संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| द्वितीयाः पाद:| सूत्र १९ द्वितीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७ सूत्र २८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ सूत्र ३८ सूत्र ३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४ सूत्र ४५ द्वितीयाः पाद: - सूत्र १९ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १९ Translation - भाषांतर इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥१९॥इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥ यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतन: संहन्ता स्थिरो नाभ्युपगम्यते तथाप्यविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा तस्यां चोपपद्यमानायां न किंचिदपरमपेक्षितव्यमस्ति ।ते चाविद्यादयोऽविद्या संस्कारो विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णोपादानं भवो जातिर्जरा मरणं शोक: परिदेवना दु:खं दुर्मनस्तेत्येवंजातीयका इतरेतरहेतुका: सौगते समये क्वचित्संक्षिप्ता निर्दिष्टा: क्वचित्प्रपञ्चिता: ।सर्वेषामप्ययमघटीयन्त्रवदनिशमावर्तमानेऽर्थाक्षिप्त उपपन्न: संघात इति चेत् ।तन्न । कस्मात् । उत्पत्तिमात्रनिमित्तत्वात् । भवेदुपपन्न: संघातो यदि संघातस्य किंचिन्निमित्तमवगम्येत । न त्ववगम्यते । यत इतरेतरप्रत्ययत्वेऽप्यविद्यादीनां पूर्वपूर्वमुतरोऽत्तरस्योत्पत्तिमात्रनिमित्तं भवद्भवेन्न तु संघातोत्पत्ते: किंचिन्निमित्तं संभवति ।नन्वविद्यादिभिरर्थादाक्षिप्यते सङ्घात इत्युक्तम् । अत्रोच्यते ।यदि तावदयमभिप्रायोऽविद्यादय: संघातमन्तरेणात्मानमलभमाना अपेक्षन्ते संघातमिति ततस्तस्य संघातस्य निमित्तं वक्तव्यम् ।तच्च नित्येष्वप्यणुष्वभ्युपगम्यमनेष्वाश्रयाश्रयिभूतेषु च भोक्त्तृषु सत्सु न संभवतीत्पुक्तं वैशेषिकपरीक्षायाम् ।किमङ्ग पुन: क्षणिकेष्वणुषु भोक्तृरहितेष्वाश्रयाश्रयिशन्येषु वाभ्युपगम्यमानेषु संभवेत् ।अथायमभिप्रायोऽविद्यादा एव संघातस्य निमित्तमिति कथं तमेवाश्रित्यात्मानं लभमानास्तस्यैव निमित्तं स्यु: ।अथ मन्यसे संघाता एवानादौ संसारे सन्तत्यानुवर्तन्ते तदाश्रयाश्चाविद्यादय इति तदापि संघातात्संघातान्तरमुत्पद्यमानं नियमेन वा सदृशमेवोत्पद्येतानियमेन वा सदृशं विसदृशं वोत्पद्येत ।नियमाभ्युपगमे मनुष्यपुद्नलस्य देवतिर्यग्योनिनारकप्राप्त्यभाव: । प्राप्रुयात् । अनियमाभ्युपगमेऽपि मनुष्यपुद्रल: कादिचित्क्षणेन हस्ती भूत्वा देवो वा पुनर्मनुष्यो वा भवेदिति प्राप्नुयात् ।उभयमप्यभ्युपगमविरुद्धम् ।अपि च यद्भोगार्थ: संघात: स्यात्स नास्ति स्थिरो भोक्तेति तवाभ्युपगम: ।ततश्च भोगो भोगार्थ एव स नान्येन प्रार्थनीय: ।यथा मोक्षो मोक्षार्थ एवेति मुमुक्षुणा नान्येन भवितव्यम् ।अन्येन चेत्प्रार्थ्येतोभयं भोगमोक्षकालवस्थायिना तेन भवितव्यम् ।अवस्थायित्वे क्षणिकत्वाभ्युपगमविरोध: । तस्मादितरेत्रोतत्तिमात्रनिमित्तत्वमविद्यादीनां यदि भवेद्भवतु नाम न तु सङ्घात: सिध्येत् ।भोक्त्रभावादित्यभिप्राय: ॥१९॥ N/A References : N/A Last Updated : December 06, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP