संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| द्वविंशोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - द्वविंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव द्वविंशोऽध्यायः Translation - भाषांतर स्कन्दः - दधीचोऽपि महायोगी हरभक्तो जितेन्द्रियः । भार्गवो धुन्धुमूकाख्यः तपस्वी द्युमणिद्युतिः ॥१॥तस्य पुत्रोऽभवद्विप्रो दधीचो बाल एव हि । उपनीतस्तदा पित्रा वेदानप्यग्रहीत् तदा ॥२॥स्वाश्रमे निवसंस्तत्र हरपादार्चने रतः । शर्यातिपुत्रो मेधावी क्षुपो नाम महाबलः ॥३॥सूर्यवंशसमुत्पन्नः पित्रा सोऽप्युपनायितः । सहाध्याय्यभवत् तस्य दधीचस्य मुनेस्तदा ॥४॥स रथेनाजगमाशु पित्रा तस्यानुमोदितः । जग्राह स मुनेः पादौ धुन्धुमूकस्य सत्तमः ॥५॥उवाच प्राञ्जलिर्वाक्यं क्षुपो नृपतनूद्भवः ।क्षुपः - अधीष्व मामपि गुरो तव पुत्रेण शाधि माम् । ब्रह्मचर्येण भवति निवस्त्यामि द्विजोत्तम् ॥६॥ओमित्युक्तेऽथ मुनिना दधीचेन सहादरात् । उवास नियतस्तत्र क्षुपः क्षत्रियनन्दनः ॥७॥धनुर्वेदं च गान्धर्वं वेदान् वेदाङ्गमेव च । सरहस्यं स जग्राह सदधीचस्तदा मुनेः ॥८॥धुन्धुमूकात् द्विजश्रेष्ठादुभावपि मुदा तदा । विप्रक्षत्रकुलोत्पन्नौ दधीचिः क्षुप एव च ॥९॥तदा गुरुकुले तत्र वर्तमानौ सवर्णिनौ । दधीचिस्तत्र तनयं नृपस्याह तदा हसन् ॥१०॥दधीचिः - भवान् स्निग्धः सहाध्यायी गुरुर्भ्राताऽहमेव ते । त्वयि शासति तद्राज्यं त्वत्पितुर्नृपनन्दन ॥।११॥तदा त्वया समेष्यामि त्वत्तः पूर्णमनोरथः । हिरण्यगोभिर्वासोमिः धनधान्यौर्मुदान्वितः ॥१२॥इत्युक्तं स दधीचस्य श्रुत्वा प्राह नृपात्मजः ॥१३॥भवता च सुखं दुःखं मम तुल्यं द्विजोत्तम । त्वया शासेऽहमतुलं स्फीतं जनपदं पितुः ॥१४॥यदुक्तं तत् त्वया विप्र तत्कर्तास्म्यविचारितम् । इत्यन्योन्यं मुदा युक्तौ दधीचिः क्षुप एव च ॥१५॥ऊषतुर्द्वादशाब्दं तौ तस्मिन् विप्राश्रमे तदा । अनुज्ञाप्य ययौ दत्वा लब्धानुज्ञौ गुरोस्तदा ॥१६॥घुन्धुमूकं दधीचस्य पितरं नृपनन्दनः । गोभिर्वासोभरैर्भूम्या रथेमैर्धनधान्यकैः ॥१७॥संपूज्य प्रययौ तत्र पितरं दधीचिनः । आलिङ्ग्य साश्रुय सस्नेहं ययौ स नृपनन्दनः ॥१८॥कदाचिल्लब्धविद्यं तं पुत्रं वीक्ष्याथ चिन्तयन् । शर्यातिः कन्यकामिष्टामुद्वाह्याथ स्वसूनवे ॥१९॥अङ्गस्यायं नृपस्याथ मालिनीं नाम नामतः । सर्वलक्षणसंपन्नां शुभे काले नृपोत्तम ॥२०॥दधीचोऽपि तदा पित्रा धून्मुमूकेन लक्षितः । लब्धविद्योऽथ जग्राह कन्यां वैरोचनस्य च ॥२१॥ मुनेर्गर्गस्य तनयां मित्राणीं नाम नामतः । कृतोद्वाहौ द्विजनृपौ लब्धपुत्रौ तदोषतुः ॥२२॥भूभृत्कुले विप्रकुले द्विजराजकुमारकौ । पितर्युपरते तौ च तपोराज्यपरायणौ ॥२३॥ कदाचिदागान्नृपतिं वीक्षितुं स दधीचकः । सखा स नृपतेः पुत्रं प्राप्तराज्यं तदा मुदा ॥२४॥दृष्ट्वा च स्बवयस्यं तं क्षुपः पूजामथातनोत् । विष्टरेणार्ध्यपादेन गामनुज्ञाप्य तं तदा ॥२५॥ऊषतुर्मुदितौ तत्र तस्मिन् नृपवरालये । प्राप्तराज्यं च नृपतेः पुत्रमाह रहोगतः ॥२६॥ दधीचिस्तपतां वर्यः तपनामलभा मुनिः ॥२७॥दधीचिः - सखे तपोवने पूर्वं पुनरुक्तं त्वया तदा । किमद्य स्मरसे राजन् आवयोः प्रसमं वचः ॥२८॥तत्तथ्यं कुरु मा हासीः सर्वे सत्ये प्रतिष्ठिताः । लोका ब्रह्मादयो देवाः ऋक्षादित्याः सचन्द्रकाः ॥२९॥परिभ्रमन्ति सत्येन अहोरात्रमतन्द्रिताः । नात्येति वेलामुदधिः भूमिः पर्वतधृक् स्वयम् ॥३०॥श्रुतिभिः कथितो राजन् ऋतं सत्यं महेश्वरः । स दधीचिवचः श्रृत्वा क्षुपो विप्रं हसंस्तदा ॥३१॥स करास्फोटमत्युच्चं गर्वपर्वतमध्यगः । यौवनोन्मादसंवीतः प्राप्तराज्यश्च भूपतिः ॥३२॥ क्षुपः - अहो द्विजस्य ते बुद्धिः दृष्ट्वा कष्टप्रदायिनी । आढ्येन न दरिद्रो वै मित्रं नाविदुषो द्विजः ॥३३॥विद्वांस्तथा श्रोत्रियेण विप्र ह्य श्रोत्रियो द्विजः । विप्राणां पश्चिमा बुद्धिरिति वार्ता गरीयसी ॥३४॥या सा लोकेषु दृष्ट्वा सा त्वयि मूढतमे मुनौ । इत्युक्तं तद्वचः श्रुत्वा सावज्ञं विप्रपुङ्गवः ॥३५॥क्रोधामर्षाश्रुनयनः तमाह नृपनन्दनम् ॥३६॥दधीचिः - धन्योऽसि कृतकृत्योऽसि यत्ते वाक्यमरुन्तुदम् । एष गच्छामि तपसा सर्वमाराधयाम्यहम् ॥३७॥सर्वं संसाधयाम्येव भुक्तिं मुक्तिं च शाश्वतीम् । त्वं चैवाल्पप्रदो मूढ राज्यगर्वेण मोहितः ॥३८॥विनश्वरं धनं तेऽद्य को हि स्वल्पे समेधते । देव्यां वीक्ष्यैव दातृत्वं तव मूढतमस्य हि ॥३९॥खण्डभूम्यधिपस्त्वं हि किञ्चिज्ज्ञः क्षत्रबन्धुमान् । भूमेर्दातारमीशानं सत्पतिं मोक्षदायकम् ॥४०॥अखण्डेन्दुकलामौलिं ब्रह्मविष्ण्वादिवन्दितम् । तमेव तपसाऽऽराध्य लप्स्ये सर्वमनोरथम् ॥४१॥ब्राह्मणानामधिपतिः शिव एव सनातनः । क्षत्रियाणां हरिः प्रोक्तः सोऽपि शङ्करकिङ्करः ॥४२॥तदर्चनेन नरकं राज्यान्ते त्वमुपाश्नुषे । किञ्चिद्विहृत्य भूमौ त्वं दुःखाधिक्यैः सुखभ्रमैः ॥४३॥अहमीशप्रसादेन भुक्तिं मुक्तिमुपाश्नुयाम् । धिक् धिक् त्वां दुष्टराजानं वयस्येऽपि सुनिर्दयम् ॥४४॥इत्युक्त्वा तं तिरस्कृत्य क्षुपं नृपवरात्मजम् । जगाम स्वाश्रमायैव दधीचिः क्रोधमर्षितः ॥४५॥भस्मरुद्राक्षसहितः त्रिपुण्ट्रोज्ज्वलमस्तकः । तपसा तोषयामास रुद्रं पञ्चाक्षरेण हि ॥लिङ्गार्चनरतः स्तौति रुद्रेण नियतं मुनिः ॥४६॥दधीचिः - उक्षाधीश्वरकेतनं त्रिभुवनाध्यक्षं सुधाधामसन्खण्डोत्तंसितलोचनश्रवणजापारोरुहारप्रियम् ।दिग्वासं वसतिप्रपञ्चहृदयागारप्रमोदास्पदं मारारातिमपारवेदशिखरैरीड्यं भजे शङ्करम् ॥४७॥हृदम्बुनचिदम्बरे दिवसनाथकोटिप्रभाविकासिकनकाम्बुजोद्भवपयोधितल्पान्तिमम् ।प्रकृष्टनयनाम्बुजप्रथितपूज्यपादाम्बुजं भजामि यमिहृत्सुधाविकसिताम्बुजोद्भासितम् ॥४८॥मुधा सुधासाधनतोऽपि देवान् खिन्नाननानुरुगरोद्धतकीलदग्धान् ।मुग्धान् सुदुग्धप्रभवोऽम्बुधेस्तटे देवानरक्षत भयेऽशरणान् शरण्यः ॥४९॥मुग्धेन्दुचूडकरुणातरणिं विहाय खद्योतवद्विधिहरीन्द्रमुखान् सुरांश्च ।सेवन्ति गाढतमसैकविनाशहेतुं मूढा हि ते दृढतरं मृडभक्तिहीनाः ॥५०॥कन्दर्पदर्पशमनार्चनजातपदर्पात् क्कायं नृपः क्क च हरिः क्क च देवसङ्घाः ।नेक्षे तं क्षितिपाधमं क्षतसुखं सापेक्षमीक्षे सदा त्र्यक्षं दक्षसुपक्षपातसुरतासन्धुक्षिताधोक्षजम् ॥५१॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे दधीचिक्षुपसंवादे दधीचितपः -शिवस्तोत्रवर्णनं नाम द्वाविंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP