द्वितीयाः पाद: - सूत्र ४२

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


उत्पत्त्यसंभवात् ॥४२॥

उत्पत्त्यसंभवा‍त् ।
येषामप्रकृतिरधिष्ठाता केवलनिमित्तकारणंमीश्चरोऽभिमतस्तेषां पक्ष: प्रत्याख्यात: ।
येषां पुन: प्रकृतिश्चाधिष्ठाता चोभयात्मकं कारणमीश्चरोऽभिमतस्तेषां पक्ष: प्रत्याख्यायते ।
ननु श्रुतिसमाश्रयणेनाप्येवंरूप एवेश्वर: प्राङ्गनिर्धारित: प्रकृतिश्चाधिष्ठाता चेति ।
श्रुत्यनुसारिणी च स्मृति: प्रमाणमिति स्थिति: ।
तत्कस्य हेतोरेष पक्ष: प्रत्याचिख्यासित इति ।
उच्यते ।
यद्यप्येवंजातीयकोंऽश: समानत्वान्न विसंवादगोचरो भवत्सस्ति त्वंशान्तरं विसंवादस्थानमित्यतस्तत्प्रत्याख्यानायारम्भ: ।
तत्र भागवता मन्यन्ते ।
भगवानेवैको वासुदेवो निरञ्जनज्ञानस्वरूप: परमार्थतत्त्वं स चतुर्धात्मानं प्रविभज्य प्रतिष्ठितो वासुदेवव्य़ूहरूपेण संकर्षणव्यूहरूपेण प्रद्युन्नव्यऊहरूपेणानिरुद्धव्यूहरूपेण च ।
वासुदेवो नाम परमात्मोच्यते ।
संकर्षणो नाम जीव: ।
प्रद्युन्नो नाम मन: ।
अनिरुद्धो नामाहङ्कार: ।
तेषां वासुदेव: परा प्रकृतिरितरे संकर्षणादय: कार्यम् ।
तमित्थंभूतं परमेश्वरं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैर्वर्षशतमिष्टवा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इति ।
तत्र यत्तावदुच्यते योऽसौ नारायण: परोऽव्यक्तात्प्रसिद्ध: प्रमात्मा सर्वात्मा स आत्मनाऽऽत्मानमनेकधा व्यूहयावस्थित इति तन्न निराक्रियते स एकधा  भवति त्रिधा भवतीत्यादिश्रुतिभ्य: परमात्मनोऽनेकधा भाव स्याधिगतत्वात् ।
यदपि तस्य भगवतोऽभिगमनादिलक्षणमाराधनमजस्रमनन्यचित्ततयाऽभिप्रेयते तदपि न प्रतिषिध्यते ।
श्रुतिस्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात् ।
यत्पुनरिदमुच्यते वासुदेवात्संकर्षण उत्पद्यते संकर्षणाच्च प्रद्युन्न: प्रद्युन्नाचानिरुद्ध इति ।
अत्र ब्रूम: ।
न वासुदेव्संज्ञकात्परमात्मन: संकर्षणसंज्ञकस्य जीवस्योत्पत्ति: संभवति ।
अनित्यत्वादिदोषप्रसङ्गात् ।
उत्पत्तिमत्त्वे हि जीवस्यानित्यत्वादयो दोषा: प्रसज्येरन् । ततश्च नैवास्य भगवत्प्राप्तिर्मोक्ष: स्यात् ।
कारणप्राप्तौ कार्यस्य प्रविलयप्रस ङ्गात् ।
प्रतिषेधिष्यति चाचार्यो जीवस्योत्पत्तिम् । नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्य इति ।
तस्मादसङ्गतैषा कल्पना ॥४२॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP