द्वितीयाः पाद: - सूत्र ३६

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अन्त्यावस्थितेश्चोभयनित्यत्वादविशेष: ॥३६॥

अन्त्यावस्थितेश्चोभयनित्यत्वादविशेष: ।
अपि चान्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नित्यत्वमिष्यते जैनै: ।
तद्वत्पूर्वयोरप्यद्यमध्यमयोर्जीवपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषप्रसङ्ग स्यात् ।
एकशरीरपरिमाणतैव स्यान्नोपचितापचितशरीरान्तरप्राप्ति: ।
अथवान्त्यस्य जीवपरिमाणस्यावस्थितत्वात्पूर्वयोरप्यवस्थयोरवस्थितपरिमाण एव जीव: स्यात्तततश्चाविशेषेण सर्वदैवाणुर्महान्वा जीवोऽभ्युपगन्तव्यो न शरीरपरिमाण: ।
अतश्च सौगतवदार्हतमपि मतमसङगतमित्युपेक्षितव्यम् ॥३६॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP