संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| द्वात्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - द्वात्रिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव द्वात्रिंशोऽध्यायः Translation - भाषांतर स्कन्दः - श्रृणु त्वं मुनिशार्दूल पूर्वमाराधयन् हरम् । भगीरथोऽपि राजर्षिस्तपसा चामितद्युतिः ॥१॥कोसलेषु नृपश्रेष्ठो राजराजसमद्युतिः । दक्षिणो यजमानश्च सर्वविद्राघवो मुने ॥२॥स्व राज्यमखिलं शासत् निहतारिः सुरारिहृत् । कापिलाग्निविनिर्धूतान् सागरान् नृपसत्तमः ॥३॥उद्दिधीर्षुरमात्येषु निधाय स भुवं नृपः । हिमवच्छिखरं गत्वा तपत्ययुतमोजसा ॥४॥केदारेशं समाराध्य हिमवच्छिखराश्रयः । भस्मरुद्राक्षसंपन्नो रुद्राध्यायपरायणः ॥५॥ पञ्चाक्षरजपासक्तः सक्तो लिङ्गार्चने तदा । ऊर्ध्वबाहुः सदा पश्यन् दिवाकरमतन्द्रितः ॥६॥वर्षाणामयुतं मौनी फलपर्णाम्बुभोजनः । वाय्वाहारस्ततो राजा शोषयंस्तपसा तनुम् ॥७॥भस्मसङ्गैकसुभगो निर्जिताखिलहृत्तमः । केदारेशं समभ्यर्च्य विकालं बिल्वपल्लवैः ॥८॥धूर्पैर्दीपैश्च नैवेद्यैः षोडशैरुपचारकैः । संस्तुवन् सांबमीशानं भूरथं स भगीरथः ॥९॥तुष्टाव देवं देवेशं चन्द्रार्धकृतशेखरम् ॥१०॥राजा - इन्दुखण्डकलितामलमौलिं कुण्डलीशमणिकुण्डलगण्डम् ।चण्दपापहरणं विधिमुण्डोल्लासिपाणि कमलं शिवमीडे ॥११॥भस्मत्रिपुण्ट्रनिटिलाम्बरकृष्णराङ्काजिनं करटिचर्मधरं त्वाम् ।शूलामलोद्यतकरं शशिधामचूडमीडे शिवं गरुडवाहसुपूजिताङ्घ्रिम् ॥१२॥तत्स्तुत्या तुष्टहृदयो महादेव उवाच तम् । सांबश्चन्द्रकलामौलिर्वृषारूढः सहोमया ॥१३॥ईश्वरः - वृणु कामं नृपश्रेष्ठ तद्ददाम्यविचारितम् । तपसा तव सुप्रीतः केदाराराधनेन च ॥!४॥तदा शिववचः श्रुत्वा प्राञ्जलिर्नृपसत्तमः । प्रणम्य देवं वरदमुवाचोत्फुल्ललोचनः ॥१५॥राजा - त्वत्पदाम्बुरुहे भक्तिं कामये कामनाशन । त्वद्भक्त्या किमसाध्यं मे किञ्चैकं कांक्षते मनः ॥१६॥शाम्भवेनैव मुनिना कपिलेन महेश्वर । निर्दग्धाः सागराः पूर्वं पतङ्गा इव मन्युना ॥१७॥उद्दिधीर्षुरहं तान् वै सलिलं पावनं हर । दातुमर्हसि लोकानां पावनायाद्य शङ्कर ॥१८॥इति राज्ञो वचः श्रुत्वा तमाह परमेश्वरः ।ईश्वरः - गङ्गा त्रिपथगा चैषा तव दत्ता नृपोत्तम । वियत्तटाच्च तटिनी पतन्ती भुवि मण्डले ॥१९॥तदाज्ञया महाभाग गच्छ त्वं विगतज्वरः । इत्युक्तः शम्भुना राजा गङ्गापतनमैक्षत ॥२०॥हिमवच्छिखरे तत्र पतन्तीं तां शिवाज्ञया । तां धर्मुमीश्वरं तत्र पुनस्तुष्टाव हृष्टधीः ॥२१॥ राजा - शशिशिखिहरिबाणमीशितारं त्रिपुरयमान्धकसूदनं महेशम् ।नरहरिगजकृत्तिधारिणं महेशं शरणमुपगतोऽस्मि देवदेवम् ॥२२॥अरुणतरणिशम्बराङ्गवह्निद्युतिनयनं सुरशेखरं महेशम् ।विधिहरिविमृशोत्तमाङ्गमूलं शरणमुपगतोऽस्मि देवदेवम् ॥२३॥पुनस्तमाह देवेशः किमन्यत् कथयाधुना । वरं ददामि ते राजन् भक्त्या प्रीतोऽहमीश्वरः ॥२४॥तदा शार्वं वचः श्रुत्वा राजा प्रांञ्जलिरब्रवीत् ॥२५॥राजा - को वाऽन्यः परमेशान धर्तुं गङ्गापयोऽधुना । गङ्गाधरस्त्वमेवाद्य महादेव दयस्व मे ॥२६॥तथेति च कपर्दे तामबिभ्रच्छङ्करस्तदा । गङ्गारयावलेपं तन्निर्वीर्यमकरोत् तदा ॥२७॥गिरीन्द्रशिखराकारे तज्जटामण्डले मुहुः । भ्रमन्ती सरितां श्रेष्ठा सा वर्षाणां शतं तदा ॥२८॥अनिर्गतां तदा गङ्गां दृष्ट्वा नृतस्पदा । तुष्टाव वाग्भिर्हृष्टाभिः पुनः शङ्करमेव हि ॥२९॥राजा - भजे भवानीरमणं शिवं भवं भयापहं भीमनभोर्ध्वकेशम् ।भयानकं भर्गमुमासहायं भस्माङ्गरागं भुजगाङ्गहारम् ॥३०॥वामदेवमगजामनोहरं व्योमकेशमसमेषु दाहकम् ।सोमधामजकलोत्तममौलिं हेमदेहमुमया भजाम्यहम् ॥३१॥यममददमनं जितैककामं यमिहृत्पद्मगतं जनाधिवासम् ।फणिगणकलिताङ्ग्र्हिपाणिभूषं सितभस्मावलितत्रिपुण्ट्रजुष्टम् ॥३२॥तत्स्तुत्या तुष्टहृदयो विससर्ज तदा हरः । गङ्गां हिमवती मौलौ पतन्तीं रथतस्तदा ॥३३॥गङ्गाः - अनङ्गरिपुमीश्वरं विधिसुमौलिपाणिं हरं भुजङ्गवरहारकं मणिजरङ्गनृत्तादरम् ।महागजत्वगम्बरममरवैरिगर्वापहं कुरङ्गराशिधारिणं शरणमाशु वीक्षे शिवम् ॥३४॥गङ्गाधरान्धकरिपो प्रमथाधिनाथ श्रीविश्वनाथ करुणाकर शूलपाणे ।मां मोचयाद्य कुटिलां (?) निटिलाननाक्ष पाहि प्रसीद परमेश्वर पञ्चवक्त्र ॥३५॥तमाह विनयानम्रां गङ्गां देवस्त्रिशूलधृक् ।ईश्वरः -गच्छाधुना नृपवरं भगीरथरथानुगा । कपिलाग्निविनिर्धूतान् सागरान् प्लावयाशु वै ॥३६॥पूर्वमेवाविमुक्ते च चक्रतीर्थं कृतं भया । आनन्दवनमासाद्य याहि त्वं सरितां पतिम् ॥३७॥इत्युक्ता सा महेशेन प्राञ्जलिः प्रणनाम सा । महादेवं महानन्दं सा गङ्गाऽऽह सदाशिवम् ॥३८॥गङ्गा - वसामि त्वय्यहं शम्भो मामनुज्ञातुमर्हसि । तदा तामाह देवेशो राज्ञा गच्छ सरिद्वरे ॥२९॥सागराणां गतिं दत्वा त्वज्जलाप्लावनेन हि । अविमुक्तं समासाद्य विश्वेश्वरसमीपगा ॥४०॥आचन्द्रार्कं वहन्ती त्वं लोकं प्लवय मा शुचः । एकांशेन वसात्रैव मन्मूर्घ्नि कृतकेतना ॥४१॥तेन गङगाधरो नाम्ना भविष्यामि सरिद्वरे । स्नातानां त्वयि सारूप्यं मम दास्याम्यसंशयम् ॥४२॥इत्युक्ता शशिशेखरेण जगतां संपावने सा सरित् शम्भोर्मूर्घ्नि सदैव वासमकरोत् राजा तदा तत्र वै ।तद्भस्मारुणमण्डलं सगरजं संप्लावयन्ती ययौ पुण्यानन्दवनं तदा नृपतिना देवाज्ञया हर्षिता ॥४३॥राजापि त्रिदिवं गतान् नृपासुतान् दृष्ट्वाऽथ हृष्टोऽभवत् स्तुत्वा तां मणिकर्णिकामगसुतां दृष्ट्वान्नपूर्णामपि ।विश्वेशं शरणार्थिनां च सुखदं नत्वा च दत्वा धनं शैवेभ्यः स ययौ मुदा पुरवरं अन्ते ययौ शङ्करम् ॥४४॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे भगीरथपोगङ्गानयन - सागरमुक्ति - राजमुक्तिवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP