥श्रद्धां ते श्रुतिराह सौम्यपुरुषेत्येतत् परे निर्गुणे सांबे रूपगुणैकवाग्विषयके नाम्न्यर्चने वा त्वयि ।प्रारब्धान्तिमसंभवेन हि पथा योऽयं चकास्ते यथा यावच्चाप्यधिकारसाधनपदं तस्य त्वमात्मा सदा ॥३७॥ कुटिलजटिलशब्दतर्कजालैः श्रुतिहरिणीं भषन्ति वाक्श्रमास्ते ।गुणगणविहिताः शुनां गणास्ते तव भक्त्या रहिताऽप्याबुद्धबोधाः ॥३८॥मिथ्या जगद्युगभवाः प्रतिकल्पमेवं मूढा गुणप्रभवतो मुनयोऽपि चान्धाः ।शास्त्राणि तन्वत जगत्परिवंचकास्ते पूर्वापरोरुवचनैः स्वधियैव मुग्धाः ॥३९॥तस्मात् तान् परिवञ्चसेऽद्य भगवन् नानार्थशास्त्रभ्रमैः मिथ्यावर्णनिबन्धनाश्रमगणश्रान्तान् वितर्कें रतान् ।तांस्तांस्तद्भवभावबोधसहितान् स्वर्गभ्रमे दुःखितान् यातायातशतेषु दुःखभवने याम्ये च दुःखोत्कटान् ॥४०॥स्वमतिमतकृतं वितत्य शास्त्रं परिनिन्दत्यनिशं विहाय वेदान् ।तव मायामयपाशबद्धकीशाः फलजालेषु वृथैव वर्धिताशाः ॥४१॥ अशनवसनमात्रसाभिलाषाः भ्रमतोऽन्योन्यमुपासकाश्च भण्डाः ।गुणखण्डहृदा वदन्ति युद्धे मधुमाद्यन्मधुपा यथैव भण्डाः ॥४२॥केचिन्मुण्डाः कुटीलजटिलाश्चक्रतप्तास्तथान्ये नग्ना बौद्धाः श्रमणनिचयास्तुङ्गलिङ्गं वहन्तः ।विप्रा वर्णाश्रमवरभरा हिंसवा स्वर्गकामाः कामारातौ विमुखहृदया ज्ञानहीना भ्रमन्ति ॥४३॥कुरङ्गा मोहान्धा मरुजलधिबुद्धयातपतपाः यथा धावन्तीश प्रशिथिलधिया तर्षितजलाः ।तथेमे मोहान्धाः हृदयदह्रे त्वामधिवप्तं भवन्तं हित्वैव प्रभवमरणैर्भ्रान्तिवशगाः ॥४४॥अभेद्यं भेद्येषु प्रकटरहृत्पद्मसदनं अविद्यातं ज्ञातं निरवधिकसच्चित्सुखचपुः ।भवन्मायामोहाद्भ्रमति परमानन्दविमुखं जलल्लोकालोकं सुसस्वरतिर्यग्गतधियम् ॥४५॥नाहं न त्वं न चेमे भव भवभवं वै गतभयः ( ? ) सदानन्दं सान्द्रं विरलमपि भेदं नहि मनाक् ।अखण्डं पिण्डाङ्गं न च भवति कार्यं च करणं न मोक्षो नो बन्धो भवति भवदालोकनवशात् ॥४६॥अनुभवमिदमेव वेदवेद्यं यदि हित्वानुभवे भवोद्भवाद्यम् ।अनुभवशतकोत्थकर्मचित्रं न हि नाशाय भवोद्भवेषु तस्य ॥४७॥शान्तं वेदवचोभिरीडितपरः स्वान्तं निशान्ते सदा चिन्तशान्तनितान्तशान्तमनसा कोहं कथं वै जगत् ।नानास्तीति विचार्य वेदनिवहैर्मुक्तः स युक्तो भवेत् तद्ध्यानेऽपि च दुर्लभो यदि भवेत् रूपं तव प्रेमकृत् ॥४८॥स्वान्तं शान्तमनन्तमव्ययमुमाकान्तं सदा चिन्तयेत् तेनैवाशु विनाशिताघनिचयो भूयात् प्रमोदाधिकः ।कामारातिपदाम्बुजार्चनरतो भस्माक्षधृड्मुक्तये ॥४९॥यावत्कायमयाय दायकमिदं कामस्य यत् सायकैः भेद्यं वेद्यशतैः चिकित्सितवयः पाके उपायैरपि ।तस्मादेवमुमासाहयमधुना ध्याये विनाश्यं सदा हायं जन्मविनाशभोगरहितो यावद् दृढाङ्गः सदा ॥५०॥धनगणगणनाविनाशकाले विगुणैवेह सदा मदाय देहे ।गणगणविनतं यदा प्रपद्ये त्रिगुणातीतगुणस्तदा मुदाऽहम् ॥५१॥शर्वाणीरमणार्चनेन हि सदा वाताद्भयं सर्गतो गर्वेणापि अखर्वपातकवरैः किं नो भयं संसृतेः ।मय्यानन्दमयोनिधौ सुरसरित्कूलाः प्रयान्त्येव ते शम्भोः शम्भुव एव पादकमलामोदैकमाद्यं मनः ॥५२॥इति सन्ततमन्तकान्तकं विमृशन्तः स्वहृदा प्रकाशमानम् ।शमितेतरसङ्गभङ्गतः स्वत एवात्र भवन्ति ते ह्यसङ्गाः ॥५३॥सूतः - गर्भे वसन्नपि शुकxxस तदा हि भर्गं स्वात्मानमेव कलयन् स जगाम् मुक्तः ॥पित्रानुरक्तदहृयेन सहातिमात्रं व्यासाय सोऽप्यखिलगः प्रददौ हि वाचम् ॥५४॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे शुकमहिम्नं ( ? ) नाम विंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP