द्वितीयाः पाद: - सूत्र ३४

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


एवं चात्माऽकार्त्स्न्यम् ॥३४॥

एवं चात्माऽकार्स्न्यम् ।
यथैकस्मिन्धर्मिणि विरुद्धधर्मासंभवो दोष: स्याद्वादे प्रसक्त एवमात्मनोऽपि जीवस्याकार्त्स्न्यमपरो दोष: प्रसज्येत । कथम् ।
शरीरपरिमाणो हि जीव इत्यार्हता मन्यन्ते ।
शरीरपरिमाणतायां च सत्यामकृत्स्नोऽसर्वगत: परिच्छिन्न आत्मेत्यतो घटादिवदनित्यत्वमात्मन: प्रसज्येत ।
शरीराणां चानवस्थितपरिमाणत्वान्मनुष्यजीवो मनुष्यशरीरपरिमाणो भूत्वा पुन: केनचित्कर्मविपाकेन हस्तिजन्म प्राप्नुवन्न कृत्स्नं हस्तिशरीरं व्याप्नुयात् ।
पुत्तिकाजन्म च प्राप्नुवन्न कृत्स्न:पुत्तिकाशरीरे संभीयेत ।
समान एष एकस्मिन्नपि जन्मनि कौमारयौवनस्थाविरेषु दोष: ।
स्यादेतत् । अनन्तावयवो जीवस्तस्य त एवावयवा अल्पे शरीरे संकुचेयुर्महति च विकसेयुरिति ।
तेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिविहन्यते वा न वेति वक्तव्यम् ।
प्रतिघाते तावन्नानन्तावयवा: परिच्छिन्ने देशे संमीयेरन् ।
अप्रतिघातेऽप्येकावयवदेशत्वोपपत्ते: सर्वेषामवयवानां प्रथिमानुपपत्तेर्जीवस्याणुमात्रप्रसङ्ग: स्यात् ।
अपि च शरीरमात्रपरिच्छिन्नानां जीवावयवानामानन्त्यं नोत्प्रेक्षितुमपि शक्यम् ॥३४॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP