संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः| अध्यायः २६ मध्यम भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ मध्यम भागः - अध्यायः २६ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः २६ Translation - भाषांतर वशिष्ठ उवाचइति पृष्टस्तदा ताभ्यां रामो राजन्कृताञ्जलिः ।तयोरकथयत्सर्वमात्मना यदनुष्ठितम् ॥१॥निदेशाद्वै कुलगुरोस्तपश्चरणमात्मनः ।शंभोर्निदेशात्तीर्थानामटनं च यथाक्रमम् ॥२॥तदाज्ञयैव दैत्यनां वधं चामरकारणात् ।हरप्रसादादत्रापि ह्यकृतव्रणदर्शनम् ॥३॥एतत्सर्वमशेषेण यदन्यच्चात्मना कृतम् ।कथयामास तद्रामः पित्रोः संप्रीयमाणयोः ॥४॥तौ च तेनोदितं सर्वं श्रुत्वा तत्कर्म विस्तरम् ।हृष्टौ हर्षान्तरं भूयो राजन्नाप्नुवतावुभौ ॥५॥एवं पित्रोर्महाराज शुश्रूषां भृगुपुङ्गवः ।प्रकुर्वंस्तद्विधेयात्मा भ्रातॄणां चाविशेषतः ॥६॥एतस्मिन्नेव काले तु कदाचिद्धैहयेश्वरः ।इत्येष मृगयां गान्तुं चतुरङ्गबलान्वितः ॥७॥संरज्यमाने गगने बन्धूककुसुमारुणैः ।ताराजालद्युतिहरैः समन्तादरुणांशुभिः ॥८॥मन्दं वीजति प्रोद्धूतकेतकीवनराजिभिः ।प्राभातिके गन्धवहे कुमुदाकरसंस्पृशि ॥९॥वयांसि नर्मदातीरतरुनीडाश्रयेषु च ।व्याहरन्स्वाकुला वाचो मनःश्रोत्रसुखावहाः ॥१०॥नर्मदातीरतीर्थं तदवतीर्याघहारिणि ।तत्तोये मुनिवृन्देषु गृणात्सुब्रह्म शाश्वतम् ॥११॥विधिवत्कृतमैत्रेषु सन्निवृत्य सरित्तटात् ।आशमं प्रति गच्छत्सु मुनिमुख्येषु कर्मिषु ॥१२॥प्रत्येकं वीरपत्नीषु व्यग्रासु गृहकर्मसु ।होमार्थं मुनिकल्पाभिर्दुह्यमानासु धेनुषु ॥१३॥स्थाने मुनिकुमारेषु तं दोहं हि नयत्सु च ।अग्निहोत्राकुले जाते सर्वभूतसुखावहे ॥१४॥विकसत्सु सरोजेषु गायत्सु भ्रमरेषु च ।वाशत्सु नीडान्निष्पत्य पतत्रिषु समन्ततः ॥१५॥अनति व्यग्रमत्तेभतुरङ्गरथगामिनाम् ।गात्राल्हादविवर्द्धन्यां वेलायां मन्दवायुना ॥१६॥गच्छत्सु चाश्रमोपान्तं प्रसूनजलहारिषु ।स्वाध्या यदक्षैर्बहुभिरजिनांबरधारिभिः ॥१७॥सम्यक्प्रयोज्यमानेषु मन्त्रेषूच्चावचेषु च ।प्रैषेषूच्चार्यमाणेषु हूयमानेषु वह्निषु ॥१८॥यथा वन्मन्त्रतन्त्रोक्तक्रियासु विततासु च ।ज्वलदग्निशिखाकारे तमस्तपनतेजसि ॥१९॥प्रतिहत्य दिशः सर्वा विवृण्वाने च मेदिनीम् ।सवितर्युदयं याति नैशे तमसि नश्यति ॥२०॥तारकासु विलीनासु काष्ठासु विमलासु च ।कृतमैत्रादिको राजा मृगयां हैहयेश्वरः ॥२१॥निर्ययौ नगरात्तस्मात्पुरोहितसमन्वितः ।बलैः सर्वैः समुदितैः सवाजिरथकुञ्जरैः ॥२२॥सचिवः सहितः श्रीमान् सवयोभिश्च राजभिः ।महता बलभारेण नमयन्वसुधातलम् ॥२३॥नादयन्रथघोषेण ककुभः सर्वतो नृपः ।स्वबलौघपदक्षेपप्रक्षुण्णावनिरेणुभिः ॥२४॥ययौ संच्छादयन्व्योम विमानशतसंकुलम् ।संप्रवश्य वनं घोरं विन्ध्योद्रेर्बलसंचयैः ॥२५॥भृशं विलोलया मास समन्ताद्राजसत्तमः ।परिवार्य वनं तत्तु स राजा निजसैनिकैः ॥२६॥मृगान्नानाविधान्हिंस्रान्निजघान शितैः शरैः ।आकर्णकृष्टकोदण्डयोधमुक्तैः शितेषुभिः ॥२७॥निकृत्तगात्राः शार्दूला न्यपतन्भुवि केचन ।उदग्रवेगपादातखड्गखण्डितविग्रहाः ॥२८॥वराहयूथपाः केचिद्रुधिरार्द्रा धरामगुः ।प्रचण्डशाक्तिकोन्मुक्तशक्तिनिर्भिन्नमस्तकाः ॥२९॥मृगौघाः प्रत्यपद्यन्त पर्वता इव मेदिनीम् ।नाराचा विद्धसर्वाङ्गाः सिंहर्क्षशरभादयः ॥३०॥वसुधामन्वकीर्यन्त शोणितार्द्राः समन्ततः ।एवं सवागुरैः कैश्चित्पतद्भिः पतितैरपि ॥३१॥श्वभिश्चानुद्रुतैः कैश्चिद्धावमानैस्तथा मृगैः ।आत्तैर्विक्रोशमानैश्च भीतैः प्राणभयातुरैः ॥३२॥युगापाये यथात्यर्थं वनमाकुलमाबभौ ।वराहसिंहशार्दूलश्वाविच्छशकुलानि च ॥३३॥चमरीरुरुगोमायुगवयर्क्षवृकान्बहून् ।कृष्णसारान्द्वीपिमृगान्रक्तखड्गमृगानवि ॥३४॥विचित्राङ्गान्मृगानन्यान्न्यङ्कूनपि च सर्वशः ।बालान्स्तनन्धयान्यूनः स्थविरान्मिथुनान्गणान् ॥३५॥निजघ्नुर्निशितैः शस्त्रैः शस्त्रवध्यान्हि सैनिकाः ।एवं हत्वा मृगान् घोरान्हिंस्रप्रायानशेषतः ॥३६॥श्रमेण महता युक्ता बभूवुर्नृपसैनिकाः ।मध्ये दिनकरे प्राप्ते ससैन्यः स तदा नृपः ॥३७॥नर्मदां धर्मसंतप्तः पिपासुरगमच्छनैः ।अवतीय ततस्तस्यास्तोये सबलवाहनः ॥३८॥विजागाह शुभे राजा क्षुत्तृष्णापरिपीडितः ।स्नात्वा पीत्वा च सलिलं स तस्याः सुखशीतलम् ॥३९॥बिसांकुराणि शुभ्राणि स्वादूनि प्रजघास च ।विक्रीड्य तोये सुचिरमुत्तीर्य सबलो नृपः ॥४०॥विशश्राम च तत्तीरे तरुखण्डोपमण्डिते ।आलंबपाने तिग्मांशौ ससैन्यः सानुगो नृपः ॥४१॥निश्चक्राम पुरं गन्तुं विन्ध्याद्रिवनगह्वरात् ।स गच्छन्नेव ददृशे नर्मदा तीरमाश्रितम् ॥४२॥आश्रमं पुण्यशीलस्य जमदग्नेर्महात्मनः ।ततो निवृत्य सैन्यानि दूरेऽवस्थाप्य पार्थिवः ॥४३॥परिचारैः कतिपथैः सहितोऽयात्तदाशमम् ।गत्वा तदाश्रमं रम्यं पुरोहितसमन्वितः ॥४४॥उपेत्य मुनिशार्दूलं ननाम शिरसा नृपः ।अभिनं द्याशषा तं वै जमदग्निर्नृपोत्तमम् ॥४५॥पूजयामास विधिवदर्घपाद्यासनादिभिः ।संभावयित्वा तां पूजां विहितां मुनिना तदा ॥४६॥निषसादासने शुभ्र पुरस्तस्य महामुनेः ।तमासीनं नृपवरं कुशासनगतो मुनिः ॥४७॥पप्रच्छ कुशलप्रश्नं पुत्रमित्रादिबन्धुषु ।सह संकथयंस्तेन राज्ञा मुनिवरोत्तमः ॥४८॥स्थित्वा नातिचिरं कालमातिथ्यार्थं न्यमन्त्रयत् ।ततः स राजा सुप्रीतो जमदग्नि मभाषत ॥४९॥महर्षे देहि मेऽनुज्ञां गमिष्यामि स्वकं पुरम् ।समग्रवाहनबलो ह्यहं तस्मान्महामुने ॥५०॥कर्तु न शक्यमा तिथ्यं त्वया वन्याशिना वने ।अथवा त्वं तपःशक्त्या कर्तुमातिथ्यमद्य मे ॥५१॥शक्नोष्यपि पुरीं गन्तुं मामनुज्ञातुर्हसि ।अन्यथा चेत्खलैः सैन्यैरत्यर्थं मुनिसत्तम ॥५२॥तपस्विनां भवेत्पीडा नियमक्षयकारिका ।वसिष्ठ उवाचइत्येवमुक्तः स मुनिस्तं प्राहस्थीयतां क्षणम् ॥५३॥सर्वं संपादयिथ्येऽहमातिथ्यं सानुगस्य ते ।इत्युक्त्वाहूय तां दोग्ध्रीमुवाचायं ममातिथिः ॥५४॥उपाग तस्त्वया तस्मात्क्रियतामद्य सत्कृतिः ।इत्युक्ता मुनिना दोग्ध्री सातिथेयमशेषतः ।दुदोह नृपतेराशु यद्योग्यं मुनिगौरवात् ॥५५॥अथाश्रमं तत्सुरराजसद्मनिकाशमासीद्भृगुपुङ्गवस्य ।विभूतिभेदैरविचिन्त्यरुपमनन्यसाध्यं सुरभिप्रभावात् ॥५६॥अनेकरत्नोज्ज्वलचित्रहेमप्रकाशमालापरिवीतमुच्चैः ।पूर्णेन्दुशुभ्राभ्रविषक्तशृङ्गैः प्रासादसंघैः परिवीतमन्तः ॥५७॥कांस्यारकूटारसताम्रहेमदुर्वर्णसौधो पलदारुमृद्भिः ।पृथग्विमिश्रैर्भवनैरनेकैः सद्भासितं नेत्रमनोभिरामैः ॥५८॥महार्हरत्नोज्ज्वलहेमवेदिकानिष्कूटसोपानकुटीविटङ्ककैः ।तुलाकपाटर्गलकुड्यदेहलीनिशान्तशालाजिरशोभितैर्भृशम् ॥५९॥वलभ्यलिन्दाङ्गपाचारुतोरणैरदभ्रपर्यन्तचतुष्किकादिभिः ।स्तंभेषु कुड्येषु च दिव्यरत्नविचित्रचित्रैः परिशोभमानैः ॥६०॥उच्चावचै रत्नवरैर्विचित्रसुवर्णसिंहासनपीठिकाद्यैः ।स भक्ष्यभोज्यादिभि रन्नपानैरुपेतभाण्डोपगतैकदेशैः ॥६१॥गृहैरमर्त्योचितसर्वसंपत्समन्वितैर्नेत्रमनोऽभिरामैः ।तस्याश्रमं सन्नगरोपमानं बभौ वधूभिश्चमनोहराभिः ॥६२॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीयउपोद्धातपादेर्ऽजुनोपाख्याने षड्विंशतितमोऽध्यायः॥२६॥ Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP