संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - पञ्चत्रिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव पञ्चत्रिंशोऽध्यायः Translation - भाषांतर स्कन्दः - विश्वावसुश्च गन्धर्वो गानाचार्योऽभवत् पुरा । गानबन्धुः सुबन्धुश्च तथा नारदपर्वतौ ॥१॥हाहाहूहू महादेवं चिरं चिरगिरीश्वरम् । भस्मचिन्होऽर्चयामास गानस्तुत्याभितोषयन् ।रुद्रवीणापापयस्ते शिवनाम्नां सुगायनैः ॥२॥गन्धर्वाः - दक्षशिक्षविषमाक्षमनुक्षं(?) उक्षवाहमरविन्ददलाक्षम् ।मोक्षदायकसुमक्षरक्षितं कालकूटगरलात् किल देवान् ( ? ) ॥३॥वसवो ब्रह्मणा शप्तास्तेऽपि गोपर्वतेश्वरम् । समाराध्यैव मुक्ताः स्युः स्तुवन्तः पशुपं शिवम् ॥४॥वसवः - शम्भो पाहि दयाम्बुधे गतभयं संसारपारङ्गतः त्वत्पादाम्बुरुहार्चनेन भगवन् विश्वेश विश्वाधिक ।राजत्पिङ्गजटात्तसङ्ग सुमहाधामेन्दुचूडामणे गङ्गागर्वहराव्ययेश्वर महादेवेश रक्षाधुना ॥५॥तण्डुरिन्दुशकलामलमौलेरिन्दुखण्डसदृशोरुकपालम् ।भस्मपुण्ड्रनिटिलो भरिताशो वीक्ष्य नम्रशिरसा गणवर्यः ॥६॥शर्वपादकलनेन सर्वदा पापपर्वतवरैर्न बिभेति ।इन्दुचूड चरणांबुजसङ्गोऽप्यन्तरङ्गकरणे गणवर्यः ॥७॥ तण्डुः - गरधर गिरिवरशय पुरहर मुरहरशरकर कुरु करुणाम् ।सुमशरदेहविनाशक ईश्वर नरहरिकृत्तिवसान महेश ॥८॥ अश्विनौ च पुरा देवैर्निरस्तौ भिषजाविति । श्रीकण्ठेशं समाराध्याभवतां सोमभागिनौ ॥९॥अश्विनौ - कुन्दबृन्दनिभदेह इन्दुधृक् मन्दराद्रिवसतेश्वर पाहि ।इन्दुशक्तिवरहार इन्दिरानाथपूज्यपदपद्म सुन्दर ॥१०॥इन्द्रेण निकृताः सर्वे मरुतो हि महौजसः । इन्द्रेणाप्यलभंस्ते वै सोमभागं शिवार्चया ॥११॥तृणज्योतिं समाराध्य स्तुत्येशस्य कृपावशात् ॥१२॥मरुतः - यः कालकालमनिलाशनशोभिगात्रं रुद्रं त्रिनेत्रमगराजसुतार्धगात्रम् ।मित्रीकृताब्जहृदयोरुविकासमित्रं मन्त्री च यन्त्रितभवो भवतीह भावः ॥१३॥आदित्याश्चापि तपसा समाराध्य महेश्वरम् । सह्यजातीरलिङ्गेषु तुङ्गेषु नियतं सदा ॥१४॥घृतेशे पुष्पनाथे च प्रणतेशे तु वैद्यके । श्रीखण्डे तृणजक्षेत्रे वेदिकाख्ये प्रयाणके ॥१५॥जम्बुलिङ्गे मातृशैले रत्नशैल इरावृते । स्तुवन्तो दीप्ततनवोऽभवंस्ते शङ्करार्चनात् ॥१६॥आदित्याः :- यश्चन्द्रचूडचरणाम्बुजसेवनेन कालं नयेत् स हि भवेत् सुगुणालवालः ।व्यालेन्द्रमालगरलाशनरूपमाप्य कैलासमौलिषु सदा विहरत्यजस्रम् ॥१७॥रुद्राश्चैकादश पुरा समाराध्य महेश्वरम् । रुद्रसरूप्यमापन्नाः शङ्ग्करस्य प्रसादतः ॥१८॥दुर्गेशे क्षीरिणीक्षेत्रे माधव्यां सुन्दरे वने । तेजिनीविपिने कोटौ मङ्गले दक्षिणावृते ॥१९॥वैद्यनाथे विधिवने कालनाशेऽम्बिकेश्वरे । स्तुवन्तः परमां काष्ठां ते सर्वे रुद्रमूर्तयः ॥२०॥रुद्राः - यस्मात् परं न परमस्ति सुरादिसङ्घमोघाघसङ्गजभयं न भवेद्धि तस्य ।यस्यार्चनेन कलिमुक्तिपदाभिषङ्गः शाङ्गस्य लिङ्गविहितामलपूजकस्य ॥२१॥रुद्राक्षभस्मकलितामलकालकण्ठ कुण्ठीकृताघनिचयः स तु नीलकण्ठः ।वैकुण्ठपूजितपदाम्बुजशीलनेन पाठीनसध्वजकृतां न रुजं वहेत ॥२२॥पितरश्च तथान्येषु तत्र सह्योद्भवातटे । लिङ्गेषु पूजयामासुः स्तुवन्तः साम्बमीश्वरम् ॥२३॥पितरः - मुकुटतटनिबद्ध ( ? ) सोमधामोरुलिङ्गस्फुटपरिचयपूजाध्यानतो मुक्तिकान्ताम् ।कलयति सुकृतानां राशिरीशप्रसादादनुदिनगलिताघः शाम्भवः शम्भुभक्तः ॥२४॥ग्रहाद्या ऋषयश्चेमे मुनयोऽन्ये पिनाकिनम् । समभ्यर्च्य स्तुवन्तस्ते लेभिरे वांछितानि हि ॥२५॥कुम्भघोणे तथा भानुः चन्द्रो मध्यार्जुनाह्वये । मङ्गलैश्चा मायूरे बुधः श्वेताटवीतटे ॥२६॥छायावने गुरुर्देवं श्रीवांछ्य़ां भृगुरीश्वरम् । मन्दोपि कमलापुर्यां केतुर्देववने शिवम् ॥२७॥राहुर्वातपुरीनाथं ध्रुवो वै सेतुबन्धने । तथान्ये मुनयः पूर्वं भूतभव्याः सनातनाः ॥२८॥तत्रैव पूजयामासुश्चतुर्दशसु सत्तमाः । स्तुवन्तः साम्बमीशानं लेभिरे वाञ्छितानि हि ॥२९॥ग्रहादयः - जय जय महाभैरव महाभूतभूषितमूल कुण्डलिकुण्डलालङ्कृत अतिधनविलसितविद्युदतिचलदुरुतरकरवाल निखिलनिगमोपगीयमान् सुकरकर निकरपरिचयचतुरविरचितचतुरश्रृङ्गारकरकमलकलितकपाल सरसिजासनविस्तारितसमस्तव्यस्तसमस्तजगद्विस्तारसंहारसन्नद्धनिर्गणनिरवधिकपरिमाणनीहारपरिवारमरीचिवीचयपारसागरपत्नीजललुलितजटाजूटाभिराम हर दुरितहर अपराङ्गनाबोग सरागपतङ्गभङ्ग्यविततोत्तमाङ्ग भ्रूमध्यनयनमदनदमन मत्तमधुरझङ्कारसङ्काशनिजश्रृङ्ग संसरणकिङ्किणीक्कणितललित पदाहतिलीनमहीमण्डलाधाराण्डजप्रस्तूयमानताण्डवाडम्बरयुक्तारोत्कर्ष ध्वस्तदैत्यदानवसङ्घातनिरन्तरातिरित ( ? ) शान्तान्तःकरण अनवरतधाराधरध्वानगम्भीरघर्घरगलगवयफूत्कारसन्निभगहरगुहाराजीविराजमानधराधराधीशकन्यअकान्तिसंक्रान्तनिजकलेबरैकदेश अखिलजगत्यधीश महेश नमस्ते नमस्ते ॥३०॥आदौ कर्मवशादुदञ्चदखिलत्रैलोक्यमूलाङ्कुरं पञ्चोत्पल्लवितोरङ्गविभवश्रेणीसमुन्मेखलम् ।अन्ते लोचनमुद्रणाविघटनाभङ्गि प्रगल्भं महो फालेलोचनमाविरस्तु पुरतः संसारसंमोहनम् ॥३१॥आधारं चतुराननस्य करकासन्नद्धपाथास्रुतेराधेयं गिरिकन्यकाकुचतटाभोगस्य भङ्ग्याकृतेः ।आशापालकमूलपालमखिलब्रह्माण्डभाण्डस्थितेराशापाशविमोचनाय प्रणमामान्तर्मनस्तन्मह ॥३२॥सूतः - एवं लिङ्गेषु तुङ्गेष्वमरवरमहामातरो देवसङ्घा रक्षोयक्षाधिनाथा मनुमुनय इमे सह्यजापुण्यतीरे ।संपूज्य प्रमथाधि नाथमनलालङ्कारफालाक्षकं कांक्षामापुरतीव तुष्टहृदयाः शम्भोः कटाक्षङ्कुरैः ॥३३॥यल्लिङ्गार्चनमात्रतोऽखिलमहासाम्राज्यमाप्यात्र वै अन्ते मुक्तिमवाप्नुवन्ति नियतं भक्त्यैव शम्भोः पदे ।देवे देवापि(?)मोदामदमुदितधियः शान्तसंसाररागा रोगापायैर्विमुक्ता धृतभसितसितप्रेमरुद्राक्षासङ्गाः ॥३४॥एवं तेऽभिहितो हरांशमहिमा हारेषु संहारकृत् पापानां श्रुतिवीक्षणोत्तममहाहारार्चकेषु ध्रुवम् ।श्रुत्वाख्यानमुमापतिप्रियमहाभक्ताभिपुण्यर्थदं चाख्यानं श्रुतिशेखरोत्तमपदैः श्रुत्वैव तुष्टो भव ॥३५॥पुण्यैः परं शिवरहस्यमधु प्रकृष्टमीशास्यपङ्कजवरात् परिनिःसृतं यत् ।पेपीय षड्वदनषट्चरणात् सुगन्धि सन्यस्यति प्रकथयन् गणविप्रसङ्घे ॥३६॥श्रुत्वेदं पुरुषार्थसागरनिगमोपात्तं प्रकृष्टार्थदं भक्त्याख्यानमनोहरं वरचतुर्थोशं रहस्यं शिवम् ।संप्राप्नोति गणेन्द्रमुख्यपदवीं किं कामनाभिः परं नाम्ना शङ्करनामकोऽयमतुलो भक्त्याश्रृणोद्यो नरः ॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे गन्धर्वसुतण्डुप्रभृतिभिः शिवाराधनवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥॥ चतुर्थांशः समाप्तः ॥यो रुद्राक्षविभूतिभूषितवपुर्विप्र सदा हस्तकं चासक्तं शिवपूजने हि तनुते ध्याने मनः शस्तकम् ।दादाख्यः सुगृणन् शिवं च भटगोस्वामी जटामस्तकं तस्यैवामृतदायकं शिवरहस्याख्यं त्विदं पुस्तकम् ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP