संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| द्वितीयाः पाद:| सूत्र ४१ द्वितीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७ सूत्र २८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ सूत्र ३८ सूत्र ३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४ सूत्र ४५ द्वितीयाः पाद: - सूत्र ४१ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ४१ Translation - भाषांतर अन्तवत्त्वमसर्वज्ञता वा ॥४१॥अन्तवत्त्वमसर्वज्ञता वा ।इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्चरस्य ।स हि सर्वज्ञस्तैरभ्युपगभ्यतेऽनन्तश्च ।अनन्तं च प्रधानमनन्ताश्च पुरुषा मिथो भिन्न अभ्युपगम्यन्ते ।तत्र सर्वज्ञेनेश्वरेण प्रधानस्य पुरुषाणामात्मनश्चेयत्ता परिच्छिद्येत वा न वा परिच्छिद्येत उभयथापि दोषोऽनुषक्त एव । कथम् ।पूर्वस्मिंस्तावद्विकल्प इयत्ता परिच्छिन्नत्वात्प्रधानपुरुषेश्वराणामन्तवत्त्वमवश्यंभावि ।एवं लोके दृष्टत्वात् । यद्वि लोक इयत्तापारीच्छिन्न वस्तु पटादि तदन्तवद्दृष्टं तथा प्रधानपुरुषेश्वरत्रयमपीयत्तापारीच्छिन्नत्वादन्तवत्स्यात् ।संख्यापरिमाणं तावत्प्रधानपुरुषेश्वरत्रयरूपेण परिच्छिन्नम् ।स्वरूपपरिमाणमपि तद्नतमीश्वरेण परिच्छिद्येतेति ।पुरुषगता च महासंक्या ।ततश्चेयत्तापरिच्छिन्नानां मध्ये ये संसारान्मुच्यन्ते तेषां संसारोऽन्तवान्त्संसारित्वं च तेषामन्तवत् ।एवमितरेष्वपि क्रमेण मुच्यमानेषु संसारस्य संसारिणां चान्तवत्त्वं स्यात् ।प्रधानं च सविकारं पुरुषार्थमीश्चरस्याधिष्ठेयं संसारित्वेनाभिमतं तच्छून्यतायामीश्वर: किमधितिष्ठेत् ।किंविषये वा सर्वज्ञतेश्वरते स्याताम् ।प्रधानपुरुषेश्वराणां चैवमन्तवत्त्वे सत्यादिमत्त्वप्रसङ्ग: ।आद्यन्तवत्त्वे च शून्य़वादप्रसङ्ग: ।अथ मा भॄदेष दोष इत्युत्तरो ।विकल्पोऽभ्युपगम्येत न प्रधानस्य पुरुषाणामत्मनश्चेयत्तेश्वरेण परिच्छिद्यत इति ।तत ईश्वरस्य सर्वज्ञत्वाभ्युपगमहानिरपरो दोष: प्रसज्येत ।तस्मादप्यसङ्गतस्तार्किकपरिगृहीत ईश्वरकारणवाद: ॥४१॥ N/A References : N/A Last Updated : December 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP