संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| द्वितीयाः पाद:| सूत्र ११ द्वितीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७ सूत्र २८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ सूत्र ३८ सूत्र ३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४ सूत्र ४५ द्वितीयाः पाद: - सूत्र ११ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ११ Translation - भाषांतर महद्दीर्घवद्वा हरस्वपरिमण्डलाभ्याम् ॥११॥प्रधानकारणवादो निराकृत: ।परमाणुकारणवाद इदानीं निराकर्तव्य: ।तत्रादौ तावद्योऽणुकारणवादिना ब्रम्हावादिनि दोष उत्प्रेक्ष्यते स प्रतिसमाधीयते ।तत्रायं वैशेषिकाणामभ्युपगम: । कारणद्रव्यसमवायिनो गुणा: कार्यद्रव्ये समानजातीयं गुणान्तरमारभन्ते शुक्लेभ्यस्तन्तुभ्य: शुक्लस्य पटस्य प्रसवदर्शनात्तद्विपर्यययादर्शनाच्च ।तस्माच्चेतनस्य ब्रम्हाणो जगत्कारणत्वेऽभ्युपगम्यमाने कार्येऽपि जगति चैतन्यं समवेयात् ।तददर्शनात्तु न चेतनं ब्रम्हा जगत्कारणं भवितुमर्हतीति । इममभ्युपगमं तदीययैव प्रक्रियया व्यभिचारयति ।महद्दीर्घवद्वा हस्वपरिमण्डलाभ्याम् ॥एषा तेषां प्रक्रिया । परमाणव: किल कंचित्कालमनारब्धकार्या यथायोगं रूपादिमन्त: पारिमाण्डल्यपरिमाणाश्च तिष्ठन्ति । ते च पश्चाददृष्टादिपुर: सरा: संयोगसचिवाश्च सन्तो व्द्यणुकादिक्रमेण कृत्स्नं कार्यजातमारभन्ते ।कारणगुणाश्च कार्ये गुणान्त्रम् ।यदा द्वौ परमाणू व्द्यणुकारभेते तदा परमाणुगता रूपादिगुणविशेषा: शुक्लादयो व्द्यणुके शुक्लादीनपरनारभन्ते ।परमाणुगुणविशेषस्तु पारिमाण्डल्यं न व्द्यणुके पारिमाण्डल्यमपरमारभते व्द्यणुकस्य परिमाणान्तरयोगाभ्युपगमात् ।अणुत्वहरस्वत्वे हि व्द्यणुकवर्तिनी परिमाणे वर्णयन्ति ।यदापि द्वे व्द्यणुके चतुरणुकमारभेते तदापि समानं व्द्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम् ।अणुत्वहरस्वत्वे तु व्द्यणुकसमवायिनी अपि नैवारभेते चतुरणुकस्य महत्त्वदीर्घत्वपरिमाणयोगाभ्युपगमात् ।यदापि बहव: परमावो बहूनि वा व्द्यणुकानि व्द्यणुकसहितो वा परमाणु: कार्यमारभते तदापि समानैषा योजना ।तदेवं यथा परमाण्प: परिमण्डलासतोऽणु हरस्वं च द्वयणुकं जायते महद्दीर्घं च त्र्यणुकादि न परिमण्डलं यथा वा व्द्यणुकादणोर्हरस्वाच्च सतो महद्दीर्घं च त्र्यणुकं जायते नाणु नो हरस्वमेवं चेतनादब्रम्हाणोऽचेतनं जगज्जनिष्यत इत्यभ्युपगमे किं तव च्छिन्नम ।अथ मन्यसे विरोधिना परिमाणान्तरेणाक्रान्तं कार्यद्रव्यं व्द्यणुकादीत्यतो नारम्भकाणि कारणगतानि पारिमाण्डल्यादीनीत्यभ्युपगच्छामि न तु चेतनाविरोधिना गुणान्तरेण जगत आक्रान्तत्वमस्ति येन कारणगता चेतना कार्ये चेतनान्तरं नारभेत । न हयचेतना नाम चेतनाविरोधी कश्चिद्रुणोऽस्ति चेतनाप्रतिषेधमात्रत्वात् ।तस्मात्पारिमाण्डल्यादिवैषम्यात्प्राप्नोति चेतनाया आरम्भकत्वमिति ।मैवं मंस्था: । यथा कारणे विद्यमानानामपि पारिमाण्डल्यादीनामनारम्भकत्वमेवंचैतन्यस्यापीत्यस्यंशस्य समानत्वात् ।न च परिमाणान्तराक्रान्तत्वं पारिमाण्डल्यादीनामनारम्भकत्वे कारणं प्राक्परिमाणान्तरारम्भात्पारिमाण्डल्यादीनामारम्भकत्वोपपत्ते: ।आरब्धमपि कार्यद्रव्यं प्राग्गुणारम्भात्क्षणमात्रमगुणं तिष्ठतीत्यभ्युपगमात् ।न च परिमाणान्तरारम्भे व्यग्राणि पारिमाण्डल्यादीनीत्यत: स्वसमानजातीयं परिमाणान्तरं नारभन्ते परिमाणान्तरस्यान्यहेतुत्वाभ्युपगमात् ।कारणबहुत्वात्कारणमहत्त्वात्प्रचयविशेषाच्च महत् ।तद्विपरीतमणु । एतेन दीर्घत्वहरस्वत्वे व्याख्याते । इति हि काणभुजानि सूत्राणि । नच सन्निधानविशेषात्कृतश्चित्कारणबहुत्वादीन्येवारभन्ते न पारिमाण्डल्यादीनीत्युच्येत द्रव्यान्तरे गुणान्तरे वारभ्यमाणे सर्वेषामेव कारणगुणानां स्वाश्रयसमवायाविशेषात् ।तस्मात्स्वभावादेव पारिमाण्डल्यादीनामनारम्भकत्वं तथा चेतनाया अपीति द्रष्टव्यम् ।संयोगाच्च द्रव्यादीनां विलक्षणानामुत्पत्तिदर्शनात्समानजातीयोत्पत्तिव्यभिचार: ।द्रव्ये प्रकृते गुणोदाहरणमयुक्तमिति चेन्न । दृष्टान्तेन विलक्शणारम्भमात्रस्य विवक्षितत्वात् ।न च द्रव्यस्य द्रव्यमेवोदाहर्तव्यं गुणस्य वा गुण एवेति कश्चिन्नियमे हेतुरस्ति । सूत्रकारोऽपि भवतां द्रव्यस्यगुणमुदाजहार प्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात्संयोगस्य पञ्चात्कं न विद्यत इति ।यथा प्रत्यक्षाप्रत्यक्षयोर्भूम्याकाशयो: समवपन्संयोगोऽप्रत्यक्ष एवं प्रत्यक्षाप्रत्यक्षेपु पञ्चसु भूतेषु समवयच्छरीरमप्रत्यक्षं स्यात् ।प्रत्यक्षं हि शरीरम् । तस्मान्न पाञ्चभौतिकमिति ।एतदुक्तं भवति । गुणश्च संयोगो द्रव्यं शरीरम् ।दृश्यते त्विति चात्रापि विलक्षणोत्पत्ति: प्रपञ्चिता ।नन्वेवं सति तेनैव तद्नतम् । नेति ब्रूम: । तत्साङख्यं प्रत्युक्तम् ।एतत्तुवैसेषिकं प्रति । नन्वतिदेशोऽपि समानन्यायतया कृत एतेन शिष्टापरिग्रहा अपि व्याख्याता इति ।सत्यमेतत् । तस्यैव त्वयं वैशेषिकप्रक्रियारम्भे तत्प्रक्रियानुगतेन निदर्शनेन प्रपञ्च: कृत: ॥११॥ N/A References : N/A Last Updated : December 06, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP