संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| त्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - त्रिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव त्रिंशोऽध्यायः Translation - भाषांतर स्कन्दः - विष्णुश्चापि पुरा देवैः पाद्मे कल्पे मुनीश्वर । प्रार्थितो विजयोद्युक्तः समासाद्य महेश्वरम् ॥१॥दत्यानां निधनान्वेषी शस्त्रहीनबलो हरिः । दृष्ट्वा क्षेत्राणि बहुशो देवदेवस्य शूलिनः ॥२॥ परिबभ्राम लक्ष्म्या वै गरुडेन सहादरात् । तेजिनीविपिने लिङ्गमद्राक्षीन्नेत्रमङ्गलम् ॥३॥तत्पुरूरवसा पूर्वं पूजितं दिव्यधामगम् । मुनिभिः पूजितं स्वेष्टं दृष्ट्वा सह्याद्रिजामपि ॥४॥समाहूय तदा विष्णुः संपावयितुमादरात् । सागात्तत्र समाहूता हराराधनतर्षिणा ॥५॥हरिणा हरिणाक्षी सा राजदुत्फुल्लपङ्कजा । तस्यां ससनु हरिर्भक्त्या भस्मरुद्राक्षपुण्ट्रधृक् ॥६॥ शान्तः स्वमनसा रुद्रमावर्तयदतन्द्रितः । लक्ष्मीः शिवाराधनानि ददौ तस्मै पदेपदे ॥७॥पुष्पाणि सुरभीण्येव कमलन्यमलान्यपि । स्वयं जहार पक्षीन्द्रो हरपादाम्बुजार्चने ॥८॥अन्येऽपि तद्गणास्तत्र तं सेवन्ते हरिं तदा । वर्षायुतं तपश्चर्के फलाहारोऽम्बुजेक्षणः ॥९॥सहस्रपत्रकमलैः पूजयंस्तेजिनीश्वरम् । दिव्यं धावातनोच्छम्भोः सर्वरत्नमनोहरम् ॥१०॥तस्मिन्नपचितिं शम्भोर्विस्तरेणाकरोद्धरिः । स्मृतिमात्रागतैः सर्वसंभारैः शर्वपूजकः ॥११॥क्षीरसागरसंभूतैर्घटलक्षैर्महेश्वरम् । दधिखण्डकमण्डैश्च नवोद्धृतघटीधृतैः ॥१२॥अक्षुद्रफलदैः क्षौद्रैः शर्करागिरिभिर्हरिः । नारिकेलाम्रसुरसैः रंभानिंबुभवै रसैः ॥१३॥पनसोरुमहाकोशैर्द्राक्षेक्षुरसकुम्भकैः । गन्धकर्पूरसलिलैर्वासितैश्च घटीभरैः ॥१४॥वासोभिः स्वर्णकूलैश्च परिवेष्ट्य महेश्वरम् । समभ्यषिञ्चद् द्रव्यैश्च गन्धैरामौलिपीठकम् ॥१५॥स्वर्णरत्नपरीक्लृप्तभूषणैर्भूष्य शङ्करम् । तेजिनीशं जीवितेशं पार्वत्या वै तदा हरिः ॥१६॥तगरू अगरूसारैरधूपयत शङ्करम् । दीपैः कर्पूरखण्डोत्थैः घृतोद्बुद्धैः सहस्रशः ॥१७॥ मृदङ्गमुरजापारकाहलीशङ्खमद्दलैः । वेणुवीणारवैरीशं दुन्दुभीनां महारवैः ॥१८॥तर्जिताम्भोधिनिनदैरप्सरोगणनर्तनेः । छत्रचामरपङ्क्तीभिः पताकादर्शकैरपि ॥१९॥प्रदक्षिणनमस्कारैर्बिल्वपङ्कजपूजनैः । नानाविधोद्यत्सुरभिपुष्पाणां राशिभिः शिवम् ॥२०॥नैवेद्यैर्भक्ष्यभोज्यानां राशिभिश्चान्नकल्पितैः । एवं वर्षायुतं विष्णुः त्रिकालं शङ्करार्चकः ॥२१॥तेजिनीविपिनेशानमालस्यपरिवर्जितः । संस्तुवन् परया भक्त्या लक्ष्म्या च गरुडेन च ॥२२॥विष्वक्सेनादिगणपैरुवासामरपुङ्गवैः । तादृशस्तपसो राशिर्न दृष्टो न श्रुतो मया ॥२३॥सहस्रनामभिः साम्बसम्बुजोत्फुल्ललोचनैः । अम्बुजैः पूजयामास आरक्तैः शिवहर्षदैः ॥२४॥मुनयोऽपि हरिं वीक्ष्य तपस्यन्तं सुविस्मिताः । निमीलिताक्षं घ्यायन्तमिदमूचुस्तदा वचः ॥२५॥मुनयः - कस्ते कामोऽमरश्रेष्ठ सर्वपूज्यो भवान् यतः । किं तवापि महादेवः पूज्योऽस्ति परमेश्वरः ॥२६॥इति विप्रवचः श्रुत्वा मुनीनाह हरिस्तदा ॥२७॥विष्णुः - एष ब्रह्मैष रुद्रो हरिविधिजनकः सूर्यवन्द्रानलानां वेदैर्गीतो महेशः प्रतिपदनमसां राशिभिः सर्वरुद्रः ।यद्वामाङ्गभवो हरिर्विधिरयं स्रष्टा तु दक्षाङ्गजः तन्नेत्रांबुजसम्भवो हर इति श्रुत्याभिधत्ते द्विजाः ॥२८॥तं वै कारणकारणं परशिवं लिङ्गे च तुङ्गे सदा ध्यायामि प्रतिवासरं सुविकचै रक्तांबुजैः पूजये ॥२९॥न विज्ञेयो देवः श्रुतिशिखरवाचां सुमनसां यतो जातं विश्वं विविधकरणं स्थावरचरम् ।न जानन्तीशानं मम सुपिहिता मायिकधिया यतो विश्वं मुक्त्यै प्रभवति किलेशस्य भजनैः ॥३०॥अतो मोहान्धा मां विविधजगतां कारणतया वदन्तीशानं मां विधिपिहितबुद्धया गतधियः ।भ्रमन्तीशं हित्वा जननमरणैर्भ्रान्तिविवशाः द्विजा मोहेनान्धाः पशुपतिपदाम्भोजविमुखाः ॥३१॥स कर्ता सर्वेषां प्रभुरिह जगत्कारणतया विभुर्भास्वानान्मा वपुषि परमानन्दकुहरः ।अजो जीर्यो नेता सुरवरनृतिर्यक्षु विहितो महादेवो विश्वं भुवनभवनान्तर्द्युतिकरः ॥३२॥ यमीशानं चित्ते यमितहृदयाः कारणमुमासनाथं मन्नाथं प्रथितविपयैर्विस्मितधियः ।न जानन्तीशानं हृदयदहरे संस्थितमहो श्रुतिश्रद्धाहीनाः पशुरिव हि मुग्धा विधिहताः ॥३३॥ये शङ्करार्चनरता धृतभस्मपुण्ड्रा रुद्राक्षवक्षस इमे मम पूज्यपादाः ।रुद्रानुवृत्तिपरमा वरपञ्चमन्त्रपञ्चास्यलिङ्गपरिपूजनसक्तचित्ताः ॥३४॥ते मन्मनस्यभिरताः हरपादपद्मसङ्गे रतोरुहृदया मम पूज्यशाङ्गाः ।तत्सङ्गसङ्गतमहत्पवनाणुरेणुसंस्पर्शनाच्छुचितरं मम गात्रमेतत् ॥३५॥पात्रं त्रिनेत्रपदपङ्कजपूजनाय मित्रानुरक्तहृदयाब्जविकासि पत्रम् ।चित्रं विचित्रमिदमेव सुचित्रवाक्यं वेदान्तबोधितधियोऽपि वदन्ति इत्थम् ॥३६॥स्कन्दः - इत्युक्ता हरिणा मुनीश्वरगणाः प्रोचुर्महाशांभवाः त्वत्प्रेमप्रवणानुरक्तहृदया व्याचक्ष्महे त्वद्धितम् ॥३७॥त्वं शर्वपादकमलोत्तमसङ्गचित्तो हृत्तापपापरहितो वरकर्मदेवः ।त्वादृङ्मना न हि सुरेषु महेश्वरांघ्रिपद्मोत्थभृङ्गमनसा त्वमिहासि भक्तः ॥३८॥ इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे शिवप्रभाववर्णनं नाम त्रिंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP