संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| अष्टमोध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - अष्टमोध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव अष्टमोध्यायः Translation - भाषांतर चण्डीशः - जगज्जनक शङ्कर प्रमथनाथ विश्वाधिक प्रसीद सदयाधुना भयहराव्ययेश प्रभो ।महीरथ गराशन त्रिनयनारविन्दानन तुरङ्गनिगमाधिकं मयि महाघमेतद्धर ॥१॥द्विरदरदनिकाशदेह शम्भो उरगाधीशमहोरुहार पाहि ।करिचर्माम्बर शूल एणहस्त शम्भो तटिनीचारुकलाधरोरुमौले ॥२॥उक्षाधीश्वर चारुकेतन महाविश्वाधिकेशान ते पादद्वन्द्वपयोजपूजनपरं लोके पितृघ्नं हि माम् । वीक्ष्य त्र्यक्ष दयारसार्द्रसुदृशा पाहीन्दुमौले हर वामाङ्गाम्ब महेश्वर प्रथय मां प्य्ण्यैश्च पापैर्विना ॥३॥कक्षाणां च पते रमापतिलसन्नेत्रांघ्रिपङ्केरुह त्वद्धयानामृतधारया जगदिदं संप्लावयामि द्रुतम् ।स्वन्नामोच्चरणेन भर्जितभवः पापौघपातैर्विना त्वत्पादाम्बुरुहार्चनेन भगवन् मुक्तो भवेयं त्वघैः ॥४॥ रविशशिहुतभुक्त्रिधामनेत्रो ज्वलशूलानलदग्धकालकाल ।कृतहालाहल नीलकण्ठ शम्भो परिपाहीश्वर देवसार्वभौम ॥५॥ भव भर्ग महेश भीम शङ्कर त्रिदशाधीश्वर सर्पजालमाल ।अव भव दयया रसार्द्रलोकैः परिमुक्तोऽस्म्यघतः तवेश शम्भो ॥६॥ हर हर भगवन् पुरप्रहर्तः कुरु करुणां शशीधामचूढ शम्भो ।गरधर हरिशर गिरिवाह परिपाहीश्व देवसार्वभौम ॥७॥संक्रन्दन भुजखण्डन वरतर करुणारुणाक्ष देव प्रथितामोद पदाब्ज देव शम्भो ।यमभटपटलीविदूरिताघ ज्वलधीरामरदेवसार्वभौम ॥८॥ मन्दारब्रुन्दमुनिवेदकदम्बगीत गोविन्दपूज्यपदपद्म सनन्दवद्य ।मन्दारसुन्दरससदम्बुरुहोरुमाल देव त्वमेव निखीलेन्दुकलाललाम ॥९॥अहीशमणिकुण्डलं रविजमण्डलान्तर्गतं गणेन्द्रकृतताण्डवप्रियमपारपिण्डोज्ज्वलम् ।भजामि कनकाचलोल्लसितवामहस्ताम्बुजं मुरारिशरकाण्डतोज्वलसुदक्षपाणिं भजे ॥१०॥ उरगतुरगहेषहारप्रतुष्टं घनवाहामरबृन्दसार्वभौमम् ।अजगजनिधनं प्रकृष्टनृत्तं भज फालस्फुरदुज्ज्वलत्रिपुण्ड्रम् ॥११॥ करुणावरुणालयं महेशं शरणं यामि शरण्यमीश्वरम् ।अरुणाधिपकारणं महेशं धरणीधृग्वरहारमीशितारम् ॥१२॥कुमुदकमलगन्धवाहमित्रनेत्रं दहराकाशगतं भजामि शम्भुम् ।श्रुतिशतविनुतापदानमीशं हरिपद्मासनमार्गितोत्तमाङ्गमूलम् ॥१३॥सूतः - तत्स्तुत्या तोषिथ शम्भुः भगवानगजापतिः । वृषारूढोऽम्बिकायुक्तः श्वेताद्रिशिखरोपमः ॥१४॥गणबृन्दैः परिवृतो ब्रह्मविष्ण्वादिभिः सुरैः । त्रिनेत्रो नीलकण्ठश्च जटाबद्धेन्दुखण्डधृक् ॥१५॥ कुण्डलीशमहाहारकुण्डलद्वयमण्डितः । चण्डताण्डव सन्नाह नटभृङ्गिरिटिः पुरः ॥१६॥स्तुवतां देवसंघानां जयेशेति मुहुर्मुहुः । नारदोद्गीतसुभगवीणानिक्कणसंस्तवैः ॥१७॥ छत्रचामरङ्क्तीभिः पताकाभिरलंकृतः । चण्डिकेशमथाद्राक्षीत् तदा नेत्रेण शङ्करः ॥१८॥लुठन्तं पितरं तस्य भग्नसक्थिमसृग्युतम् । असृगाक्तं तदा वीक्ष्य करुणाभिरतः शिवः ॥तद्देव्यै दर्शयामास भक्तिं तां चण्डिकेशजाम् ॥१९॥शिवः - पश्य त्वं चण्डिकेशानं करुणारसलोचनैः । मद्भक्त्या पितरं चापि हतवानयमुत्तमः ॥२०॥मद्भक्त्यैवायमधुना रक्षणीयस्त्वया शिवे । तवामृतालोकनेन समुज्जीवेत् पिताऽस्य हि ॥२१॥भग्नसक्थिश्च विप्रोऽसौ कणभद्रो महामुनिः । गाणपत्यं दिशाम्यस्मै चण्डिकेशाय सांप्रतम् ॥२२॥इत्युक्तमात्रो ( त्रे ) देवेन प्राञ्जलिः परमेश्वरम् । त्वं पितास्यथवा माता बन्धुर्भ्राता त्वमेव हि ॥२३॥नास्य भक्त्या समः कोऽपि न दृष्टो नैव विश्रुतः । कृपावलोकनाच्छम्भोः उत्थितस्तत्पिता मुनिः ॥२४॥पश्पर्श चण्डिकेशानं शन्तमेनाथ पाणिना । प्रमथाधिपतेस्तस्य पाणिस्पर्शेन सत्तमः ॥२५॥शिवसंस्पर्शनादेव स बभूव गणोत्तमः । गङ्गातरङ्गमालाढ्यः तज्जटामलमण्डनः ॥२६॥त्रिणेत्रो नीलकण्ठोद्यद्वृत्तबाहुचतुष्टयः । महाहीन्द्रमहाहारः सोमखण्डैकभूषणः ॥२७॥भस्मत्रिपुण्ट्रुद्राक्षापुण्डरीकाजिनोज्ज्वलः । सारूप्यं देवदेवस्य प्राप्यायं चण्डिकेश्वरः ॥२८॥शिवं नत्वावतस्थे स पित्रा सविनयाञ्जलिः । पुरः स्थितं च पित्रा तं महादेव उवाच ह ॥२९॥ईश्वरः - चण्डक्रोधोऽसि चण्डीश पितरं हतवानसि । चण्डिकेशेति ते नाम भविष्यति गणोत्तम् ॥३०॥अगण्यय्य पितृस्नेहं पितृत्वं श्रुतिसंमतम् । मद्भक्त्यैव हतो यस्मात् समुत्तीर्णोऽसि पापतः ॥३१॥ मातापितृगुरुद्रोहैः पञ्चपापोपपातकैः । मद्भक्तिभावयुक्तश्चेत् मुच्यते नात्र संशयः ॥३२॥भक्तानां मम पापैश्च न लेपो विद्यते गण । इत्युक्तं तत् शिवेनोक्तं श्रुत्वा तौ दम्पती तदा ॥३३॥प्रणम्य परमेशानमनुज्ञाप्यान्यमुत्तमम् । ययाचेऽन्यं सुतं स्वस्य वंशकर्तारमीश्वरात् ॥३४॥तमालिङ्ग्याथ चण्डीशं नतौ तत्राभिजग्मतुः । ततो देवेन तौ चापि प्रीत्या तत्रानुमोदितौ ॥३५॥यावत्कालं विहृत्यैव यातं कैलासमेव मे । यत्र शैव पिता वास्य जननी वा तदुद्भवाः ॥३६॥सर्वेषां मम कैलासे वास इष्टफलप्रदः । पुत्रोऽस्तु वां चण्डिकेशो गणपोऽस्तु सदा मम ॥३७॥ब्रह्मविष्णुप्रभृतिभिः पूजितः सन्निधौ मम । यत्र कुत्रालये मेऽद्य कैलासे नित्यमेव हि ॥३८॥एतस्य दर्शनेनैव फलदं दर्शनं मम । इति देववचः श्रुत्वा तावूचतुरतन्द्रितौ ॥३९॥मुनिमुनिपत्न्यावूचतुः - देवदेव करुणा वरुणाब्धे पाहि पाहि दयया तव सूनुम् ।पाहि नौ तव पदाम्बुजार्चकौ देहि वाऽन्यमपि मे कुमारकम् ॥४०॥तथेति विनयानतावनुसुगृह्य देवोऽपि तौ तमाह विनयानतं निखिलदेवमौलिः शिवः ।दयाघन दृशानया मुनिवरात्मजं सुस्थितं विलोक्य भजतामसौ भवदवार्तिनाशो हरः ॥४१॥ईश्वरः - धन्यश्चैव पिता पितामहपिता माता तथा भ्रातरः तन्मातामहपङ्क्तिरप्यतुलिता तद्बान्धवास्तत्सुताः ।एतन्मे क्षणमात्रमप्यगसुताकान्ताङ्घ्रिण्ङ्केरुहंध्यातं पूजितमन्वहं त्रिजगतां मुक्तिं ददाति ध्रुवम् ॥४२॥गोघ्नो वापि कृतघ्नतस्करवरौ मातापितृघ्नोऽपि वा नित्यं शङ्करलिङ्गपूजनमतिर्धन्यो मदन्यो न हि ।तस्मै तां वितरामि मुक्तिमतुलां वेदान्तसंघस्तुतां भुक्तिं चापि सुरेन्द्रवन्दिविनुतां भक्तिप्रभावान्मयि ॥४३॥मद्भक्तः श्वपचोऽपि वा यतिवरो लिङ्गार्चकश्चद्वरो रुद्राक्षामलभस्मपुण्ड्रनिलयो मान्यो द्विजानामसौ ।विप्रोऽप्युज्झितभक्तिसारहृदयो ज्ञेयो भुवो भारवत् विद्वान् वेदचतुष्टयोत्तममतिः पापी परं रासभः ॥४४॥धन्यो मान्योऽसि भूमौ दिविवरगपैः स्वीशपादानुरक्तः मत्पादाब्जं प्रपन्नो मम निजमहिमाधामसंस्थः सदा त्वम् ।मल्लिंगोत्तमदर्शनेऽपि फलदः त्वं चण्डपापापहः चण्डीशान भवाद्य सर्वजगतां मान्यः सदा त्वं नृणाम् ॥४५॥ इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे चण्डीशस्तुतिचण्डीशसारूप्य-गाणपत्यशिवदर्शनफलप्रदत्वादिवरदानं नामाष्टमोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP