संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः २४

मध्यम भागः - अध्यायः २४

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


वसिष्ठ उवाच
इत्युक्तस्तेन भूपाल रामो मतिमतां वरः ।
निरूप्य मनसा भूयस्तमुवाचाभिविस्मितम् ॥१॥

राम उवाच
कस्त्वं ब्रूहि महाभाग न वै प्राकृतपूरुषः ।
इन्द्रस्येवानुभावेन वपुरालक्ष्यते तव ॥२॥

विचित्रार्थपदौदार्यगुणगांभीर्यजातिभिः ।
सर्वज्ञस्यैव ते वाणी श्रूयतेऽतिमनोहरा ॥३॥

इन्द्रो वह्निर्यमो धाता वरुणो वा धनाधिपः ।
ईशानस्तपनो ब्रह्मा वायुः सोमो गुरुर्गुहः ॥४॥

एषामन्यतमः प्रायो भवान्भवितुमर्हति ।
अनुभावेन जातिस्ते हृदिशङ्कां तनोति मे ॥५॥

मायावी भगवान्विष्णुः श्रूयते पुरुषोत्तमः ।
को वा त्वं वपुषानेन ब्रूहि मां समुपागतः ॥६॥

अथ वा जगतां नाथः सर्वज्ञः परमेश्वरः ।
परमात्मात्मसंभूतिरात्मारामः सनातनः ॥७॥

स्वच्छन्दचारी भगवाञ्छिवः सर्वजगन्मयः ।
वपुषानेन संयुक्ते भवान्भवितुमर्हति ॥८॥

नान्यस्येदृग्भवेल्लोके प्रभावानुगतं वपुः ।
जात्यर्थसौष्ठवोपेता वाणी चौदार्यशालिनी ॥९॥

मन्येऽहं भक्तवात्सल्याद्वानेन वपुषाहरः ।
प्रत्यक्षतामुपगतो संदेहोऽस्मत्परीक्षया ॥१०॥

न केवलं भवान् व्याधस्तेषां नेदृग्विधाकृतिः ।
तस्मात्तुभ्यं नमस्तस्मै सुरुपं संप्रदर्शय ॥११॥

आविष्कुर्वन्प्रसीदात्ममहिमानुगुणं वपुः ।
ममानेकविधा शङ्कामुच्येत येन मानसी ॥१२॥

प्रसीद सर्वभावेन बुद्धिमोहौ ममाधुना ।
प्रणाशय स्वरूपस्य ग्रहणादेव केवलम् ॥१३॥

प्रार्थयेत्वां महाभाग प्रणम्य शिरसासकृत् ।
कस्त्वं मे दर्शयात्मानं बद्धोऽयं ते मयाञ्जलिः ॥१४॥

इत्युक्त्वा तं महाभाग ज्ञातुमिच्छन्भृगूद्वहः ।
उपविश्य ततो भूमौ ध्यानमास्ते समाहितः ॥१५॥

बद्धपद्मासनो मौनी यतवाक्कायमानसः ।
निरुद्धप्राणसंचारो दध्यौ चिरमुदारधीः ॥१६॥

सन्नियम्येन्द्रियग्रामं मनो हृदि निरुध्य च ।
चिन्तयामास देवेशं ध्यानदृष्ट्या जगद्गुरुम् ॥१७॥

अपश्यच्च जगन्नाथमात्मसंधानचक्षुषा ।
स्वभक्तानुग्रहकरं मृगव्याधस्वरूपिणम् ॥१८॥

तत उन्मील्य नयने शीघ्रमुत्थाय भार्गवः ।
ददर्श देवं तेनैव वपुषा पुरतः स्थितम् ॥१९॥

आत्मनोऽनुग्रहार्थाय शरण्यं भक्तवत्सलम् ।
आविर्भूतं महाराज दृष्ट्वा रामः ससंभ्रमम् ॥२०॥

रोमाञ्छोद्भिन्नसर्वाङ्गो हर्षाश्रुप्लुतलोचनः ।
पपात पादयोर्भूमौ भक्त्या तस्य महामतिः ॥२१॥

स गद्गदमुवाचैनं संभ्रमाकुलया गिरा ।
शरणं भव शर्वेति शङ्करेत्यसकृन्नृप ॥२२॥

ततः स्वरुपधृक्शंभुस्तद्भक्तिपरितोषितः ।
राममुत्थापयामास प्रणा मावनतं भुवि ॥२३॥

उत्थापितो जगद्धात्रा स्वहस्ताभ्यां भृगूद्वहः ।
तुष्टाव देवदेवेशं पुरः स्थित्वा कृताजलिः ॥२४॥

राम उवाच
नमस्ते देवदेवाय शङ्करायादिमूर्त्तये ।
नमः शर्वाय शान्ताय शाश्वताय नमोनमः ॥२५॥

नमस्ते नीलकण्ठाय नीललोहितमूर्त्तये ।
नमस्ते भूतनाथाय भूतवासाय ते नमः ॥२६॥

व्यक्ताव्यक्तस्वरूपाय महादेवाय मीढुषे ।
शिवाय बहुरूपाय त्रिनेत्राय नमोनमः ॥२७॥

शरणं भव मे शर्व त्वद्भक्तस्य जगत्पते ।
भूयोऽनन्याश्रयाणां तु त्वमेव हि परायणम् ॥२८॥

यन्मयापकृतं देव दुरुक्तं वापि शङ्कर ।
अजानता त्वां भगवन्मम तत्क्षन्तुमर्हसि ॥२९॥

अनन्यवेद्यरुपस्य सद्भावमिहकः पुमान् ।
त्वामृते तव सर्वेश सम्यक्शक्रोति वेदितुम् ॥३०॥

तस्मात्त्वं सर्वभावेन प्रसीद मम शङ्कर ।
नान्यास्ति मे गतिस्तुभ्यं नमो भूयो नमो नमः ॥३१॥

वसिष्ठ उवाच
इति संस्तूयमानस्तु कृताञ्जलिपुटं पुरः ।
तिष्ठन्तमाह भगवान्प्रसन्नात्मा जगन्मयः ॥३२॥

भगवानुवाच
प्रीतोऽस्मि भवते तात तपसानेन सांप्रतम् ।
भक्त्या चैवानपायिन्या ह्यपि भार्गवसत्तम ॥३३॥

दास्ये चाभि मतं सवे भवतेऽहं त्वया वृतम् ।
भक्तो हि मे त्वमत्यर्थं नात्र कार्या विचारणा ॥३४॥

मयैवावगतं सर्वं त्दृदि वत्तेऽद्यवर्त्तते ।
तस्माद्ब्रवीमि यत्त्वाहं तत्कुरुष्वाविशङ्कितम् ॥३५॥

नास्त्राणां धारणे वत्स विद्यते शक्तिरद्य ते ।
रौद्राणां तेन भूयोऽपि तपो घोरं समाचर ॥३६॥

परीत्य पृथिवीं सर्वां सर्वतीर्थेषु च क्रमात् ।
स्रात्वा पवित्रदेहस्त्तवं सर्वाण्यस्त्राण्यवाप्स्यसि ॥३७॥

इत्युक्त्वान्तर्दधे देवस्तेनैव वपुषा विभुः ।
रामस्य पश्यतो राजन्क्षणेन भवभागकृत् ॥३८॥

अन्तर्हिते जगन्नाथे रामो नत्वा तु शङ्करम् ।
परीत्यवसुधां सर्वां तीर्थस्नानेऽकरोन्मनः ॥३९॥

ततः स पृथिवीं सर्वां परिक्रम्य यथाक्रमम् ।
चकार सर्वतीर्थेषु स्नानं विधिवदात्मवान् ॥४०॥

तीर्थेषु क्षेत्रमुख्येषु तथा देवालयेषु च ।
पितॄन्देवांश्च विधिवदतर्पयदतन्द्रितः ॥४१॥

उपवासतपोहोमजपस्नानादिसुक्रियाः ।
तीर्थेषु विधिवत्कुर्वन्परिचक्राम मेदिनीम् ॥४२॥

एवं क्रमेण तीर्थेषु स्नात्वा चैव वसुंधराम् ।
प्रदक्षिणीकृत्य शनैः शुद्धदेहोऽभवन्नृप ॥४३॥

परीत्यैवं वसुमतीं भार्गवः शंभुशासनात् ।
जगां भूयस्तं देशं यत्र पूर्वमुवास सः ॥४४॥

गत्वा राजन्सतत्रैव स्थित्वा देवमुमापतिम् ।
भक्त्या संपूजयामास तपोभिर्न्नियमैरपि ॥४५॥

एतस्मिन्नेव काले तु देवानामसुरैः सह ।
बभूव सुचिरं राजन्संग्रामो रोमहर्षणः ॥४६॥

ततो देवान्पराजित्य युद्धेऽतिबलिनोऽसुराः ।
अवापुरमरैश्वर्यमशेषमकुतोभयाः ॥४७॥

युद्धे पराजिता देवाः सकला वासवादयः ।
शङ्करं शरणं चग्मुर्हतैश्वर्या ह्यरातिभिः ॥४८॥

तोषयित्वा जगन्नाथं प्रणामजय संस्तवैः ।
प्रार्थयामासुरसुरान्हन्तुं देवाः पिनाकिनम् ॥४९॥

ततस्तेषां प्रतिश्रुत्य दानवानां वधं नृप ।
देवानां वरदः शंभुर्महो दरमुवाच ह ॥५०॥

हिमद्रेर्दक्षिणे भागे रामो नाम महातपाः ।
मुनिपुत्रोऽतितेजस्वी मामुद्दिश्य तपस्यति ॥५१॥

तत्र गत्वात्वमद्यैव निवेद्य मम शासनम् ।
महोदर तपस्यन्तं तमिहानय माचिरम् ॥५२॥

इत्याज्ञप्रस्तथेत्युक्त्वा प्रणभ्येशं महोदरः ।
जगाम वायुवेगेन यत्र रामो व्यवस्थितः ॥५३॥

समासाद्य स तं देशं दृष्ट्वा रामं महामुनिम् ।
तपस्यन्तमिदं वाक्यमुवाच विनयान्वितः ॥५४॥

द्रष्टुमिच्छति शम्भुस्त्वां भृगुवर्यं तदाज्ञया ।
आगतोऽहं तदागच्छ तत्पादांबुजसन्निधिम् ॥५५॥

तच्छ्रुत्वा वचनं तस्य शीघ्रमुत्थाय भार्गवः ।
तदाज्ञां शिरसानन्द्य तथेति प्रत्यभाषत ॥५६॥

ततो रामं त्वरोपेतः शंभुपार्श्वं महोदरः ।
प्रापयामास सहसा कैलासे नागसत्तमे ॥५७॥

सहितं सकलैर्भूतैरिन्द्राद्यैश्च सहामरैः ।
ददर्श भार्गवश्रेष्ठः शङ्करं भक्तवत्सलम् ॥५८॥

संस्तूयमानं मुनिभिर्नारदाद्यैस्तपोधनैः ।
गन्धर्वैरुपगायद्भिर्नृत्यद्भिश्चाप्सरोगणैः ॥५९॥

उपास्यमानं देवेशं गजचर्मधृताम्बरम् ।
भस्मोद्धूलितसर्वाङ्गं त्रिनेत्रं चन्द्रशेखरम् ॥६०॥

धृतपिङ्गजटाभारं नागाभरमभूषितम् ।
प्रलम्बोष्ठभुजं सौम्यं प्रसन्नमुखपङ्कजम् ॥६१॥

आस्थितं काञ्चने पट्टे गीर्वाणसमितौ नृप ।
उपासर्पत्तु देवेशं भृगुवर्यः कृताञ्जलिः ॥६२॥

श्रीकण्ठदर्शनोद्वत्तरोमाञ्चाञ्चितविग्रहः ।
बाष्पत्तु सिक्तकायेन स तु गत्वा हरान्तिकम् ॥६३॥

भक्त्या ससंभ्रमं वाचा हर्षगद्गदयासकृत् ।
नमस्ते देवदेवेति व्यालपन्नाकुलाक्षरम् ॥६४॥

पपात संस्पृशन्मूर्ध्ना चरणौ पुरविद्विषः ।
पश्यतां देववृन्दानां मध्ये भृगुकुलोद्वहम् ॥६५॥

तमुत्थाप्य शिवः प्रीतः प्रसन्नमुखपङ्कजम् ।
रामं मधुरया वाचा प्रहसन्नाह सादरम् ॥६६॥

इमे दैत्यगणैः क्रान्ताः स्वाधिष्ठानात्परिच्युताः ।
अशक्रुवन्तस्तान्हन्तुं गीर्वाणा मामुपागताः ॥६७॥

तस्मान्ममाज्ञया राम देवानां च प्रियेप्सया ।
जहि दैत्यगणान्सर्वान्समर्थस्त्वं हि मे मतः ॥६८॥

ततो रामोऽब्रवीच्छर्वं प्रणिपत्य कृताञ्जलिः ।
शृण्वतां सर्वदेवानां सप्रश्रयमिदं वचः ॥६९॥

स्वामिन्न विदितं किं ते सर्वज्ञस्याखिलात्मनः ।
तथापि विज्ञापयतो वचनं मेऽवधारय ॥७०॥

यदि शक्रादिभिर्देवैरखिलैरमरारयः ।
न शक्या हन्तुमेकस्य शक्याः स्यस्ते कथं मम ॥७१॥

अनस्त्रज्ञोऽस्मि देवेश युद्धानामप्यकोविदः ।
कथं हनिष्ये सकलान्सुरशत्रूननायुधः ॥७२॥

इत्युक्तस्तेन देवेशः सितं कालाग्निसप्रभम् ।
शैवमस्त्रमयं तेजो ददौ तस्मै महात्मने ॥७३॥

आत्मीयं परशुं दत्वा सर्वशस्त्राभिभावकम् ।
रामपाह प्रसन्नात्मा गीर्वाणानां तु शृण्वतम् ॥७४॥

मत्प्रसादेन सकलान्सुरशत्रून्विनिघ्नतः ।
शक्तिर्भवतु ते सौम्य समस्तारिदुरासदा ॥७५॥

अनेनैवायुधेन त्वं गच्छ युध्यस्व शत्रुभिः ।
स्वयमेव च वेत्सि त्वं यथावद्युद्धकौशलम् ॥७६॥

वसिष्ठ उवाच
एवमुक्तस्ततो रामः शंभुना तं प्रणम्य च ।
जग्राह परशुं शैव विबुधारिवधोद्यतः ॥७७॥

ततः स शुशुभे रामो विष्णुतेर्ञ्जोऽशसंभवः ।
रुद्रभक्त्या समायुक्तो द्युत्येव सवितुर्महः ॥७८॥

सोऽनुज्ञातस्त्रिनेत्रेण देवैः सर्वैः समन्वितः ।
जगाम हन्तुमसुरान्युद्धाय कृतनिश्चयः ॥७९॥

ततोऽभवत्पुनर्युद्धं देवानामसुरैः सह ।
त्रैलोक्यविजयोद्युक्तै राजन्नतिभयङ्करम् ॥८०॥

अथ रामो महाबाहुस्तस्मिन्युद्धे सुदारुणे ।
कुद्धः परशुना तेन निजघान महासुरान् ॥८१॥

प्रहारैरशनिप्रख्यैर्निघ्नन्दैत्यान्सहस्रशः ।
चचार समरे रामः क्रुद्धः काल इवापरः ॥८२॥

हत्वा तु सकलान्दैत्यान्देवान्सर्वानहर्षयत् ।
क्षणेन नाशयामास रामः प्रहरतां वरः ॥८३॥

रामेण हन्यमा नास्तु समस्ता दैत्यदानवाः ।
ददृशुः सर्वतो रामं हतशेषा भयान्विताः ॥८४॥

हतेष्वसुरसंघेषु विद्रुतेषु च कृत्स्नशः ।
राममामन्त्र्य विबुधाः प्रययुस्त्रिदिवं पुनः ॥८५॥

रामोऽपि हत्वा दितिजानभ्यनुज्ञाप्य चामरान् ।
स्वमाश्रमं समापेदे तपस्यासक्तमानसः ॥८६॥

मृगव्याधप्रतिकृतिं कृत्वा शम्भोर्महामतिः ।
भक्त्या संपूजयामास स तस्मिन्नाश्रमेवशी ॥८७॥

गन्धैः पुष्पैस्तथा हृद्यैर्नैवेद्यैरभिवन्दनैः ।
स्तोत्रैश्च विधिवद्भक्त्या परां प्रीतिमुपानयत् ॥८८॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादेर्ऽजुनोपाख्याने चतुर्विंशतितमोऽध्यायः॥२४॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP