संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
त्रयोदशोऽध्यायः

शिवाख्यः चतुर्थाम्शः - त्रयोदशोऽध्यायः

श्रीशिवरहस्यम्


जैगीषव्यः -
मृकण्डुतनयः स्कन्द कथं जिग्येऽन्तकं पुरा । महादेवप्रसादेन तन्मे कथय सांप्रतम् ॥१॥
न तृप्तिर्भगवद्भक्तचरितं श्रृण्वतो मम । भावा एव महोदारा भवपादार्चने रताः ।
अपारं सन्तरन्त्येव भवं भावेन शाङ्करे ॥२॥
सूतः -
जैगीषव्यवचः श्रुत्वा षण्मुखस्तारकान्तकः । संसारतारकं भक्तचरितं प्रावदत् तदा ॥३॥
स्कन्दः -
श्रृणु त्वं शांभवश्रेष्ठ शिपिविष्टार्चकस्य च । मृकण्डुतनयस्येदं चरितं पापनाशनम् ॥४॥
आसीत् प्रजापतिसुतो मृकण्डुर्मानसो मुनिः । कालञ्जरे गिरौ तत्र नानामुनिजनाश्रये ॥५॥
वनस्पतिमहावल्लीवेष्टितदुमसंकुले । वसन्तप्रमुखानेकऋतुभिः परिसेविते ॥६॥
मयूरहंसचक्राह्वयुतकासारसंयुते । मृगेन्द्रैर्वारणेन्द्रैश्च सृमरैश्चमैर्रयुते ॥७॥
उत्फुल्लहल्लकलसत्कुमुदोत्पलशोभिते । वनवृक्षैस्तथा सालतमालामलकावृते ॥८॥
रसालकृतमालाद्यैः भल्लमल्लातकैर्युते । नीपकेतकसिन्दूरकदम्बवकुलावृते ॥९॥
शाल्मलीश्रीफलोपेते नानावल्लीविराजिते । गोदावरीपरिसरे कृतोटजवरो मुनिः ॥१०॥
विशालाक्ष्याख्यया पत्न्या सोऽध्युवास कृताश्रमः । स तपोऽतपदत्युग्रमुग्रपादार्चने रतः ॥११॥
त्रिकालं भस्मरुद्राक्षत्रिपुण्ट्रपरिशोभितः । रुद्राध्यायजपासक्तः पञ्चाक्षरपरायणः ॥१२॥
चन्द्रचूडमहालिङ्गपूजाचञ्चुरमानसः । एवं लिङ्गं समभ्यर्च्य नित्यं स्तौति महेश्वरम ॥१३॥
मृकण्डुः -
फालाक्षाध्वरशिक्ष कक्षवसते उक्षेन्द्रकेतो हर
त्र्यक्षाक्षय्यफलप्रदाक्षविहृते मां वीक्ष्य रक्षां कुरु ।
भक्ष्यप्रायगदादिपानसमदृग्लक्ष्येऽप्यलक्ष्यो भवान्
वीक्षाशिक्षितमन्मथान्तकरिपो लीलायितास्ते सुराः ॥१४॥
असुरसुरवरैर्विमथ्यमानात् गिरिवरघर्षणतो हि सागरान्तात् ।
गरगुरुभीतिपराहतोर्जितोजोहरिविधिबलभित्प्रपन्न पाहि ॥१५॥
मुरहर शरकर हेमनगोत्तमधारक शङ्कर परिपाहि ।
तुरगायितनिगमान्तकभीतिद उरगोत्तमभूषण शंभो ॥१६॥
मधुमथनाक्षिपदाम्बुजपूजित भगणाधिपभाकृतमौले ।
सजलजलप्रदनिभगल पुरहर भवभयतारक परिपाहि ॥१७॥
इन्दुकलाधर मन्दरवस हर कुन्दसुमोत्तमनिभदेह ।
बिन्दुकलार्णवपरवरविहृते कर्णदृगन्तधराव्यय पाहि ॥१८॥
सूतः -
एवं संस्तुत्य देवेशं निनाय हायनं तदा । तस्यैवं वर्तमानस्य नारदोऽभ्यगमद्गृहान् ॥१९॥
तं विष्टंरेणानुमान्य स्वागतेनाभ्यनन्दयत् । कृतातिथ्यं च विश्रान्तं विष्टरश्रवसः सुतम् ॥२०॥
उपामन्त्र्येति होवाच मृकण्डुः प्रश्रयान्मुनिम् ।
मृकण्डुः -
कुतः समागतं ब्रह्मन् क्व वा गन्तुं मनस्तव । कौतुकेनाद्य पृच्छामि स्निग्धभावतया मुने ॥२१॥
त्वं सर्वदर्शी मुनिषु न तवाविदितं क्कचित् । इत्युक्तो मुनिना तत्र नारदो दिव्यदर्शनः ॥२२॥
कथाश्चाकथयद्ब्रह्मन् वैष्णवीश्चेन्द्रसद्मगाः । मुनीनां च नृपाणां च दैत्यासुरसमुद्भवाः ॥२३॥
नारदः -
किन्त्वेकं तव वक्ष्यामि स्निग्धत्वेनामुना मुने । नैव शोके मनः कार्यं श्रोतव्यं मे हितं वचः ॥२४॥
तव भार्या विशालाक्षी जनयिष्यति सुत्सुतम् । मुनिश्रेष्ठं महाभागं शिवपादार्चने रतम् ॥२५॥
अद्यादिनवमे मासे षोडशाब्दं च जीवति । तेन पूजय देवेशं महेशं भक्तिभावतः ॥२६॥
आयुर्दाता महादेवः सर्वश्रुतिषुय कीर्तितः । तमाराधयतात् पुत्रा तस्य मृत्युहरो हरः ॥२७॥
नैतच्च कथनीयं ते विस्रंभेनापि कस्याचित् । इत्युक्त्वा स गतः स्वैरं नारदो ब्रह्मनन्दनः ॥२८॥
ततश्च नवमे मासि तत्पत्न्यन्तर्वती तदा । सुषाव कालेन सुतं कुमारं कृत्तिका इव ॥२९॥
सर्वलक्षणसंपन्नं पित्रोरानन्ददायकम् । श्रुत्वा दृष्ट्वा मुनिं पुत्रं दत्वा दानानि शक्तितः ॥३०॥
तं पुत्रं भस्मनाऽऽलिप्य त्रिपुण्ट्राण्याचरत् तदा । ततश्च सूतिकागेहे तेनाराधयदीश्वरम् ॥३१॥
लिङ्गे जलं विल्वपत्रं तेन संपातयत् तदा । नारदस्य वचः श्रुत्वा तेन पुत्रेण वै मुनिः ॥३२॥
चक्रे नामास्य स तदा मार्कण्डेयेति सादरम् । तस्मिंस्तदा वर्धमाने बालचन्द्रमसीव हि ॥३३॥
उपनिन्ये सुतं तस्मै पञ्चाक्षरमुपादिशत् । पञ्चास्यप्रीतये तस्मै पञ्चत्वविनिवारकम् ॥३४॥
अग्निरित्यादिमन्त्रैश्च त्रिकालं धूलने रतम् । त्रियायुषैः त्रिपुण्ट्राङ्कं फाले बाह्वोश्च वक्षसि ॥३५॥
रुद्राक्षधारिणं पुत्रं रुद्राध्यायजपादग्म् । चकार नियमेनासौ सपुत्रेण मुनिस्तदा ॥३६॥
वेदानध्यजिगीष्टासौ वर्णी वर्णाश्रमोचिताः । क्रियाश्चाकारयत् तस्मात् स्वगृहे न्यवसन्मुनिः ॥३७॥
मार्कण्डेयोऽपि नियतश्चकार गुरुशासनम् । त्रिकालमर्चयन् साम्बं शिवलिङ्गें मनोहरे ॥३८॥
भस्मरुद्राक्षसंपन्नो बिल्वपत्रैः सदैव हि । संपूज्य लिङ्गं संस्तौति मार्कण्डेयः शिवं स्मरन् ॥३९॥
मार्कण्डेयः -
श्रीकालकालाय वृषध्वजाय स्कन्दार्चिताय करिचर्मधराय तुभ्यम् ।
वेदान्तबोधितपदाय सनातनाय देवोत्तमाय सततं भगवन्नमस्ते ॥४०॥
ईशाय कोशनिवहाकृतिदूरगाय भीमाय उग्रशरकार्मुकधारिणे ते ।
भस्माङ्गरागतनवे नयनाग्निलेशदग्धान्धकत्रिपुरकाम हराय तुभ्यम् ॥४१॥
उमासहायाय भवोद्भवाय मारोरुकायदहनामललोचनाय ।
व्यालेन्द्रमालगरनीलगलाय तुभ्यं विश्वाधिकाय च शिवाय सदा नमस्ते ॥४२॥
यमदलदलनाय विशालदेहजालाय भूधरशयाय पिनाकिने ते ।
वालाग्रमात्रहृदयान्तरदीपकाय शुद्धाय ज्ञानतनवे भगवन् नमस्ते ॥४३॥
एवं स संस्तुवन् देवं मार्कण्डेयो महेश्वरम् । कलाः सर्वाः स जग्राह नियतो मुनिशासनात् ॥४४॥
ईशानार्चापरो नित्यं कुशलः सर्वकर्मणि । ऊनषोडशवर्षं तं पुत्रं वीक्ष्य सुदुःखितौ ॥४५॥
पितरौ तस्य तच्चारु गुणं वीक्ष्य दिने दिने । साश्रुपातं तदेकान्ते पश्यतस्तस्य तन्मुखम् ॥४६॥
त्रिपुण्ट्रविलसत्फालं रुद्राक्षकृतकङ्कणम् । युवानं चारुसर्वाङ्गं दण्डाषाढविराजितम् ॥४७॥
आषाढार्चनसंसक्तं तुषाराट्पदभीतिदम् । तौ प्रणम्य तदा प्राह खेदकारणमेतयोः ॥४८॥
मार्कण्डेयः -
विद्यमाने मयि ब्रह्मन् माता चेयं तपस्विनी । साश्रुपातं च मां वीक्ष्य किमर्थं दुःखितौ युवाम् ॥४९॥
ब्रूत तत्कारणं मेऽद्य अपनेष्यामि तद् ध्रुवम् ॥५०॥
सूतः -
इत्युक्तं तद्वचः श्रुत्वा नारदोक्तं तदा मुनिः । पुत्रायाकथयत् सर्वं तस्य तन्मृत्युकारणम् ॥५१॥
मृकण्डुः -
कदाचिन्नारदोऽभ्यागात् गृहं मे दिव्यदर्शनः । ऊनषोडशवर्षे तु पुत्रे ते चान्तकाद्भयम् ॥५२॥
इत्युक्त्वा निर्जगामाथ देवलोकं यथागतम् । यातः पञ्चदशो वर्षः तेन खिन्नोऽस्मि मा शुचः ॥५३॥
सूतः - इत्युक्तं पितृवचनं निशाम्य हृष्टः पद्मोत्थामलसंभवस्य सूनुसूनुः ।
तौ प्राहेत्थमपारशङ्करार्चाप्रभवोत्थामलहर्षतो महात्मा ॥५४॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे मार्कण्डेयचरिते मार्कण्डेयोत्पत्ति - नारदवाक्यवर्णनं नाम त्रयोदशो‍ऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP