संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः| अध्यायः ३२ मध्यम भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ मध्यम भागः - अध्यायः ३२ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ३२ Translation - भाषांतर वसिष्ठ उवाचब्रह्मणो वचनं श्रुत्वा स प्रणम्य जगद्गुरुम् ।प्रसन्नचेताः सुभृशं शिवलोकं जगाम ह ॥१॥लक्षयोजनमूर्द्ध्वं च ब्रह्मलोका द्विलक्षणम् ।अथनिर्वचनीयं च योगिगम्यं परात्परम् ॥२॥वैकुण्ठो दक्षिणे यस्माद्गौरीलोकश्च वामतः ।यदधो ध्रुवलोकश्च सर्वलोकपरस्तु सः ॥३॥तपोवीर्यगती रामः शिवलोकं ददर्श च ।उपमानेन रहितं नानाकौतुकसंयुतम् ॥४॥वसंति यत्र योगीन्द्राः सिद्धाः पाशुपताः शुभाः ।कोटिकल्पतपः पुण्याः शान्ता निर्मत्सरा जनाः ॥५॥पारिजातमुखैर्वृक्षैः शोभितं कामधेनुभिः ।योगेन योगिना सृष्टं स्वेच्छया शङ्करेण हि ॥६॥शिल्पिनां गुरुणा स्वप्ने न दृष्टं निश्वकर्मणा ।सरोवरशतैर्दिव्यैः पद्मरागविराजितैः ॥७॥शोभितं चातिरम्यं च संयुक्तं मणिवेदिभिः ।सुवर्णरत्नरचितप्राकारेण समावृतम् ॥८॥अत्यूर्द्ध्वमंबरस्पर्शि स्वच्छं क्षीरनिभंपरम् ।चतुर्द्वारसमायुक्तं शोभितं मणिवेदिभिः ॥९॥रक्तसोपानयुक्तैश्च रत्नस्तंभकपाटकैः ।नानाचित्रविचित्रैश्च शोभितैः सुमनोहरैः ॥१०॥तन्मधये भवनं रम्यं सिंहद्वारोपशोभितम् ।ददर्शरामो धर्मात्मा विचित्रमिव संगतः ॥११॥तत्र स्थितौ द्वार पालौ ददर्शातिभयङ्करौ ।महाकरालदन्तास्यौ विकृतारक्तलोचनौ ॥१२॥दग्धशैलप्रतीकाशौ महाबलपराक्रमौ ।विभूतिभूषिताङ्गौ च व्याघ्रचर्मांबरौ च तौ ॥१३॥त्रिशूलपट्टिशधरौ ज्वलन्तौ ब्रह्मतेजसा ।तौ दृष्ट्वा मनसा भीतः किञ्चिदाह विनीतवत् ॥१४॥नमस्करोमि वामीशौ शङ्करं द्रष्टुमागतः ।ईश्वराज्ञां समादाय मामथाज्ञप्तुमर्हथ ॥१५॥तौतु तद्वचनं श्रुत्वा गृहीत्वाज्ञां शिवस्य च ।प्रवेष्टुमाज्ञां ददतुरीश्वरानुचरौ च तौ ॥१६॥स तदाज्ञामनुप्राप्य विवेशान्तः पुरं मुदा ।तत्रातिरम्यां सिद्धौघैः समाकीर्णां सभां द्विजः ॥१७॥दृष्ट्वा विस्मयमापेदे सुगन्धबहुलां विभोः ।तत्रापश्यच्छिवं शान्तं त्रिनेत्रं चन्द्रशेखरम् ॥१८॥त्रिशूलशोभितकरं व्याघ्रचर्मवरांबरम् ।विभूतिभूषिताङ्गं च नागयज्ञोपवीतिनम् ॥१९॥आत्मारामं पूर्णकामं कोटिसूर्यसमप्रभम् ।पञ्चाननं दशभुजं भक्तानुग्रहविग्रहम् ॥२०॥योगज्ञाने प्रब्रुवन्तं सिद्धेभ्यस्तर्कमुद्रया ।स्तूयमानं च योकीन्द्रैः प्रमथप्रकरैर्मुदा ॥२१॥भैरवैर्योगिनीभिश्च वृतं रुद्रगणैस्तथा ।मूर्ध्ना नमाम तं दृष्ट्वा रामः परमया मुदा ॥२२॥वामभागे कार्त्तिकेयं दक्षिणे च गणेश्वरम् ।नन्दीश्वरं महाकालं वीरभद्रं च तत्पुरः ॥२३॥क्रोडे दुर्गां शतभुजां दृष्ट्वा नत्वाथ तामपि ।स्तोतुं प्रचक्रमे विद्वान्गिरा गद्गदया विभुम् ॥२४॥नमस्ये शिवमीशानं विभुं व्यापकमव्ययम् ।भुजङ्गभूषणं चोग्रं नृकपालस्रगुज्ज्वलम् ॥२५॥यो विभुः सर्वलोकानां सृष्टिस्थितिविनाशकृत् ।ब्रह्मादिरूपधृग्ज्येष्ठस्तं त्वां वेद कृपार्णवम् ॥२६॥वेदा न शक्ता यं स्तोतु मवाङ्मनसगोचरम् ।ज्ञानबुद्ध्योरसाध्यं च निराकारं नमाम्यहम् ॥२७॥शक्रादयः सुरगणा ऋषयो मनवोऽसुराः ।न यं विदुर्यथातत्त्वं तं नमामि परात्परम् ॥२८॥यस्यांशांशेन सृजयन्ते लोकाः सर्वे चराचराः ।लीयन्ते च पुनर्यस्मिंस्तं नमामि जगन्मयम् ॥२९॥यस्येषत्कोपसंभूतो हुताशो दहतेऽखिलम् ।सोर्द्ध्वलोकं सपातालं तं नमामि हरं परम् ॥३०॥पृथ्वीपवन वह्न्यभभोनभोयज्वेन्दुभास्कराः ।मूर्त्तयोऽष्टौ जगत्पूज्यास्तं यज्ञं प्रणमाम्यहम् ॥३१॥यः कालरूपो जगदादिकर्त्ता पाता पृथग्रूपधरो जगन्मयः ।रर्त्ता पुना रुद्रवपुस्तथान्ते तं कालरूपं शरणं प्रपद्ये ॥३२॥इत्येवमुक्त्वा स तु भार्गवो मुदा पषात तस्याङ्घ्रि समीप आतुरः ।उत्थाप्य तं वामकरेण लीलया दध्रे तदा मूर्ध्नि करं कृपार्णवः ॥३३॥आशीर्भिरेनं ह्यभिनन्द्य सादरं निवेशयामास गणेशपूर्वतः ।उवाच वामामभिवीक्ष्य चाप्युमां कृपार्द्रदृष्ट्याखिलकामपूरकः ॥३४॥शिव उवाचकस्त्वं वटो कस्यकुले प्रसूतः किं कार्यमुद्दिश्य भवानिहागतः ।विनिर्द्दिशाहं तव भक्तिभावतः प्रीतः प्रदद्यां भवतो मनोगतम् ॥३५॥इत्येवमुक्तः स भृगुर्महात्मना हरेण विश्वार्त्तिहरेण सादरम् ।पुनश्च नत्वा विबुधां पति गुरुं कृपासमुद्रं समुवाच सत्वरम् ॥३६॥परशुराम उवाचभृगोश्चाहं कुले जातो जमदग्निसुतौ विभो ।रामो नाम जगद्वन्द्यं त्वामहं शरणं गतः ॥३७॥यत्कार्यार्थमहं नाथ तव सांनिध्यमागतः ।तं प्रसाधय विश्वेश वाञ्छितं काममेव मे ॥३८॥मृगयामागतस्यापि कार्त्तवीर्यस्य भूपतेः ।आतिथ्यं कृतवान् देव जमदग्निः पिता मम ॥३९॥राजा तं स बलाल्लोभात्पातयामास मन्दधीः ।सा धेनुस्तं मृतं दृष्ट्वा गवां लोकं जगाम ह ॥४०॥राजा न शोचन्मरणं पितुर्मम निरागसः ।जगाम स्वपुरं पश्चान्माता मे प्रारुदद्भृशम् ॥४१॥तज्ज्ञात्वा लोकवृत्तज्ञो भृगुर्नः प्रपितामहः ।आजगाम महादेव ह्यहमप्यागतो वनात् ॥४२॥मया मह सुदुःखार्त्तान्भ्रातॄन्मात्रासहैव मे ।सांत्वयित्वा स मन्त्रज्ञोऽजीवयत्पितरं मम ॥४३॥आनागते भृगौ मातुर्दुःखेनाहं प्रकोपितः ।प्रतिज्ञां कृतवान्देव सात्वयन्मातरंस्वकाम् ॥४४॥त्रिःसप्तकृत्वो यदुरस्ताडितं मातुरात्मनः ।तावत्संख्यमहं पृथ्वीं करिष्ये क्षत्रवर्जिताम् ॥४५॥इत्येवं परिपूर्णा मे कर्त्ता देवो जगत्पतिः ।महादेवो ह्यतो नाथ त्वत्सकाणमिहागतः ॥४६॥वसिष्ठ उवाचइत्येवं तद्वचः श्रुत्वा दृष्ट्वा दुर्गामुखं हरः ।बभूवानम्रवदनस्छिन्तयानः क्षणं तदा ॥४७॥एतस्मिन्नन्तरे दुर्गा विस्मिता प्राहसद्भृशम् ।उवाच च महाराज भार्गवं वैरसाधकम् ॥४८॥तपस्विन्द्विजपुत्र क्ष्मां निर्भूपां कर्त्तुमिच्छसि ।त्रिः सप्तकृत्वः कोपेन साहसस्ते महान्बटो ॥४९॥हन्तुमिच्छसि निःशस्त्रः सहस्रार्जुनमीश्वरम् ।भ्रूभङ्गलीलया येन रावणोऽपि निराकृतः ॥५०॥तस्मै प्रदत्तं दत्तेन श्रीहरेः कवचं पुरा ।शक्तिरत्यर्थवीर्या च तं कथं हन्तुमिच्छसि ॥५१॥शङ्करः करुणासिद्धः कर्त्तुं चाप्यन्यथा विभुः ।न चान्यः शङ्करात्पुत्र सत्कार्यं कर्त्तुमीश्वरः ॥५२॥अथ देव्या अनुमतिं प्राप्य शंभुर्द्दयार्णवः ।अभ्यधाद्भद्रया वाया जमदग्निसुतं विभुः ॥५३॥शिव उवाचअद्यप्रभृति विप्र त्वं मम स्कन्दसमो भव ।दास्यामि मन्त्रं दिव्यं ते कवचं च महामते ॥५४॥लीलया यत्प्रसादेन कार्त्तवीर्यं हनिष्यसि ।त्रिः सप्तकृत्वो निर्भूपां महीं चापि करिष्यसि ॥५५॥इत्युक्त्वा शङ्करस्तस्मै ददौ मन्त्रं सुदुर्लभम् ।त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥५६॥नागपाशं पाशुपतं ब्रह्मास्त्रं च सुदुर्ल्लभम् ।नारायणास्त्रमाग्नेयं वायव्यं वारुणं तथा ॥५७॥घान्धर्वं गारुडं चैव जृंभणास्त्रं महाद्भुतम् ।गदां शक्तिं च परशुं शूलं दण्डमनुत्तमम् ॥५८॥शस्त्रास्त्रग्राममखिलं प्रहृष्टः संबभूव ह ।नमस्कृत्य शिवं शान्तं दुर्गां स्कन्दं गणेश्वरम् ॥५९॥परिक्रम्य ययौ रामः पुष्करं तीर्थमुत्तमम् ।सिद्धं कृत्वा शिवोक्तं तु मन्त्रं कवचमुत्तमम् ॥६०॥साधयामास निखिलं स्वकार्यं भृगुनन्दनः ।निहत्य कार्त्तवीर्यं तं ससैन्यं सकुलं मुदा ।विनिवृत्तो गृहं प्रागात्पितुः स्वस्य भृगूद्वहः ॥६१॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते द्वात्रिंशत्तमोऽध्यायः॥३२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP