संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| द्वितीयाः पाद:| सूत्र १७ द्वितीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७ सूत्र २८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ सूत्र ३८ सूत्र ३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४ सूत्र ४५ द्वितीयाः पाद: - सूत्र १७ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १७ Translation - भाषांतर अपरिग्रहाच्चात्यन्तमपेक्षा ॥१७॥अपरिग्रहाच्चात्यन्तपेक्षा ।प्रधानकारणवादो वेदविद्भिरपि कैश्चिन्न्मन्वादिभि: सत्कार्यत्वाद्यंशोअजीवनाभिप्रायेणोपनिबद्ध: ।अय़ं तु परमाणुकारणवादो न कैश्चिदपि शिष्टै: केनचिदप्यंशेन परिगृहीत इत्यत्यन्तमेवानादरणीयो वेदवादिभि: ।अपि च वैशेषिकास्तन्त्रार्थभूतान्षट पदार्थान्द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यानत्यन्तभिन्नान्भिन्नलक्षणानभ्युपगच्छन्ति यथा मनुष्योऽश्व: श इति ।तथात्वं चाभ्युपगम्य तद्विरुद्धं द्रव्याधीनत्वं शेषाणामभ्युपगच्छन्ति । तन्नोपपद्यते ।कथं यथा हि लोके शशकुशपलाशाप्रभृतीनामत्यन्तभिन्नानां सतां नेतरेतराधीनत्वं भवत्येवं द्रव्यादीनामप्यत्यन्तभिन्नत्वान्नैव द्रव्याधीनत्वं गुणादीनां भवितुमर्हति ।अथ भवति द्रव्याधीनत्वं गुणादीनां ततो द्रव्यभावे भावाद्द्रव्याभावेऽभावाद्द्रव्यमेव संस्थानादिभेदादनेकशाब्दप्रत्यय़भाग्भवति ।यथा देवदत्त एक एव सन्नवस्थान्तरयोगादनेकशब्दप्रत्ययभाग्भवति तद्वत् ।तथा सति सांख्यसिद्धान्तप्रसङ्ग: स्वसिद्धान्तविरोधश्चापद्येयाताम् ।नन्वग्निधूमौयोरन्यत्वं निश्चीयते ।इह तु शुक्ल: कम्बलो रोहिणी धेनुर्नीलमुत्पलमिति द्रव्यस्यैव तस्य तस्य तेन तेन विशेषेण प्रतीयमानत्वान्नैव द्रव्यगुणयोरग्निधूमयोरिव भेदप्रतीतिरस्ति ।तस्माद्द्रव्यात्मकता गुणस्य ।एतेन कर्मसामान्यविशेषसमवायानां द्रव्यात्मकता व्याख्याता ।गुणादीनां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति यद्युच्येत तत्पुनरयुतसिद्धत्वमपृथग्देशत्वं वा स्यादपृथक्कालत्वं वाऽपृथक्स्वभवत्वं वा ।सर्वथापि नोपपद्यते । अपृथग्देशत्वे तावत्स्वाभ्युपगमो विरुध्येत । कथम् । तन्त्वारब्धो हि पटस्तन्तुदेशोऽभ्युपगम्यते न पटदेश: ।पटस्य तु गुणा: शुक्लादय: पटदेशा अभ्युपगम्यन्ते न तन्तुदेशा: ।तथा चाहु" - द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् - इति । तन्तवो हि कारणद्रव्याणि कार्यद्रव्यं पटमारभन्ते तन्तुगताश्च गुणा: शुक्लादय: कार्यद्रव्ये पटे शुक्लदिगुणान्तरमारभन्ते - इति हि तेऽभ्युपगच्छन्ति ।सोऽभुपगमो द्रव्यगुणयोरपृथग्देशत्वेऽभ्युपगम्यमाने बाध्येत ।अथापृथक्कालत्वमयुतसिद्धत्वमुच्येत सव्यदक्षिणयोरपि गोविषाणयोरयुतसिद्धत्वं प्रसज्येत ।तथाऽपृथस्वभावत्वे त्वयुतसिद्धत्वे न द्रव्यगुनयोरात्मभेद: संभवति । तस्य तादात्म्येनैव प्रतीयमानत्वात् ।युतसिद्धयो: संबन्ध: संयोगोऽयुतसिद्धयोऽस्तु समवाय इत्ययमभ्युपगमो मृषैव तेषाम ।प्राक्सिद्धस्य कार्यात्कारणस्यायुतसिद्धत्त्वानुपपत्ते: ।अथान्यतरापेक्ष एवायमभ्युपगम: स्यादयुतसिद्धस्य कार्यस्य कारणेन संबन्ध: समवाय इति ।एवमपि प्रागसिद्धस्यालब्धात्मकस्य कार्यस्य कारणेन संबन्धो नोपपद्यते ।द्वयायत्तत्वात्संबन्धस्य । सिद्धं भूत्वा संबध्यत इति चेत् ।प्राक्कारणसंबन्धात्कार्यस्य सिद्धावभ्युपगम्यमानायामयुतसिद्धयभावात्कार्यकारणयो: संयोगविभागौ न विद्येते इतीदं दुरुक्तं स्यात् ।यथा चोत्पन्नमात्रस्याक्रियस्य कार्यद्रव्यस्य विभुभिराकाशादिभिर्द्रव्यान्तरै: संबन्ध: संयोग एवाभ्युपगम्यते न समवाय एवं कारणद्रव्येणापि संबन्ध: संयोग एव स्यान्न समवाय: ।नापि संयोगस्य समवायस्य वा संबन्धस्य संबन्धिव्यतिरेकणोस्तित्वे किंचित्प्रमाणमस्ति ।संभन्धिसब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययदर्शनात्तयोरस्तित्वमिति चेत् । न ।एकत्वेऽपि स्वरूपबाहयरूपापेक्षयाऽनेकशब्दप्रत्ययदर्शनात् ।यथैकोऽपि सन्देवदत्तो लोके स्वरूपं संबन्धिरूपं चापेक्ष्यानेकसब्दप्रत्ययभाग्भवति मनुप्यो ब्राम्हाण: श्रोत्रियो वदान्यो बालो युवा स्थविर: पिता पुत्र: पौत्रो भ्राता जामातेति यथा चैकापि सती रेखा स्थानान्यत्वेन निवेश्यमानैकदशशतसहस्रादिशब्दप्रत्ययभेदमनुभवति तथा संबन्धिनोरेव संबन्धिशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययार्हत्वं न व्यतिरिक्तवस्त्वस्तित्वेनेत्युपलब्धिलक्षणप्राप्तस्यानुपलब्धेरभावो वस्त्वन्तरस्य ।नापि संबन्धिविषयत्वे संबन्धशब्दप्रत्यययो: सन्ततभावप्रसङ्ग: ।स्वरूपबाहयरूपापेक्षयेत्युक्तोत्तरत्वात् ।तथाण्वात्ममनसामप्रदेशत्वान्न संयोग: संभवति ।प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगदर्शनात् ।कल्पिता: प्रदेशा अण्वात्ममनसां भविप्यन्तीति चेत् । न ।अविद्यमानार्थकल्पनायां सर्वार्थसिद्धिप्रसङगात् ।इअयानेवाविद्यमानो विरुदवोऽविरुदवो वाऽथं: कल्पनीयो नातोऽधिक इति नियमहेत्वभावात् ।कल्पनायाश्च स्वायत्तत्वात्प्रभृतत्वसंभवाच्च ।न च वैशेषिकै: कल्पितेभ्य: षडभ्य: पदार्थेभ्योऽन्येऽधिका: शतं सहस्रं वाऽर्था न कल्पयितव्या इति निवारको हेतुरस्ति ।तस्माद्यस्मै यस्मै यद्यद्रोचते तत्तत्सिध्येत ।कश्चित्कृपालु: प्राणिनां दु:खबहुल: संसार एव मा भूदिति कल्पयेत ।अन्यो वा व्यसनी मुक्तानामपि पुनरुत्पत्तिं कल्पयेत् ।कस्तयोर्निवारक: स्यात् । किंचान्यत् ।द्वाभ्यां परमाणुभ्यां निरवयवाभ्यां सावयवस्य व्द्यणुकस्याकाशेनेव संश्लेषानुपपत्ति: ।न हयाकाशास्य पृथिव्यादीनां व जतुकाष्ठावत्संश्लेषोऽस्ति ।कार्यकारणद्रव्ययोराश्रिताश्रयभावोऽन्यथा नोपपद्यत इत्यवश्यं कल्प्य: समवाय इति चेत् । न ।इतरेतराश्रयत्वात् । कार्यकारणयोर्हि भेदसिद्धावाश्रिताश्रयभावसिद्धिराश्रिताश्रयभावसिद्धौ च तयोर्भेदसिद्धि: कुण्डबदरवदितीतरेतराश्रयता स्यात ।न हि कार्यकारणयोर्भेद आश्रिताश्रयभावो वा वेदातवादिभिरभ्युपगम्यते ।कारणस्यैव संस्थानमात्रं कार्यमित्यभ्युपगमात् । किंचान्यत् ।परमाणूनां परिच्छिन्नत्वाद्यावत्यो दिश: षडष्टौ दश वा तावद्भिरवयवै: सावयवास्ते स्यु: सावयवत्वादनित्याश्चेति नित्यत्वनिरवयवत्वाभ्युपगमो बाध्येत । यांस्त्वं दिग्भेदभेदिनोऽवयवान्कल्पयसि त एव परमाणव इति चेत् । न ।स्थूलसूक्ष्मतारतम्यक्रमेणापरमकारणाद्विनाशोपपत्ते: । यथा पृथिवी व्द्यणुकाद्यपेक्षया स्थूलतमा वस्तुभूताऽपि विनश्यति तत: सूक्ष्मं च पृथिव्येकजातीयकं विनश्यति ततो व्द्यणुकं तथा परमाणवोऽपि पृथिव्येकजातीयकत्वाद्विनश्येयु: ।विनश्यन्तोऽप्यवयवविभागेनैव विनश्यन्तीति चेत् । नायं दोष: ।यतो घृतकाठिन्यविलयन वदपि विनाशोपपत्तिमवोचाम । यथा हि घृतसुवर्णादीनामविभज्यमानावयवानामप्यग्निसंयोगाद्द्रवभावापत्त्या काठिन्यविनाशो भवत्येवं परमाणूनामपि परमकारणभावापत्त्या मूर्त्यादिविनाशो भविष्यति ।तथा कार्यारम्भोऽपि नावयवसंयोगेनैव केवलेन भवति ।क्षीरजलादीनामन्तरेणाप्यवयवसंयोगान्तरं दधिहिमादिकार्यारम्भदर्शनात् ।तदेवमसारतरर्कसंदृब्धत्वादीश्चरकारणश्रुतिविरुद्धत्वाच्छुतिप्रवणैश्च शिष्टैर्मन्वादिभिरपरिगृहीतत्वादत्यन्तमेवानपेक्षाऽस्मिन्परमाणुकारणवादे कार्या श्रेयोऽर्थिभिरिति वाक्यशेष: ॥१७॥ N/A References : N/A Last Updated : December 06, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP