संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| द्वितीयाः पाद:| सूत्र १ द्वितीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७ सूत्र २८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ सूत्र ३८ सूत्र ३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४ सूत्र ४५ द्वितीयाः पाद: - सूत्र १ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १ Translation - भाषांतर रचनानुपपत्तेश्च नानुमानम् ॥१॥रचनानुपपत्तेश्च नानुमानम् ।यद्यपीदं वेदान्तवाक्यानामैदम्पर्यं निरूपयितुं शास्त्रं प्रवृत्तं न तर्कशास्त्रवत्केवलाभिर्युक्तितभि: कंचित्सिद्धान्तं साधयितुं दुषयितुं वा प्रवृत्तं तथापि वेदान्तवाक्यानि व्याचक्षाणै: सम्यग्दर्शनप्रतिपक्षभूतानि साङख्यादिदर्शनानि निराक्रणीयानीति तदर्थ: पर: पाद: प्रवर्तते ।वेदान्तार्थनिर्णयस्य च सम्यग्दर्शनार्थत्वात्तन्निर्णयेन स्वपक्षस्थापनं प्रथमं कृतं तद्धयभ्यर्हितं परपक्षप्रत्याख्यानादिति ।ननु मुकुक्षूणां मोक्षसाधनत्वेन सम्यग्दर्शननिरूपणाय स्वपक्षस्थापनमेव केवलं कर्तुं युक्तं किं परपक्षनिराकरणेन परविद्वेषकरणेन ।बाढमेवम् । तथापि महाजनपरिगृहीतानि महान्ति साङ्ख्यादितन्त्राणि सम्यग्दर्शनापदेशेन प्रवृत्तान्युपलभ्य भवेत्केषांचिन्मन्दमतीनामेतान्यपि सम्यग्दर्शनायोपादेयानीत्यपेक्षा ।तथा युक्तिगाढत्वसंभवेन सर्वज्ञभाषितत्वाञ्च श्रद्धा च तेषु ।इत्यतस्तदसारतोपपदानाय प्रयत्यते ।नन्वीक्षतेर्नाशब्दं कामाच्च नानुमानापेक्षा एतेन सर्वे व्याख्याता व्याख्याता इति च पूर्वत्रापि साङ्ख्यादिपक्शप्रतिक्षेप: कृत: किं पुन: कृतकरणेनेति ।तदुच्यते । साङ्ख्यादय: स्वपक्षस्थापनाय वेदान्तवाक्यान्यप्युदाहत्य स्वपक्षानुगुण्येनैव योजयन्तो व्याचक्षते तेषां यद्वयाख्यानं तद्वयाख्यानाभासं न सम्यगव्याख्यानमित्येतावत्पूर्व कृतम् ।इह तु वाक्यनिरपेक्ष: स्वतन्त्रस्तद्युक्तिप्रतिषेण: क्रियत इत्येय विशेष: ।तत्र साङ्ख्या मन्यन्ते यथा घटशरा वादयो भेदा मुदात्मनाऽन्वीयमाना मृदात्मकसामान्यपूर्वका लोके दुष्टास्तथा सर्व ब बाहयाध्यात्मिका भेदा: सुखदु:खमोहात्मतयाऽन्वीयमाना: सुखदु:खमोहात्मकसामान्यपूर्वका भवितुमर्हन्ति ।यत्तत्सुखदु:खमोहात्मकं सामान्यं तस्त्रिगुणं प्रधानं मृद्वदचेतनं चेतनस्य पुरुषस्यार्थं साधयितुं स्वभावेनैव विचित्रेण विकारात्मना विवर्तत इति ।तथा परिमाणादिभिरपि लिङैस्तदेव प्रधानमनुमिमते ।तत्र वदाम: । यदि दृष्टान्तबलेनैवैतन्निरूप्येत नाचेतनं लोके चेतनानधिष्ठितं स्वतन्त्रं किचिद्विशिष्टपुरुषार्थनिर्वर्तनसमर्थान्विकारान्विरचयदद्दष्टम् ।गेहप्रासादशयनासनविहारभूम्यादयो हि लोके प्रज्ञावद्भि: शिल्पिभिर्यथाकालं सुखदु:खप्राप्तिपरिहारयोग्या रचिता द्दश्यन्ते ।तथेदं जगदखिलं पृथिव्यादि नानाकर्मफलोपभोगयोग्यं बाम्हामाध्यात्मिकं च शरीरादि नानाजात्यन्वितं प्रतिनियतावयवविन्यासमनेककर्मफलान्रुभवाधिष्ठानं दृश्यमानं प्रज्ञावद्भि: संभाविततमै: शिस्यिभि र्मनसाप्यालोचयितुमशक्यं सत्कथमचेतनं प्रधानं रचयेत् । लोष्टपाषाणारिष्वदष्टत्वात् । मृद्दाद्दिष्वपि कुम्भकाराद्यधिष्ठितेषु विशिष्टाकारा रचना दृश्यते तद्वत्प्रधानस्यापि चेतनान्तराधिष्ठितत्वप्रसङग: ।न च मृदाद्युपादानस्वरूपव्यपास्रयेणैव धर्मेण मूलकारणमवबारणीयं न बाम्हाकुम्भकारादिव्यपाश्रयेणेति किंचिन्नियामकमस्ति ।न चैवं सति किञ्चिद्विरुध्यते प्रत्युत श्रुतिरनुगृहयते चेतनकारणसमर्पणात् ।अतो रचनानुपपत्तेश्च हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति ।अन्वयाद्यनुपपत्तेश्चेति चशब्देन हेतोरसिद्बिं समुच्चिनोति ।न हि बाहयाध्यात्मिकानां भेदानां सुखदु:खमोहात्मकतयाऽन्वय उपपद्यते सुखादीनां चान्तरत्वप्रतीते: शब्दादीनां चातद्रूपत्वप्रतीतेस्तन्निमित्तत्वप्रतीतेश्च ।शब्दाद्यविशेषेऽपि च भावनाविशेषात्सुखादिविशेषोपलब्धे: ।तथा परिमितानां भेदानां मूलाङकुरादीनां संसर्गपूर्वकत्वं दृष्टवा बाहयाध्यात्मिकानां भेद्दानां परिमितत्वात्संसर्गपूर्वकत्वमनुमिमानस्य सत्त्वरजस्तमसामपि संसर्ग पूर्वकत्मप्रसङ्ग: परिमितत्वाविशेषात् ।कार्यकारणभावस्तु प्रेक्षापूर्वकनिर्मितानां शय नासनादीनां दृष्ट इति न कार्यकारणभावादबाहयाध्यात्मिकानां भेआनामचेतनपूर्वकत्वं कक्यं कल्पयितम् ॥१॥ N/A References : N/A Last Updated : December 06, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP