संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ६९

मध्यम भागः - अध्यायः ६९

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


सूत उवाच
यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः ।
विस्तरेणानुपूर्व्या च गदतो मे निबोधत ॥१॥

यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः ।
सहस्रजिदथ श्रेष्ठः क्रोष्टुर्नीलोञ्जिको लघुः ॥२॥

सहस्रजित्सुतः श्रीमाञ्छतजिन्नाम पार्थिवः ।
शतजित्तनयाः ख्यातस्त्रयः परमधार्मिकाः ॥३॥

हैहयश्च हयस्छैव राजा वेणु हयस्तथा ।
हैहयस्य तु दायादो धर्मनेत्र इति श्रुतः ॥४॥

धर्मनेत्रस्य कुन्तिस्तु संक्षेयस्तस्य चात्मजः ।
संज्ञेयस्य तु दायादो महिष्मान्नाम पार्थिवः ॥५॥

आसीन्महिष्मतः पुत्रो भद्रमेनः प्रतापवान् ।
वाराणस्यधिपो राजा कथितः पूर्व एव हि ॥६॥

भद्र सेनस्य दायादो दुर्मदो नाम पार्थिवः ।
दुर्मदस्यसुतो धीमान्कनको नाम विश्रुतः ॥७॥

कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः ।
कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च ॥८॥

कृतौजाश्च चतुर्थोऽभूत्कृतवीर्यात्मजोर्ऽजुनः ।
जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः ॥९॥

स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।
दत्तमाराधयामास कार्त्तवीर्योऽत्रिसंभवम् ॥१०॥

तस्मै दत्तो वरान्प्रादाच्च तुरो भूरितेजसः ।
पूर्वं बाहुसहस्रं तु स वव्रे प्रथमं वरम् ॥११॥

अधर्मं ध्यायमानस्य सहसास्मान्निवारणम् ।
धर्मेण पृथिवीं जित्वा धर्मेणैवानुपालनम् ॥१२॥

संग्रामांस्तु बहुञ्जित्वा हत्वा चारीन्सहस्रशः ।
संग्रामे युध्यमानस्य वधः स्यात्प्रधने मम ॥१३॥

तेनेयं पृथिवी कृत्स्ना सप्तद्वीपा सपत्तना ।
सप्तोदधिपरिक्षिप्ता क्षत्रेण विधिना जिता ॥१४॥

तस्य बाहुसहस्रं तु युध्यतः किलयोगतः ।
योगो योगेश्वरस्येव प्रादुर्भवति मायया ॥१५॥

तेन सप्तसु द्वीपेषु सप्तयज्ञशतानि वै ।
कृतानि विधिना राज्ञा श्रूयते मुनिसत्तमाः ॥१६॥

सर्वे यज्ञा महाबाहोस्तस्यामन्भूरितेजसः ।
सर्वे काञ्चनवेदीकाः सर्वे यूपैश्च काञ्चनैः ॥१७॥

सर्वैर्देवैर्महाभागै र्विमानस्थैरलङ्कृताः ।
गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥१८॥

तस्य राज्ञो जगौ गाथां गन्धर्वो नारदस्तदा ।
चरितं तस्य राजर्षेर्महिमानं निरीक्ष्य च ॥१९॥

न नूनं कार्त्तवीर्यस्य गतिं यास्यन्ति मानवाः ।
यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥२०॥

द्वीपेषु सप्तसु स वै धन्वी खड्गी शारासनी ।
रथी राजा सानुचरो योगाच्चैवानुदृश्यते ॥२१॥

अनष्टद्रव्यता चासीन्न क्लेशो न च विभ्रमः ।
प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षितः ॥२२॥

पञ्चाशीतिसहस्राणि वर्षाणां स नराधिपः ।
स सर्वरत्नभाक्स म्राट्चक्रवर्ती बभूव ह ॥२३॥

स एष पशुपालोऽभूत्क्षेत्रपालस्तथै व च ।
स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनोऽभवत् ॥२४॥

स वे बाहुसहस्रेण ज्याघातकठिनेन च ।
भाति रश्मिसहस्रेण शारदेनैव भास्करः ॥२५॥

स हि नागसहक्रेण माहिष्मत्यां नराधिपः ।
कर्कोटकसभां जित्वा पुरीं तत्र न्यवेशयत् ॥२६॥

स वै वेगं समुद्रस्य प्रावृट्कालेंबुजेक्षणः ।
क्रीडन्नेव सुखोद्विग्नः प्रावृट्कालं चकार ह ॥२७॥

लुलिता क्रीडता तेन हेमस्रग्दाममालिनी ।
ऊर्मिमुक्तार्त्तसन्नादा शङ्किताभ्येति नर्मदा ॥२८॥

पुरा भुज सहस्रेण स जगाहे महार्मवम् ।
चकारोद्वृत्तवेलं तमकाले मारुतोद्धतम् ॥२९॥

तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ ।
भवन्ति लीना निश्चेष्टाः पातालस्था महासुराः ॥३०॥

चूर्णीकृतमहावीचिलीनमीनमहाविषम् ।
पतिताविद्धफेनौघमावर्त्तक्षिप्तदुस्सहम् ॥३१॥

चकार क्षोभयन्राजा दोःसहस्रेण सागरम् ।
देवासुरपरिक्षिप्तं क्षीरोदमिव सागरम् ॥३२॥

मन्दरक्षोभणभ्रान्तममृतोत्पत्ति हेतवे ।
सहसा विद्रुता भीता भीमं दृष्ट्वा नृपोत्तमम् ॥३३॥

निश्चितं नतमूर्द्धानो बभूवुश्च महोरगाः ।
सायाह्ने कदलीखञ्च निवातेस्तमिता इव ॥३४॥

ज्यामारोप्य दृढे चापे सायकैः पञ्चभिः शतैः ।
लङ्केशं मोहयित्वा तु सबलं रावणं बलात् ॥३५॥

निर्जित्य वशमानीय माहिष्मत्यां बबन्ध तम् ।
ततो गत्वा पुलस्त्यस्तमर्जुनं च प्रसाधयत् ॥३६॥

मुमोच राजा पौलस्त्यं पुलस्त्येना नुयाचितः ।
तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ॥३७॥

युगान्तेंबुदवृन्दस्य स्फुटितस्याशनेरिव ।
अहो मृधे महावीर्यो भार्गवस्तस्य योऽच्छिनत् ॥३८॥

मृधे सहस्रं बाहुनां हेमतालवनं यथा ।
तृषितेन कदाचित्स भिक्षितश्चित्रभानुना ॥३९॥

सप्तद्वीपांश्चित्रभानोः प्रादद्भिक्षां विशांपतिः ।
पुराणि घोषान्ग्रामांश्च पत्तनानि च सर्वशः ॥४०॥

जज्वाल तस्य बाणेषु चित्राभानुर्दिधक्षया ।
स तस्य पुरुषेन्द्रस्य प्रतापेन महायशाः ॥४१॥

ददाह कार्त्तवीर्यस्य शैलांश्चापि वनानि च ।
स शून्यमाश्रमं सर्वं वरुणस्यात्मजस्य वै ॥४२॥

ददाह सवनाटोपं चित्रभानुः स हैहयः ।
यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम् ॥४३॥

वसिष्ठनामा स मुनिः ख्यात आपव इत्युत ।
तत्रापवस्तदा क्रोधादर्जुनं शप्तवान्विभुः ॥४४॥

यस्मान्नवर्जितमिदं वनं ते मम हैहय ।
तस्मात्ते दुष्करं कर्म कृतमन्यो हनिष्यति ॥४५॥

अर्जुनो नाम कैन्तेयः स च राजा भविष्यति ।
अर्जुनं च महावीर्यो रामः प्रहरतां वरः ॥४६॥

छित्त्वा बाहुसहस्रं वै प्रमथ्य तरसा बली ।
तपस्वी ब्राह्मणश्चैव वधिष्यति महाबलः ॥४७॥

तस्य रामस्तदा ह्यासीन्मृत्युः शापेन धीमतः ।
राज्ञा तेन वरश्चैव स्वयमेव वृतः पुरा ॥४८॥

तस्य पुत्रशतं त्वासीत्पञ्च तत्र महारथाः ।
कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः ॥४९॥

शूरश्च शूरसेनश्च वृषास्यो वृष एव च ।
जयध्वजो वंशकर्त्ता अवन्तिषु विशांपतिः ॥५०॥

जयध्वजस्य पुत्रस्तु तालजङ्घः प्रतापवान् ।
तस्य पुत्रशतं त्वेवं तालजङ्घा इतिश्रुतम् ॥५१॥

तेषां पञ्च गणाः ख्याता हैहयानां महात्मनाम् ।
वीतिहोत्राश्च संजाता भोजाश्चावन्तयस्तथा ॥५२॥

तुण्डिकेराश्च विक्रान्तास्तालजङ्घास्तथैव च ।
वीतिहोत्रसुतश्चापि अनन्तो नाम पार्थिवः ॥५३॥

दुर्जयस्तस्य पुत्रस्तु बभूवामित्रकर्शनः ।
अनष्ट द्रव्यता चैव तस्य राज्ञो बभूव ह ॥५४॥

प्रभावेण महाराजः प्रजास्ताः पर्यपालयत् ।
न तस्य वित्तनाशः स्यान्नष्टं प्रतिलभेच्च सः ॥५५॥

कार्त्तवीर्यस्य यो जन्म कथयेदिह धीमतः ।
वर्द्धन्ते विभवाश्शश्वद्धर्मश्चास्य विवर्द्धते ॥५६॥

यथा यष्टा यथा दाता तथा स्वर्गे महीपते ॥५७॥

इति श्रीब्रह्माण्डे महोपुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते कार्त्तवीर्यसंभवो नाम एकोनसप्ततितमोऽध्यायः ॥६९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP