संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| द्वितीयाः पाद:| सूत्र १२ द्वितीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७ सूत्र २८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ सूत्र ३८ सूत्र ३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४ सूत्र ४५ द्वितीयाः पाद: - सूत्र १२ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १२ Translation - भाषांतर उभयथापि न कर्मातस्तदभाव: ॥१२॥उभयथापि न कर्मातस्तदभाव: ।इदानीं परमाणुकारणवादं निराकरोति । स च वाद इत्थं समुत्तिष्ठाति । पटादीनि हि लोके सावयवाइ द्रव्याणि स्वानुगतैरेव संयोगसचिवैस्तन्त्वादिभिर्दव्यैरारभ्यमाणानि दृष्टानि ।तत्सामान्येन यावत्किंचित्सावयवंतत्सर्वं स्वानुगतैरेव संयोगसचिवैस्तैस्तैर्दव्यैरारब्धमिति गम्यते ।स चायमवयवावयविविभागो यतो निवर्तते सोऽपकर्षपर्यंन्तगत: परमाणु: ।सर्वं चेदं जगाद्निरिसमुद्रादिकं सावयवं सावयवत्वाच्चाद्यन्तवत् । न चाकारणेन कार्येण भवितव्यमित्यत: परमाणवो जगत: कारणमिति कणभुगभिप्राय: ।तानीमानि चत्वारि भूतानि भूम्युदकतेज: पवनाख्यानि सावयवानुपलभ्य चतुर्विधा: परमाणव: परिकल्प्यन्ते ।कर्मणो निमित्तमभ्युपगम्येत तस्यासंभवान्नैवाणुप्वाद्यं कर्म स्यात् ।न हि तस्यामवस्थायामात्मगुण: प्रयत्न: संभवति शरीराभावात् ।शरीरप्रतिष्ठे हि मनस्यात्मन: संयोगे सत्यात्मगुण: प्रयत्नो जायते ।एतेनाभिघाताद्यपि दृष्टं निमित्तं प्रत्याख्यातव्यम् ।सर्गोत्तरकालं हि तत्सर्वं नाद्यस्य कर्मणो निमित्तं संभवति ।अथादृष्टमाद्यस्य कर्मणो निमित्तमित्युच्येत तत्पुनरात्मसमवायि वा स्यादणुसमवायि वा ।उभयथापि नादृष्टनिमित्तमणुषु कर्मावकल्पेतादृष्टस्याचेतनत्वात् ।न हयचेतनं चेतनेनानधिष्ठितं स्वतन्त्रं प्रवर्तने प्रवर्तयति वेति साङ्ख्यप्रक्रियायामभिहितम ।आत्मनश्चानुत्पन्नचैतन्यस्य तस्यामवस्थायामचेतनात्वात ।आत्मसमवायित्वाभ्युपगमाच्च नादृष्टमणुषु कर्मणो निमित्तं स्यादसंबन्धात् ।अदृष्टवता पुरुषेणास्त्यणूनां संबन्ध इति चेत्संबन्धसातत्यात्प्रवृत्तिसातत्यप्रसङ्गो नियामकान्तराभावात् ।तदेवं नियतस्य कस्यचित्कर्मनिमित्तस्याभावान्नाणुष्वाद्यं कर्म स्यात् ।कर्माभवात्तन्निबन्धन: संयोगो न स्यात् ।संयोगाभावाच्च तन्निबन्धनं व्द्यणुकादिकार्यजातं न स्यात् ।संयोगश्चाणोरण्वन्तरेण सर्वात्मना वा स्यादेकदेशेन वा ।सर्वात्मना चेदुपचयानुपपत्तेरणुमात्रत्वप्रसङ्गो दृष्टविपर्ययप्रसङ्गश्च ।प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगस्य दृष्टत्वात् ।एकदेशेन चेत्सावयवत्वप्रसङ्ग: ।परमाणूनां कल्पिता: प्रदेशा: स्युरिति चेत् ।कल्पितानामवस्तुत्वादवस्त्वेव संयोग इति वस्तुन: कार्यस्यासमवायिकारणं न स्यात ।असति चासमवायिकारणे व्द्यणुकादि कार्यद्रव्यं नोत्पद्येत ।यथा चाइद्सर्गे निमित्ताआवात्संयोगोत्पत्त्यर्थं कर्म नाणूनां संभवत्येवं महाप्रलयेऽपि विभागोत्पत्त्यर्थं कर्म नैवाणूनां संभवेत् ।न हि तत्रापि किंचिन्नियतं तन्निमित्तं दृष्टमस्ति ।अदृष्टमपि भोगप्रसिद्धयर्थं न प्रलयप्रसिद्धयर्थमित्यतो निमित्ताभावान्न स्यादणूनां संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थं वा कर्म ।अतश्च संयोगविभागाभावात्तदायत्तयो: सर्गप्रलययोरभाव: प्रसज्येत ।तस्मादनुपपन्नोऽयं परमाणुकारणवाद: ॥१२॥ N/A References : N/A Last Updated : December 06, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP