संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| षड्विंशोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - षड्विंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव षड्विंशोऽध्यायः Translation - भाषांतर स्कन्दः - विधिर्विधिवशाद्विप्र कृत्वाऽऽगो दुष्करं पुरा । न निष्कृतिस्त्रिनेत्रस्य प्रसादेन विनास्य यत् ॥१॥ब्रह्मघ्नो मद्यपः स्तेनो गुरुतल्पगतस्तथा । तत्संयोग्युपपापाश्च कलौ ते मुक्तपातकाः ॥२॥भविष्यन्ति न निन्दन्तः शिवस्य परमात्मनः । नानिष्कृत्य विनाश्यं तदिति मत्वा प्रजापतिः ॥३॥पञ्चभूतात्मिकां सृष्टिं पञ्चकोशसमुद्भवाम् स्वात्मजेषु निवेश्याथ स तदा विधिरुल्बणम् ।निन्दनाच्छङ्करस्याप पापं दुःखं महत्तरम् ॥४॥जैगीषव्यः - कथं किमर्थं देवेशं वेदेड्यं परमेश्वरम् । निनिन्द निन्दितमनाः केन कार्येण सत्तण ॥५॥वदैतत् सविशेषेण ( ? ) स्कन्दानन्दघनाव्यय ॥६॥स्कन्दः - पूर्वमेकार्णवे घोरे पञ्चवक्त्रः प्रजापतिः । वितत्य सृष्टिमखिलां तेन गर्वेण मोहितः ॥७॥दृष्ट्वा साश्चर्यमत्युच्चैः जहासारुणलोचनः ।ब्रह्मा - मयेदं सृज्यते विश्वं कारणं जगतस्त्वहम् । प्रजापतिरहं साक्षात् कः समो मम सांप्रतम् ॥८॥इति गर्वेण संयुक्तं रुद्रं वीक्ष्याऽऽह शङ्करः ॥९॥ईश्वरः - छिन्धि तस्य शिरो रुद्र ब्रह्मणः पञ्चमं महत् । कालाग्निरुद्रो निर्देशाद्भवस्य परमात्मनः ॥१०॥ब्रह्मणश्च शिरस्तेन छिन्नं नियुतयोजनम् । तमाह पद्मजं खिन्नं प्रणष्टोरुशिरोधरम् ॥११॥मन्निन्दनाच्च संप्राप्तं ब्रह्मंस्ते पश्य तत्फलम् । इत्युक्ते देवदेवेन प्रणम्यास्तुवदीश्वरम् ॥१२॥ ब्रह्मा - शशिधामकलाललाम फालानल नीलामलकण्ठ देव शम्भो ।कृतमालतमालपुष्पमालाकलिताजैककपालशूल पाहि ॥१३॥यो देवः श्रुतिशेखरैर्मृगयते(?)जानन्ति यं वै हृदा जातं येन समस्तवास्तुविषयं यस्मै च सर्वे नताः ।यस्मान्नापरमस्ति यस्य सततं लिङ्गार्चकास्ते सुराः यस्मिन् विश्वमिदं प्रयाति च लय वन्दे पशूनां पतिम् ॥१४॥स ब्रह्मवचसा रुद्रं गतगर्वं प्रजापतिम् । उवाच वाचा प्रसभं महेशो भक्तवत्सलः ॥१५॥ईश्वरः - कपालपाणिर्हि भवानस्य ब्रह्महणो व्रतम् । द्वादशाब्दावधि सदा भस्मछन्नकलेबरः ॥१६॥रुद्रमावर्तयन् रुद्र देवलोकेषु संचर । भिक्षाशी विगतैनस्को भविष्यसि विमुक्तये ॥१७॥पतिष्यत्यवशेनैव कपालं त्वत्कारग्रतः । ब्रह्माऽप्ययं मुक्तपापो भविष्यति मदर्चनात् ॥१८॥ तच्छ्रुत्वा शाङ्करं वाक्यं प्राह रुद्रो महेश्वरम् । तव द्रोहः किंप्रकारः का वा त्वद्द्रोहिणो गतिः ॥२०॥सा केन नाशमायाति कृपया वद मे प्रभो । तदुद्रायावदच्छम्भुर्ब्रह्मणः श्रृण्वतस्तदा ॥२१॥शिवः - श्रृणु कालाग्निरुद्र त्वं ब्रह्मंस्त्वमपि सत्तम । अनिष्कृतिपरं(?)त्वेतन्मद्द्रोहाणां परम्परा ॥२२॥ब्रह्मघ्नो मुच्यते कल्पे तथान्ये तारतम्यतः । महापापोपपापेभ्यो मद्द्रोहे नैवं निष्कृतिः ॥२३॥शास्ताऽहं मोचकस्तेषां न यमो भैरवो न हि । श्रृणु द्रोहं मदीयं त्वं ब्रह्मणा दुरसत्तम ॥२४॥मद्भक्तनिन्दनं रुद्र निन्दनं द्रोह एव मे । मद्भस्मनिन्दनं रुद्र मद्द्रोहः परमो मतः ॥२५॥मदुद्राक्षमहानिन्दा मद्द्रोहः परमो मतः । त्रिपुण्ट्रधारिणां निन्दा मद्द्रोहः परमो मतः ॥२६॥रुद्राध्यायजपे निन्दा मद्द्रोहः परमो मतः । पञ्चाक्षरस्य निन्दा च अन्यमन्त्रसमत्वधीः ॥२७॥मन्नामजपनिन्दा च तथा मत्क्षेत्रवासिनाम् । अन्यक्षेत्रोपमानेन दर्शनं द्रोह एव मे ॥२८॥शिवलिङ्गस्य निन्दा च मद्द्रोहः परमो मतः । शिवलिङ्गार्चनासाम्याद्विष्णुरूपादिपूजनम् ॥२९॥मद्द्रोह एव परमः सुघोरो नरकावहः । तप्तचक्राङ्किनालापभोजनं सहभाषणम् ॥३०॥ ऊर्ध्वपुण्ट्राङ्कनं मोहात् मद्द्रोहः परमो मतः । अनुद्धूलितदेहेन अग्निरित्यादि भस्मना ॥३१॥ऊर्ध्वलिङ्गेन लिङ्गार्चा मद्द्रोहः परमो मतः । रुद्राक्षमस्मपुण्ड्राङ्कविहीनेनार्चनं मम ॥३२॥शिवालयानां तीर्थानां भेदनं द्रोह एव मे । गावो धान्यं धनं वस्त्रं घृतं तैलं तथा मधु ॥३३॥शिवोपकरणं द्रव्यं हृत्वा भक्तस्य वा विधे । अन्यधर्मेऽपि संयोज्य मद्द्रोहायैव कल्पते ॥३४॥स धर्मो धर्मनिर्मुक्तः पापायैवाशु कल्पते । मद्द्रोह एव परमः सुघोरनरकप्रदः ॥३५॥ब्रह्मविष्ण्वादिसाम्येन मयि धीर्नरकावहा । मद्भक्तस्यान्यभक्तेन सादृश्येनाभिवीक्षणम् ॥३६॥प्रदोषसोमवारेषु भूतकालाष्टमीषु च । वेदे गुरौ च वेदान्ते प्रद्वेषः शिवयोगिषु ॥३७॥दिवैव भुक्तिर्मोहेन सुघोरनरकप्रदा ॥३८॥ यथा मयोक्तं हृदि धार्यमेतत् न हि प्रकाश्यं भुवि मानुषेषु ।मद्द्रोहनिष्ठालयमेव याम्यं घ्रों परं मोहददुःखदं सदा ॥३९॥ सन्तप्तचक्रक्रकचैर्विषोल्बणै राशीविषैर्माxलसद्धृदाविलैः ।पूयैः शोणितगन्धमेदुरमहाकाकोरुस ताडनैः उत्कोशीकृतखण्डताडनमहाकुम्भादिण्ङ्कैरपि ॥४०॥सन्तप्तायसवालुकादिलुठनैर्घोरैर्वणासेचनैः क्षारैः सूचिमुखैर्विलूनमुखजापादाङ्गसन्धावपि ।मद्द्रोहप्रवणाः सदैव नरके सन्तप्तदु खौघकाः कल्पान्तेऽपि न मोचिता मम कृपालेशैः परं वर्जिताः ॥४१॥यावद्ब्रह्मपरंपरा हरिहराश्चेन्द्रा मनूनां क्रमः संप्राप्यै महौघदुःखमगजाकान्तार्चनावर्जिताः ।एवं ते निरसन्ति सन्ततमविश्रान्तैकदुःखाकुला जाने नाहमपि प्रदातुमथवा हस्तावलम्बं मम ॥४२॥का वा तेषु गतिर्भवे भवति वा नो वा कथं ते कियत् कालं वा परिवर्तितार्तरुदितैर्जानन्ति तान् नो यमाः ।मद्द्रोहो न कदापि कार्य इति मे उक्ता च धीः स्वस्तये तस्मान्मां शरणं प्रयाति यदि चेत् तद्द्रोहनाशो भवेत् ॥४३॥ इत्युक्त्वा स जगाम चारुवृषभारूढः सहांबो भवो रुद्रो नन्दवनं जगाम रभसात् पापात् तदा मोचितः ।ब्रह्मा ब्रह्मपुरे उवास नियतं ईशार्चनेनान्वितो रुद्राक्षमलभस्मपुण्ड्रनिटिलो वक्त्रैः स्तुवन् शङ्करम् ॥४४॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे ब्रह्मशिरश्छेदनशिवद्रोहनिरूपणं नाम षड्विंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP