द्वितीयाः पाद: - सूत्र ३८

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


संबन्धानुपपत्तेश्च ॥३८॥

संबन्धानुपपत्तेश्च ।
पुनरप्यसामञ्जस्यमेव ।
न हि प्रधानपुरुषव्यतिरिक्त ईश्वरोऽन्तरेण संबन्धं प्रधानपुरुषयोरीशिता ।
न तावत्संयोगलक्षण: संबन्ध: संभवति प्रधानपुरुषेश्वराणां सर्वगतत्वान्निरवयवत्वाच्च ।
नापि समवायलक्षण: संबन्ध आश्रयाश्रयिभावानिरूपणा‍त् ।
नाप्यन्य: कश्चित्कार्यगम्य: संबन्ध: शक्यते कल्पयितुं कार्यकारणभावस्यैवाद्याप्यसिद्धत्वात् ।
ब्रम्हावादिन: कथमिति चेत् । न ।
तस्य तादात्म्यलक्षणसंभन्धोपपत्ते: ।
अपि चागमबलेन ब्रम्हावादी कारणादिस्वरूपं निरूपयतीति नावश्यं तस्य यथादृष्टमेव सर्वमभ्युपगन्तव्यमिति नियमोऽस्ति ।
परस्य तु दृष्टान्तबलेन कारणादिस्वरूपं निरूपयतो यथादृष्टमेव सर्वमभ्युपगन्तव्यमित्ययमस्त्यतिशय: ।
परस्यापि सर्वज्ञप्रणीतागमसद्भावात्समानमागमबलमिति चेत् । न ।
इतरेतराश्रयत्वप्रसङ्गादागमप्रत्ययात्सर्वज्ञत्वसिद्धि: सर्वज्ञप्रत्ययाच्चागमसिद्धिरिति ।
तस्मादनुपपन्ना सांख्ययोगवादिनामीश्चरकल्पना ।
एवमन्यास्वपि वेदबाहयास्वीश्वरकल्पनासु यथासंभवमसामञ्जस्यं योजयितव्यम् ॥३८॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP