संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः| अध्यायः ७ मध्यम भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ मध्यम भागः - अध्यायः ७ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ७ Translation - भाषांतर सूत उवाचगन्धर्वाप्सरसः पुत्रा मौनेयास्तान्निबोधत ।भीमसेनेग्रसेनौ च सुपर्णो वरुणस्तथा ॥१॥धृतराष्ट्रश्च गोमांश्च सूर्यवर्चास्तथैव च् ।पत्रवानर्कपर्णश्च प्रयुतश्च तथैव हि ॥२॥भीमश्चित्ररथश्चैव विख्यातः सर्वजीद्वशी ।त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ॥३॥कलिः पञ्च दशस्तेषां नारदश्चैव षोडशः ।इत्येते देवगन्धर्वा मौनेयाः परिकीर्त्तिताः ॥४॥चतुर्विंशाश्चावरजास्तेषामप्सरसः शुभाः ।अरुणा चानपाया च विमनुष्या वरांबरा ॥५॥मिश्रकेशी तथाचासिपर्णिनी चाप्यलुंबुषा ।मरीचिः शुचिका चैव विद्युत्पर्णा तिलोत्तमा ॥६॥अद्रिका लक्ष्मणा क्षेमा दिव्या रंभा मनोभवा ।असिता च सुबाहूश्च सुप्रिया सुभुजा तथा ॥७॥पुण्डरीकाजगन्धा च सुदती सुरसा तथा ।तथैवास्याः सुबाहूश्च विख्यातौ च हहाहुहू ॥८॥तुंबुरुश्चेति चत्वारः स्मृतागन्धर्वसत्तमाः ।गन्धर्वाप्सरसो ह्येते मौनेयाः परिकीर्त्तिताः ॥९॥हंसा सरस्वती चैव सूता च कमलाभया ।सुमुखी हंसपादी च लौकिक्योऽप्सरसः स्मृताः ॥१०॥हंसो ज्योतिष्टमो मध्य आचारस्त्विह दारुणः ।वरूथोऽथ वरेण्यश्य ततो वसुरुचिः स्मृतः ॥११॥अष्टमः सुरुचिस्तेषां ततो विश्वा वसुः स्मृतः ।सुषुवे सा महाभागा रिष्टा देवर्षिपूजिता ॥१२॥अरूपां सुभगां भासीमिति त्रेधा व्यजायत ।मनुवन्ती सुकेशी च तुंबरोस्तु सुते शुभे ॥१३॥पञ्चचूडास्त्विमा विद्यादेवमप्सरसो दश ।मेनका सहजन्या च पर्णिनी पुञ्जिकस्थला ॥१४॥कृतस्थला द्यृताची च विश्वाची पूर्वचित्त्यपि ।प्रम्लोचेत्यभिविख्यातानुम्लोचैव तु ता दश ॥१५॥अनादिनिधनस्याथ जज्ञे नारायणस्य या ।कुलोचितानवद्याङ्गी उर्वश्चेकादशी स्मृता ॥१६॥मेनस्य मेनका कन्या जज्ञे सर्वाङ्गसुंदरी ।सर्वाश्च ब्रह्मवादिन्यो महाभागाश्च ताः स्मृताः ॥१७॥गणास्त्वप्सरसां ख्याताः पुण्यास्ते वै चतुर्दश ।आहृत्यः शोभवत्यश्च वेगवत्यस्तथैव च ॥१८॥ऊर्ज्जाश्चैव युवत्यश्च स्रुचस्तु कुरवस्तथाश्च ।वर्हयश्चामृताश्चैव मुदाश्च मृगवो रुचः ॥१९॥भीरवः शोभयन्त्यश्च गाणा ह्येते चतुर्दश ।ब्रह्मणो मानसाहृत्यः शोभवत्यो मरुत्सुताः ॥२०॥वेगवत्यश्च रिष्टाया ऊर्ज्जाश्चैवाग्निसंभवाः ।युवत्यश्च तथा सूर्यरश्मिजाताः सुशोभनाः ॥२१॥गभस्तिभिश्च सोमस्य जज्ञिरे कुरवः शुभाः ।यज्ञोत्पन्ना स्रुचो नाम कुशवत्यां च बर्हयः ॥२२॥वारिजा ह्यमृतोत्पन्ना अमृता नामतः स्मृताः ।वायूत्पनाना मुदा नाम भूमिजा मृगवस्तथा ॥२३॥विद्युतोऽत्र रुचो नाम मृत्योः कन्याश्च भीरवः ।शोभयन्त्यश्च कामस्य गणाः प्रोक्ताश्चतुर्दश ॥२४॥इत्येते बहुसाहस्रा भास्वरा अप्सरोगणाः ।देवतानामृषीणां च पत्न्यश्च मातरश्च ह ॥२५॥सुगन्धाश्चाथ निष्पन्दा सर्वाश्चाप्सरसः समाः ।संप्रयोगस्तु कामेन माद्यं दिवि हरं विना ॥२६॥तासां देवर्षि संस्पर्शा जाताः साधारणा यतः ।पर्वतस्तत्र संभूतो नारदश्चैव तावुभौ ॥२७॥ततो यवीयसी चैव तृतीयारुन्धती स्मृता ।देवर्षिभ्यस्तयोर्जन्म यस्मान्नारदपर्वतौ ॥२८॥तस्मात्तौ तत्सनामानौ स्मृतौ नारदपर्वतौ ।विनतायाश्च पुत्रौ द्वौ अरुणौ गरुडश्च ह ॥२९॥गायत्र्यादीनि छन्दांसि सौपर्णेयानि पक्षिणाः ।व्यवहार्याणि सर्वाणि ऋजुसन्निहितानि च ॥३०॥क्रद्रूर्नागसहस्रं वै विजज्ञे धरणीधरम् ।अनेकशिरसां तेषां खेचराणां महात्मनाम् ॥३१॥बहुत्वान्नामधेयानां प्रधानांश्च निबोधत ।तेषां प्रधाना नागानां शेषवासुकितक्षकाः ॥३२॥अकर्णो हस्तिकर्णश्च पिजरश्चार्यकस्तथा ।ऐरावतो महापद्मः कंबलाश्वतरावुभौ ॥३३॥एलापत्रश्च शङ्खश्च कर्केटकधनञ्जयौ ।महाकर्णमहानीलौ धृतराष्ट्रबलाहकौ ॥३४॥करवीरः पुष्पदंष्ट्रः सुमुखो दुर्मुखस्तथा ।सूनामुखो दधिमुखः कालियश्चालिपिण्डकः ॥३५॥कपिलश्चांबरीषश्च अक्रूरश्च कपित्थकः ।प्रह्रादस्तु ब्रह्मणाश्च गन्धर्वोऽथ मणिस्थकः ॥३६॥नहुषः कररोमा च मणिरित्येवमादयः ।काद्रवेयाः समाख्याताः खशायास्तु निबोधत ॥३७॥खशा विजज्ञे द्वौ पुत्रौ विकृतौ परुषव्रतौ ।श्रेष्ठं पश्चिमसंध्यायां पूर्वस्यां च कनीयसम् ॥३८॥विलोहितैककर्णं च पूर्वं साजनयत्सुतम् ।चतुर्भुजं चतुष्पादं किञ्चित्स्पन्दं द्विधागतिम् ॥३९॥सर्वङ्गकेशं स्थूलाङ्गं शुभनासं महोदरम् ।स्वच्छशीर्षं महाकर्णं मुञ्जकेशं महाबलम् ॥४०॥ह्रस्वास्यं दीर्घजिह्वं च बहुदंष्ट्रं महाहनुम् ।रक्तपिङ्गाक्षपादं च स्थूलभ्रूदीर्घनासिकम् ॥४१॥गुह्यकं शितिकण्ठं च महापादं महामुखम् ।एवंविधं खशापुत्रं जज्ञेऽसावतिभीषणम् ॥४२॥तस्यानुजं द्वितीयं सा ह्युषस्यन्ते व्यजायत ।त्रिशीर्षं च त्रिपादं च त्रिहस्तं कृष्णलोचनम् ॥४३॥ऊर्द्ध्वकेशं हरिच्छ्मश्रुं शिलासंहननं दृढम् ।ह्रस्वकायं प्रबाहुं च महाकाय महारवम् ॥४४॥आकर्णदारितास्यं च बलवत्सथूलनासिकम् ।स्थूलौष्ठमष्टदंष्ट्र च जिह्मास्यं शङ्कुकर्णकम् ॥४५॥पिङ्गलोद्वत्तनयनं जटिलं द्वन्द्वपिण्डकम् ।महास्कन्धं महोरस्कं पृथुघोणं कृशोदरम् ॥४६॥अस्थूलं लोहितं ग्रीवलंबमेढ्राण्डपिडकम् ।एवंविधं कुमारं सा कनिष्ठं समसूयत ॥४७॥सद्यः प्रसूतमात्रौ तौ विवृद्धौ च प्रमादतः ।उपयौगसमर्थाभ्यां शरीराभ्यां व्यवस्थितौ ॥४८॥सद्योजातौ विवृद्धाङ्गौ मातरं पर्यकर्षताम् ।तयोः पूर्वस्तु यः क्रूरो मातरं सोऽभ्य कर्षत ॥४९॥ब्रुवंश्च मातर्भक्षाव रक्षार्थं क्षुधयार्दितः ।न्यषेधयत्पुनर्ह्येनं स्वयं स तु कनिष्ठकः ॥५०॥पूर्वेषां क्षेमकृत्त्वं वै रक्षैतां मातरं स्वकाम् ।बाहुभ्यां परिगृह्यैनं मातरं सोऽभ्यभाषयत् ॥५१॥एतस्मिन्नेव काले तु प्रादुर्भूतस्तयोः पिता ।तौ दृष्ट्वा विकृता कारौ खशां तामभ्यभाषत ॥५२॥तौ सुतौ पितरं दृष्ट्वा ह्येकभूतौ भयान्वितौ ।मातुरेव पुनश्चाङ्गे प्रलीयेतां स्वमायया ॥५३॥अथाब्रवीदृषिर्भार्यां किमाभ्यामुक्तवत्यसि ।सर्वमाचक्ष्व तत्त्वेन तवैवायं व्यतिक्रमः ॥५४॥मातृतुल्यश्च जनने पुत्रो भवति कन्यका ।यथाशीला भवेन्माता तथाशीलो भवेत्सुतः ॥५५॥यद्वर्णा तु भवेद्भूमिस्तद्वर्णं सलिलं ध्रुवम् ।मातॄणां शीलदोषेण तथा रूपगुणैः पुनः ॥५६॥विभिन्नास्तु प्रजाः सर्वास्तथा ख्यातिवशेन च ।इत्येवमुक्त्वा भगवान्खशामप्रतिमस्तदा ॥५७॥पुत्रावाहूय साम्ना वै चक्रे ताभ्यां तु नामनी ।पुत्राभ्यां यत्कृतं तस्यास्तदाचष्ट खशा तदा ॥५८॥माता यथा समाख्याता तर्माभ्यां च पृथक्पृथक् ।तेन धात्वर्थयोगेन तत्तदर्थे चकार ह ॥५९॥मातर्भक्षेत्यथोक्तो वै खादने भक्षणे च सः ।भक्षावेत्युक्तवानेष तस्माद्यक्षोऽभवत्त्वयम् ॥६०॥रक्ष इत्येष धातुर्यः पालने स विभाव्यते ।उक्तवांश्चैष यस्मात्तु रक्षेमां मातरं स्वकाम् ॥६१॥नाम्ना रक्षोऽपरस्तस्माद्भविष्यति तवात्मजः ।स तदा तद्विधां दृष्ट्वा विक्रियां च तयोः पिता ॥६२॥तदा भाविनमर्थं च बुद्ध्वा मात्रा कृतं तयोः ।तावृभौ क्षुधितौ दृष्ट्वा विस्मितः परिमृष्टधीः ॥६३॥तयोः प्रादिशदाहारं खशापतिरसृग्वसे ।पिता तौ क्षुधितौ दृष्ट्वा वर मेतं तयोर्ददौ ॥६४॥युवयोर्हस्तसंस्पर्शाद्रक्तधाराश्च सर्वशः ।सृङ्मांसवसाभूता भविष्यन्तीह कामतः ॥६५॥नक्ताहारविहारौ च द्विजदेवादिभोजनौ ।नक्तं चैव बलीयांसौ दिवा वै निर्बलौ युवाम् ॥६६॥मातरं रक्षत इमां धर्मश्चैवानुशिष्यते ।इत्युक्त्वा काश्यपः पुत्रौ तत्रैवान्तरधीयत ॥६७॥गते पितरि तौ क्रूरौ निसर्गादेव दारुणौ ।विपर्ययेषु वर्त्तेतेऽकृतज्ञौ प्राणिहिंसकौ ॥६८॥महाबलौ महासत्त्वौ महाकायौ दुरासदौ ।मायाविदावदृश्यौ तावन्तर्धानगतावुभौ ॥६९॥तौ कामरूपिणौ घोरौ नीरुजौ च स्वभावतः ।रूपा नुरूपैराचारैः प्रचरन्तौ प्रबाधकौ ॥७०॥देवानृषीन्पितॄंश्चैव गन्धर्वान्किन्नरानपि ।पिशाचांश्चमनुष्यांश्चपन्नगान्पक्षिणः पशून् ॥७१॥भक्षार्थमिह लिप्संतौ चेरतुस्तौ निशाचरौ ।इन्द्रस्यानुचरौ चैव क्षुब्धौ दृष्ट्वा ह्यतिष्ठताम् ॥७२॥राक्षसं तं कदाचिद्वै निशीथे ह्येक मीश्वरम् ।आहारं स परीप्सन्वै शब्देनानुससार ह ॥७३॥आससाद पिशाचौ वै त्वजः शण्ढश्च ताबुभौ ।कपिपुत्रौ महावीर्यौं कूष्माडौ पूर्वजावुभौ ॥७४॥पिङ्गाक्षावूर्द्ध्वरोमाणौ वृत्ताक्षौ च सुदारुणौ ।कन्याभ्यां सहितौ तौ तु ताभ्यां भर्तुश्चिकीर्षया ॥७५॥ते कन्ये कामरूपिण्यौ तदाचारमुभे च तम् ।आहारार्थे समीहन्तौ सकन्यौ तु बुभुक्षितौ ॥७६॥अपश्यतां रक्षसं तौ कामरूपिणमग्रतः ।सहसा सन्निपातेन दृष्ट्वा चैव परस्परम् ॥७७॥ईक्षमाणाः स्थितान्योन्यं परस्परजिघृक्षवः ।पितरावूचतुः कन्ये युवा मानयत द्रुतम् ॥७८॥जीवग्राहं निगृह्यैनं विस्फुरन्तं पदेपदे ।ततस्तमभिसृत्यैनं कन्ये जगृहतुस्तदा ॥७९॥संगृहीत्वा तु हस्ताभ्यामानीतः पितृसंसदि ।ताभ्यां कन्यागृहीतं तं पिशाचौ वीक्ष्य रक्षसम् ॥८०॥अपृच्छतां च कस्य त्वं स च सर्वमभाषत ।तस्य कर्माभिजाती च श्रुत्वा तौ रक्षसस्तदा ॥८१॥अजः शण्डश्च तस्मै ते कन्यके प्रत्यपादयत् ।तौ तुष्टौ कर्मणा तस्य कन्ये ते ददतुस्तु वै ॥८२॥पैशाचैन विवाहेन रुदन्त्यावुद्ववाह सः ।अजः शण्डः सुताभ्यां तु तदा श्रावयतां धनम् ॥८३॥इयं ब्रह्मधना नाम कन्या या सहिता शुभा ।ब्रह्म तस्यापराहार इति शण्डोऽभ्यभाषत ॥८४॥इयं जन्तुधना नाम कन्या सर्वाङ्गजन्तिला ।जन्तुभाव धनादाना इत्यजौऽश्रावयद्धनम् ॥८५॥सर्वाङ्गकेशापाशा च कन्या जन्तुधना तु या ।यातुधानप्रसूता सा कन्या चैव महारवा ॥८६॥अरुणा चाप्यलोमा च कन्या ब्रह्मधना तु या ।ब्रह्मधानप्रसूता सा कन्या चैव महारवा ॥८७॥एवं पिशाचकन्ये ते मिथुने द्वे प्रसूयताम् ।तयोः प्रजानिसर्गं च कथयिष्ये निबोधत ॥८८॥हेतिः प्रहेतिरुग्रश्च पौरुषेयौ वधस्तथा ।विद्युत्स्फूर्जश्च वातश्च आयो प्याघ्रस्तथैव च ॥८९॥सूर्यश्च राक्षसा ह्येते यातुधानात्मजा दश ।माल्यवांश्च सुमाली च प्रहेतितनयौ शृणु ॥९०॥प्रहेतितनयः श्रीमानपुलोमा नाम विश्रुतः ।मधुः परो महोग्रस्तु लवणस्तस्य चात्मजः ॥९१॥महायोगबलोपेतो महा देवमुपस्थितः ।उग्रस्य पुत्रौ विक्रान्तो वज्रहा नाम विश्रुतः ॥९२॥पौरुषेयसुताः पञ्च पुरुषादा महाबलाः ।कूरश्च विकृतश्चैव रुधिरादस्तथैव च ॥९३॥मेदाशश्चवपाशश्च नामभिः परिकीर्त्तिताः ।वधपुत्रौ दुराचारौ विघ्नश्च शामनश्च ह ॥९४॥विद्युत्पुत्रो दुराचारो रसनो नाम राक्षसः ।स्फूर्जक्षेत्रे निकुंभस्तु जातो वै ब्रह्मराक्षसः ॥९५॥वातपुत्रो विरोधस्तु तथा यस्य जनातकः ।व्याघ्र पुत्रो निरानन्दः क्रतूनां विघ्नकारकः ॥९६॥सर्वस्य चान्वये जाता पूराः सर्पाश्च राक्षसाः ।यातुधानाः परिक्रान्ता ब्रह्म धानान्निबोधत ॥९७॥यज्ञापेतो धृतिः क्षेमो ब्रह्मपेतश्च यज्ञहा ।श्वातोंऽबुकः केलिसर्पौं ब्रह्मधानात्मजा नव ॥९८॥स्वसारो ब्रह्मराक्षस्यस्तेषां चेमाः सुदारुणाः ।रक्तकर्णी महाजिह्वा क्षमा चेष्टापहारिणी ॥९९॥एतासामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः ।इत्येते राक्षसाः क्रान्ता यक्षस्यविनिबोधत ॥१००॥चकमे सरसं यक्षः पञ्चचूडां क्रतुस्थलाम् ।तल्लिप्सुश्चिन्तयानः स देवोद्यानानि मार्गते ॥१०१॥वैभ्राजं सुरभिं चैव तथा चैत्ररथं च यत् ।विशोकं सुमनं चैव नन्दनं च वनोत्तमम् ॥१०२॥बहूनि रमणीयानि मार्गते जातलालसः ।दृष्ट्वा तां नन्दने सोऽथ अप्सरोभिः सहासिनीम् ॥१०३॥नोपायं विन्दते तत्र तस्या लाभाय चिन्तयन् ।दूषितः स्वेन रूपेण कर्मणा चैव दूषितः ॥१०४॥ममोद्विजन्ति हिंस्रस्य तथाभूतानि सर्वशः ।तत्कथं नाम चार्वगीं प्राप्नुयामहमङ्गनाम् ॥१०५॥दृष्ट्वोपायं ततः सोऽथ शीघ्रकारी व्यवर्त्तयत् ।कृत्वा रूपं वसुरुचेर्गन्धर्वस्य च गुह्यकः ॥१०६॥ततः सोऽप्सरसां मध्ये ता जचग्राह क्रतुस्थलाम् ।बुद्ध्वा वसुरुचिं तं सा भावेनैवाभ्यावर्त्तत ॥१०७॥संभूतः स तया सार्द्धं दृश्यमानोऽप्सरोगणैः ।जगाम मैथुनं यक्षः पुत्रार्थं स तया सह ॥१०८॥दृश्यमानोऽप्सरो लिप्सुः शङ्कां नैव चकार सः ।ततः संसिद्धकारणः सद्यो जातः सुतस्तु वै ॥१०९॥उछ्रयात्परिणाहेन सद्यो वृद्धः श्रिया ज्वलन् ।राजाहमिति नाभिर्हि पितरं सोऽभ्यवादयत् ॥११०॥भवान् रजतनाभेति पिता तं प्रत्युवाच ह ।मात्रानुरूपो रूपेम पितुर्वीर्येणजायते ॥१११॥जाते तस्मिन्कुमारे तु स्वरुपं प्रयपद्यत ।स्वरूपं प्रतिपद्यन्ते गूहन्तो यक्षराक्षसाः ॥११२॥सुप्ता म्रियन्तः क्रुद्धाश्च भीतास्ते हर्षितास्तथा ।ततोऽब्रवीत्सोऽप्सरसं स्मयमानस्तु गुह्यकः ॥११३॥गृहं मे गच्छ भद्रं ते सपुत्रा त्वं वरानने ।इत्युक्त्वा सहसा तत्र दृष्ट्वा स्वं रूपमास्थितम् ॥११४॥विभ्रान्ताः प्रद्रुताः सर्वाः समेत्याप्सरसस्तदा ।गच्छन्तीमन्वगच्छत्तां पुत्रस्तप्तां त्वयन्शिरा ॥११५॥गन्धर्वाप्सरसां मध्ये नयित्वा स न्यवर्त्तत ।तां च दृष्ट्वा समुत्पत्तिं यक्षस्याप्सरसां गणाः ॥११६॥यक्षाणां तु जनित्री त्वं इत्यूचुस्तां क्रतुस्थलाम् ।जगाम सह पुत्रेण ततो यक्षः स्वमालयम् ॥११७॥न्यग्रोधो रोहिणो नाम्ना शेरते तत्र गुह्यकाः ।तस्मिन्निवासो यक्षाणां न्यग्रोधे रोहिणे स्मृतः ॥११८॥यक्षो रजतनाभश्च गुह्यकानां पितामहः ।अनुह्रादस्य दैत्यस्य भद्रां मणिवरां सुताम् ॥११९॥उपयेमेऽनवद्याङ्गीं तस्यां मणिवरो वशी ।जज्ञे सा मणिभद्रं च शक्रतुल्यपराक्रममम् ॥१२०॥तयोः पत्न्यौ भगिन्यौ च क्रतुस्थस्यात्मजे शुभे ।नाम्ना पुण्यजनी चैव तथा देवजनी च या ॥१२१॥विजज्ञे पणिभद्रातु पुत्रान्पुण्यजनी शुभा ।सिद्धार्थं सूर्यतेजश्च सुमनं नन्दनं तथा ॥१२२॥मण्डूकं रुचकं चैव मणिमन्तं वसुं तथा ।सर्वानुभूतं शङ्खं च पिङ्गाक्षं भीरुमेव च ॥१२३॥असोमं दूरसोमं च पद्मं चन्द्रप्रभं तथा ।मेघवर्णं सुभद्रं च प्रद्योतं च महाद्युतिम् ॥१२४॥द्युति मन्तं केतुमन्तं दर्शनीयं सुदर्शनम् ।चत्वारो विंशतिश्चैव पुत्राः पुण्यजनीभवाः ॥१२५॥जज्ञिरे मणिभद्रस्य सर्वे ते पुण्यलक्षणाः ।तेषां पुत्राश्च पौत्राश्च यक्षाः पुण्यजनाः शुभाः ॥१२६॥विजज्ञे वै देवजनी पुत्रान्मणिवराञ्छुभा ।पूर्णभद्रं हैमवन्तं मणिमन्त्रविवर्द्धनौ ॥१२७॥कुसुं चरं पिशङ्गं च स्थूलकर्णं महामुदम् ।स्वेतं च विमलं चैव पुष्पदन्तं चयावहम् ॥१२८॥पद्मवर्णं सुचन्द्रं च पक्षञ्च बलकं तथा ।कुमुदाक्षं सुकमलं वर्द्धमानं तथा हितम् ॥१२९॥पद्मनाभं सुगन्धं च सुवीरं विजयं कृतम् ।पूर्ममासं हिरण्याक्षं सारणं चैव मानसम् ॥१३०॥पुत्रा मणिवरस्यैते यक्षा वै गुह्यकाः स्मृताः ।सुरुपाश्च सुवेषाश्च स्रग्विणः प्रियदर्शनाः ॥१३१॥तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।खशायास्त्वपरे पुत्रा राक्षसाः कामरूपिणः ॥१३२॥तेषां यथा प्रधानान्वै वर्ण्यमा नान्निबोधत ।लालाविः क्रथनो भीमः सुमाली मधुरेव च ॥१३३॥विस्फूर्जनो बृहज्जिह्वो मातङ्गो धूम्रितस्तथा ।चन्द्रार्कभीकरो बुध्नः कपिलोमा प्रहासकः ॥१३४॥पीडापरस्त्रिनाभश्च वक्राक्षश्च निशाचरः ।त्रिशिराः शतदंष्ट्रश्च तुण्डकोशश्च राक्षसः ॥१३५॥अश्वश्चाकंपनश्चैव दुर्मुखश्च निशाचरः ।इत्येते राक्षसवारा विक्रान्ता गणरूपिमः ॥१३६॥सर्वलोकचरास्ते तु त्रिदशानां समक्रमाः ।सप्त चान्या दुहितरस्ताः शृणुध्वं यथाक्रमम् ॥१३७॥यासां च यः प्रजासर्गो येन चोत्पादिता गणाः ।आलंबा उत्कचोत्कृष्टा निरृता कपिला शिवा ॥१३८॥केशिनी च महाभागा भगिन्यः सप्त याः स्मृताः ।ताभ्यो लोकनिकायस्य हन्तारो युद्धदुर्मदाः ॥१३९॥उदीर्णा राक्षसगणा इमे चोत्पादिताः शुभाः ।आलंबेयो गणः क्रूर औत्कचेयो गणस्तथा ॥१४०॥तथौ त्कार्ष्टेयशैवेयौ रक्षसां ह्युत्तमा गणाः ।तथैव नैरृतो नाम त्र्यंबकानुचरेण ह ॥१४१॥उत्पादितः प्रजाकर्गे गणेश्वरवरेण तु ।विक्रान्ताः शौर्यसंपन्ना नैरृता देवराक्षसाः ॥१४२॥येषामधिपतिर्युक्तो नाम्ना ख्यातो विरूपकः ।तेषां गणशतानीका उद्धतानां महात्मनाम् ॥१४३॥प्रायेणानुचरन्त्येते शङ्करं जगतः प्रभुम् ।दैत्यराजेन कुम्भेन महाकाया महात्मना ॥१४४॥उत्पादिता महावीर्या महाबलपराक्रमाः ।कापिलेया महावीर्या उदीर्णा दैत्यराक्षसाः ॥१४५॥कपिलेन च यक्षेण केशिन्यां ह्यपरे जनाः ।उत्पादिता बलावता उदीर्णा यक्षराक्षसाः ॥१४६॥केशिनी दुहिता चैव नीला या श्रुद्रराक्षसी ।आलंबेयेन जनिता नैकाः सुरसिकेन हि ॥१४७॥नैला इति समाख्याता दुर्जया घोरविक्रमाः ।चरन्ति पृथिवीं कृत्स्नां तत्र ते देवलौकिकाः ॥१४८॥बहुत्वाच्चैवसर्गस्य तेषां वक्तुं न शक्यते ।तस्यास्त्वपि च नीलाया विकचा नाम राक्षसी ॥१४९॥दुहिता सुताश्च विकया महा सत्त्वपराक्रमाः ।विरूपकेन तस्यां वै नैरृतेन इह प्रजाः ॥१५०॥उत्पादिताः सुघोराश्च शृणु तास्त्वनुपूर्वशः ।दंष्ट्राकराला विकृता महाकर्णा महोदराः ॥१५१॥हारका भीषकाश्चैव तथैव क्लामकाः परे ।रेरवाकाः पिशाचाश्च वाहकास्त्रासकाः परे ॥१५२॥भूमिराक्षसका ह्येते मन्दाः परुपविक्रमाः ।चरन्त्यदृष्टपूर्वास्तु नानाकारा ह्यनेकशः ॥१५३॥उत्कृष्टबलसत्त्वा ये तेषां वैखेचराः स्मृताः ।लक्षमात्रेण चाकाशं स्वल्पात्स्वल्पं चरन्ति वै ॥१५४॥एतैर्व्याप्तमिदं विश्वं शतशोऽथ सहस्रशः ।भूमिराक्षसकैः सर्वैरनेकैः क्षुद्रराक्षसैः ॥१५५॥नानाप्रकारैराक्रान्ता नाना देशाः समन्ततः ।समासाभिहिताश्चैवह्यष्टौ राक्षसमातरः ॥१५६॥अष्टौ विभागा ह्येषां हि व्याख्याता अनुपूर्वशः ।भद्रका निकराः केचिदज्ञनिष्पत्तिहेतुकाः ॥१५७॥सहस्रशतसंख्याता मर्त्य लोकविचारिणः ।पूतरा मातृसामान्यास्तथा भूतभयङ्कराः ॥१५८॥बालानां मानुषे लोके ग्रहा मरणहेतुकाः ।स्कन्दग्रहादयो हास्या आपकास्त्रासकादयः ॥१५९॥कौमारास्ते तु विज्ञेया बालानां गृहवृत्तयः ।स्कन्दग्रहविशेषाणां मायिकानां तथैव च ॥१६०॥पूतना नाम भूतानां ये च लोकविनायकाः ।एवं गणसहस्राणि चरन्ति पृथिवीमिमाम् ॥१६१॥यक्षाः पुण्यजना नामपूर्णभद्राश्च ये स्मृताः ।यक्षाणां राक्षसानां च पौलस्त्यागस्तयश्च ये ॥१६२॥नैरृतानां च सर्वेषां राजभूदलकाधिपः ।यक्षादृष्ट्या पिबन्तीह नॄणां मांसमसृग्वसे ॥१६३॥रक्षांस्यनुप्रवेशेन पिशाचैः परिपीडनैः ।सर्वलक्षणसंपन्नाः समामैश्चापि दैवतैः ॥१६४॥भास्वरा बलवन्तश्च ईश्वराः कामरूपिणः ।अनाभिभाव्या विक्रान्ताः सर्वलोकनमस्कृताः ॥१६५॥सूक्ष्माश्चौजस्विनोमेध्या वरदा याज्ञिकाश्च वै ।देवानां लक्षणं ह्येतदसुराणां तथैव च ॥१६६॥हीना देवैस्त्रिभिः पादैर्गन्धर्वाप्सरसः स्मृताः ।गन्धर्वेभ्यस्त्रिभिः पादैर्हीना गुह्यकराक्षसाः ॥१६७॥ऐश्वर्यहीना रक्षोभ्यः पिशाचास्त्रिगुणां पुनः ।एवन्धनेन रूपेण आयुषा च बलेन च ॥१६८॥धर्मैश्वर्येण बुद्ध्या च तपःश्रुतपराक्रमैः ।देवासुरेभ्यो हीयन्ते त्रींस्त्रीन्पादान्परस्परम् ॥१६९॥गन्धर्वाद्याः पिशाचान्ताश्चतस्रो देवयोनयः ।अतः शृणुत भद्रं वः प्रजाः क्रोधवशान्वयाः ॥१७०॥क्रोधायाः कन्यका जज्ञे द्वादशैवात्मसंभवाः ।ता भार्या पुलहस्यासन्नामतो मे निबोधत ॥१७१॥मृगी च मृगमन्दा च हरिभद्रा त्विरावती ।भूता च कपिशा दंष्ट्रा ऋषा तिर्या तथैव च ॥१७२॥श्वेता च सरमा चैव सुरसा चेति विश्रुता ।मृग्यास्तु हरिगाः पुत्रा मृगश्चान्ये शशास्तथा ॥१७३॥न्यङ्कवःशरभा ये च रुरवः पृषताश्च ये ।ऋक्षाश्च मृगमन्दाया गवयाश्चापरे तथा ॥१७४॥महिषोष्ट्रवराहश्च खड्गा गौरमुखास्तथा ।हर्य्या स्तु हरयः पुत्रा गोलाङ्गूलास्तरक्षवः ॥१७५॥वानराः किन्नराश्चैव मायुः किंपुरुषास्तथा ।सिंहाव्याघ्राश्च नीलाश्चद्वीपिनः क्रोधिताधराः ॥१७६॥सर्पाश्चाजगरा ग्राहा मार्जारा मूषिकाः परे ।मण्डूका नकुलाश्चैव वल्कका वनगोचराः ॥१७७॥हंसं तु प्रथमं जज्ञे पुलहस्य वरं शुभा ।रणचन्द्रं शतमुखं दरीमुखमथापि च ॥१७८॥हरितं हरिवर्माणं भीषणं शुभलक्षणम् ।प्रथितं मथितं चैव हरिणं लाङ्गलिं तथा ॥१७९॥श्वेताया जज्ञिरे वीरा दश वानरपुङ्गवाः ।ऊर्द्ध्वदृष्टिः कृताहारः सुव्रतो विनतो बुधः ॥१८०॥पारिजातः सुजातश्च हरिदासो गुणाकरः ।क्षेममूर्तिश्च बलवान् राजानः सर्व एव ते ॥१८१॥तेषां पुत्राश्च पौत्राश्च बलवन्तः सुदुःसहाः ।अशक्याः समरेजेतुं देवदानवमानवैः ॥१८२॥यक्षभूतपिशाचैश्च राक्षसैः सुभुजङ्गमैः ।नाग्निशस्त्रविषैरन्यैर्मृत्युरेषां विधीयते ॥१८३॥असंगगतयः सर्वे पृथिव्यां व्योम्नि चैव हि ।पाताले च जले वायौ ह्यविनाशिन एव ते ॥१८४॥दशकोटिसहस्राणि दशार्बुदशतानि च ।महापद्मसहस्राणि महापद्मशतानि च ॥१८५॥दशार्बुदानि कोटीनां सहस्राणां शतं शतम् ।नियुतानां सहस्राणि निखर्वाणां तथै व च ॥१८६॥दशार्बुदानि कोटीनां षष्टिकोटिस्तथैव च ।अर्बुदानां च लक्षं तु कोटीशतमथापरम् ॥१८७॥दश पद्मानि चान्यानि महापद्मानि वै नव ।संख्यातानि कुलीनानां वानराणां तरस्विनाम् ॥१८८॥सर्वे तेजस्विनः शूराः कामरूपा महा बलाः ।दिव्याभरणवेषाश्च ब्रह्मण्याश्चाहितग्नयः ॥१८९॥यष्टारः सर्वयज्ञानां सहस्रशतदक्षिणाः ।मुकुटैः कुण्डलैर्हारैः केयूरैः समलङ्कृताः ॥१९०॥वेदवेदाङ्गविद्वांसो नीतिशास्त्रविचक्षणाः ।अस्त्राणां मोचने चापि तथा संहारकर्मणि ॥१९१॥दिव्यमं त्रपुरस्कारा दिव्यमन्त्रपुरस्कृताः ।समर्था बलिनः शूराः सर्वशस्त्रप्रहारिणः ॥१९२॥दिव्यरूपधराः सौम्या जरामरणवर्जिताः ।कुलानां च सहस्राणि दश तेषां महात्मनाम् ॥१९३॥चतुर्षु मेरुपार्श्वेषु हेमकूटे हिमाह्वये ।नीले श्वेतनगे चैव निषधे गन्धमादने ॥१९४॥द्वीपेषु सप्तसु तथा या गुहा ते च पर्वताः ।निलयास्तेषु ते प्रोक्ता विश्वकर्मकृता स्वयम् ॥१९५॥पुरैश्च विविधाकारैः प्रकारैश्च विभूषिताः ।सर्वर्तुरमणीयास्ते ह्युद्यानानि च सर्वशः ॥१९६॥गृहभूमिषु शय्यासु पुष्पगन्धसुखोदिताः ।आलेपनैश्च विविधैर्दिव्यभक्तिकृतैस्तथा ॥१९७॥सर्वरत्नसमाकीर्णा मानसीं सिद्धिमास्थिताः ।वानरा वानरीभिस्ते दिव्याभरणभूषिताः ॥१९८॥पिबन्तो मधु माध्वीकं सुधाभक्षानुमिश्रितम् ।क्रियामयाः समुदिता दिवि देवगणा इव ॥१९९॥देवगन्धर्वमुख्यानां पुत्रास्ते वै सुखे रताः ।धार्मिकाश्च वरोत्सिक्ता युद्धशैण्डा महाबलाः ॥२००॥अक्षुद्राः सर्वसत्त्वानां देवद्विजपरायणाः ।अम्लानिनः सत्यसंधा नानार्थे बहुजल्पिनः ॥२०१॥मितभाषाः क्षमावन्तो ह्याचारपरिनिष्ठिताः ।वनालङ्कारभूतो हि सृष्टा वै ब्रह्मणा स्वयम् ॥२०२॥भक्त्या निमित्तं लोकेषु रामस्यार्थे गुणाकरः ।कपीनामवतारोऽयं सर्वपापविनाशनः ॥२०३॥धन्यः पुण्यो यशस्यश्च रमणीयः सुखावहः ।तदेव कीर्तयिष्यामि तच्छृणुध्वमतन्द्रिताः ॥२०४॥ऊर्द्ध्वदृष्टेश्च तनयो प्याघ्रो नामाभवद्भली ।व्याघ्रस्य भ्रातरः पञ्च स्वसारश्च तथास्य वै ॥२०५॥तांस्तथा स्वानुरूपेषु वानरेषु कृतात्मसु ।प्रतिपादिता स्वयं भ्रात्रा भातृदारास्तथैव च ॥२०६॥व्याघ्रस्य तु सुतो जज्ञे शरभोलोकविश्रुतः ।शरभस्यापि विद्धांसो भ्रातरो वीर्यसंमताः ॥२०७॥राजानो वानराणां च सर्वधर्मप्रतिष्ठिताः ।शरभस्य सुतो धीमाञ्शुको नाम महाबलः ॥२०८॥तस्यापि पुत्रो बलवान्व्यघ्री जठरसंभवः ।संमतः सर्वशूराणां चक्रवर्ति दुरासदः ॥२०९॥ऋक्षोनाम महातेजाः सर्ववानरयूथपः ।इन्ता सदैव शत्रूणां सर्वास्त्रविधिपारगः ॥२१०॥तस्मै तादृग्विशिष्टाय सुतां गुणगणैर्युताम् ।प्रजापतिरुपादाय कन्यां हेमविभूषिताम् ॥२११॥विरजौ विरजां तस्मै प्रत्यपादयदं जसा ।पाणिं जग्राह तस्यास्तु ऋक्षो वानरयूथपः ॥२१२॥दर्शनीयानवद्याङ्गी सा कन्या चारुहासिनी ।चकमे तां महेन्द्रस्तु दृष्ट्वा वै प्रियदर्शनाम् ॥२१३॥तेन तस्यां सुतो जातो वाली विक्रमपौरुषः ।विरजायां महेन्द्रेण महेन्द्रसमविक्रमः ॥२१४॥तथा स्वांशो भानुना वै तस्यामेव यधाविधि ।रहस्युत्पादितः पुत्रः सुग्रीवो हरियूथपः ॥२१५॥ऋक्षो दृष्ट्वा तु तनयौ बलरूपश्रिया युतौ ।हर्ष चक्रे सुविपुलं सर्ववानरयूथपः ॥२१६॥सोऽब्यषिञ्चत्सुतं ज्येष्ठं वालिनं हेममालिनम् ।अभिषिक्तस्ततो वाली सुग्रीवानुगतो बली ॥२१७॥कारयामास राज्यं च दिवि देवेश्वरो यथा ।सुषेणास्य सुता चापि भार्या तस्य महात्मनः ॥२१८॥तारा नाम महाप्राज्ञा ताराधिपनिभानना ।सुषुवे सापि तनयमङ्गदं कनकाङ्गदम् ॥२१९॥अङ्गदस्यापि तनयो जातो भीमपरा क्रमः ।मैन्दस्य च्येष्ठकन्यायां ध्रुवो नाम महायशाः ॥२२०॥सुग्रीवस्य रुमा भार्या पनसस्य सुता शुभा ।तस्यापि च सुता जातास्त्रयः परमकीर्त्तयः ॥२२१॥तेषां दारांस्तथासाद्य सुस्वरूपान्बली ततः ।वालिनः पार्श्वतोऽतिष्ठत्सुग्रीवः सह वानरैः ॥२२२॥बहून्वर्षगणानग्रो भ्रात्रा सह यथामरः ।केसरी कुञ्जरस्याथ सुतां भार्यामविन्दत ॥२२३॥अञ्जना नाम सुभागा गत्वा पुंसवने शुचिः ।पर्युपास्ते च तां वायुर्यौंवनादेव गर्विताम् ॥२२४॥तस्यां जातस्तु हनुमान्वायुना जगदायुना ।ये ह्यन्ये केसरिसुता विख्याता दिवि चेह वै ॥२२५॥ज्येष्ठस्तु हनुमांस्तेषां मतिमांस्तु ततः स्मृतः ।श्रुतिमान्केतुमांश्चैव मतिमान्धृतिमानपि ॥२२६॥हनुमद्भ्रातरो ये वै ते दारैः सुप्रतिष्ठताः ।स्वानरूपैः सुताः पित्रा पुत्रपौत्रसमन्विताः ॥२२७॥ब्रह्मचारी च हनुमान्नासौदारैश्च योजितः ।सर्वलोकानपि रणे यो योद्धुं च समुत्सहेत् ॥२२८॥जवे जवे च वितते वैनतेय इवापरः ।अग्निपुत्रश्च बलवान्नलः परमदुर्ज्जयः ॥२२९॥क्षेत्रे कनकबिन्दोस्तु जातो वानरपुङ्गवः ।तथात्वन्ये महाभागा बलवन्तश्च वानराः ॥२३०॥सप्रधानास्तु विज्ञेया हरियूथप यूथपाः ।तारश्च कुसुमश्चैव पनसो गन्धमादनः ॥२३१॥रूपश्रीर्विभवश्चैव गवयो विकटः सरः ।सुषेणः सुधनुश्चैव सुबन्धुः शतदुन्दुभिः ॥२३२॥विकचः कपिलो रौद्रः परियात्रः प्रभञ्जनः ।कुञ्जरः शरभो दंष्ट्री कालमूर्तिर्महासुखः ॥२३३॥नन्दः कन्दरसेनश्च नलो वारुणिरेव च ।चिरवः करवस्ताम्रश्चित्रयोधी रथीतरः ॥२३४॥भीमः शतबलिश्चैव कालचक्रोऽनलो नलः ।यक्षास्यो गहनश्चैव धूम्रः पञ्चरथस्तथा ॥२३५॥पारिजातो महादीप्तः सुतपा बलसागरः ।श्रुतायुर्विजयाकाङ्क्षी गुरुसेवी यथार्थकः ॥२३६॥धर्मचेतास्सुहोत्रश्च शालिहोत्रोऽथ सर्पगः ।पुण्ड्रश्चावरगात्रश्च चारुरूपश्च शतुजित् ॥२३७॥विकटः कवटो मैन्दो बिन्दुकारोऽसुरान्तकः ।मन्त्री भीमरथः संगो विभ्रान्तश्चारुहासवान् ॥२३८॥क्षणक्षणामताहारी दृढभक्तिः प्रमर्दनः ।जाजलिः पञ्चमुकुटो बलबन्धुः समाहितः ॥२३९॥पयः कीर्त्तिः शुभः क्षेत्रो बिन्दुकेतुः सहस्रपात् ।नवाक्षे हरिनेत्रश्च जीमूतोऽथ बलाहकः ॥२४०॥गजो गवयनामा च सुबाहुश्च गुणाकरः ।वीरबाहुः कृती कुण्डो कृतकृत्यः शुभेक्षणः ॥२४१॥द्विविदः कुमुदो भासः सुमुखः सुरुवुर्वृकः ।विकटः कवकश्चैव जवसेनो वृषाकृतिः ॥२४२॥गवाक्षो नरदेवश्च सुकेतुर्विमलाननः ।सहस्वारः शुभक्षेत्रः पुष्पध्वंसो विलोहितः ॥२४३॥नवचन्द्रो बहुगुणः सप्तहोत्रो मरीचिमान् ।गोधामा च धनेशश्च गोलाङ्गूलश्च नेत्रवान् ॥२४४॥इत्येते हरयः क्रान्ताः प्राधान्येन यथार्थतः ।बहुत्वान्नामधेयानां न शक्यमभिवर्णितुम् ॥२४५॥नागकोटीदशबले एकैकस्य प्रतिष्ठितम् ।सर्ववानरसैन्यस्य सप्तद्वीपस्थितस्य तु ॥२४६॥किष्किन्धामाश्रितो वाली राजासीच्छत्रुतापनः ।रणे निगूङ्य वामेन भुजेन स महाबलः ॥२४७॥विष्टभ्य पार्श्वेसंस्थाप्य रावणन्ध्यानमस्थितः ।मौहूर्तिकीं गतिं गत्वा चतुः परशर्वानुपस्पृशन् ॥२४८॥समुद्रं दक्षणं पूर्वपश्चिमं च तथोत्तरम् ।मनोवायुगतिर्भूत्वा वाली व्यपगतक्रमः ॥२४९॥स निर्जित्य महावीर्यो रावणं लोकरावणम् ।वाली बाहुविनिर्मुक्तं विह्वलं नष्टचेतसम् ॥२५०॥वृक्षमूलप्रदेशे च स्थापयित्वा बलोत्कटः ।सिच्यांभसा सुशीतेन ह्यापादतलमस्तकात् ॥२५१॥स च तं लब्धसंज्ञं च कृत्वा विस्मयमास्थितः ।उवाच रणचण्डं तं राक्षसेंद्रं कपीश्वरः ॥२५२॥भो भो राक्षसाजेन्द्र महेन्द्रसमविक्रम ।असंख्येयं बलं जित्वा यमं ससचिवं रणे ॥२५३॥वरुणं च कुबेरं च शशिनं भास्करं तथा ।मरुद्गणं तथा रुद्रानादित्यानश्विनौ वसून् ॥२५४॥दैतेयान्कालकेयांश्च दानवान्सुमहाबलान् ।सिद्धांस्तथैव गन्धर्वान्यक्षरक्षोभुजङ्गमान् ॥२५५॥पक्षिणां प्रवरांश्चैव ग्रहनक्षत्रतारकाः ।तथा भूतपिशाचांश्च विवृद्धबलदर्पितान् ॥२५६॥मानुषाणां नृपांश्चैव शतशोऽथ सहस्रशः ।कथमीदृग्गुणो भूत्वा मनोवायुसमो जवे ॥२५७॥शक्तोऽसि चालनि मेरोः कृतान्त इव दुर्जयः ।विद्राव्य सर्वोंल्लोकेषु वीरान्परपुरञ्ज्यः ॥२५८॥बलैरशनिकल्पैश्च समीकृत्य च पर्वतान् ।विक्षोभ्य सागरान्सप्त सप्तकृत्वो महारथः ॥२५९॥निर्विकारो जयप्रेप्सुः स्मयमानो बलाद्बली ।दुर्बलेन मया क्रान्तो वानरेण विशेषतः ॥२६०॥किमर्थमीदृशं शप्तो बलवानपि दुर्जयः ।प्रब्रूहि हेतुना केन ब्रह्मन्राक्षसपुङ्गव ॥२६१॥अभयं ते मया दत्तं विश्वस्तो भव ते न भीः ।वयनं वालिनः श्रुत्वा दशग्रीवः प्रतापवान् ॥२६२॥उवाच भयसंविग्नः सांत्वपूर्वमिदं वचः ।असंशयं जिताः सर्वे मया देवासुरा रणे ॥२६३॥एवं विधस्तु बलवान्न मयासादितः क्वचित् ।तदिच्छामि त्वया सार्द्धं सौहृदं भयवर्जितम् ॥२६४॥मत्तो भवेन्न ते वीर कदाचिद्वै रणाजिरम् ।एवमुक्तोऽब्रवीद्वाली भवत्येतद्वचस्तव ॥२६५॥समये स्थापयित्वा तु रावणो वालिनं पुरा ।जगाम लङ्कां सगणः प्रहृष्टेनान्तरात्मना ॥२६६॥वाली विजित्य बलवान् पुष्करे राक्षसेश्वरम् ।आजहार बहून्यज्ञानन्नपानसमावृतान् ॥२६७॥दक्षिणाभिः प्रवृद्धाभिः शतशोऽथ सहस्रशः ।अग्निष्टोमाश्वमेधांश्च राजसूयान्नृमेधकान् ॥२६८॥सर्वमेधानपि बहून्सर्वदानसमन्वितान् ।तर्पयित्वाथ देवांश्च देवेन्द्रंबहुभिस्तथा ॥२६९॥ब्रह्माणं तेषयित्वा च हुत्वाग्रिं बहुवार्षिकम् ।सुग्रीवेण सह भ्रात्रा सुखी भूत्वा यवीयसा ॥२७०॥राज्यं च पालयित्वा स कपीनामकुतोभयः ।ब्रह्मण्यो ब्रह्मपरमो धर्मसेतुः क्रियापरः ॥२७१॥बहून्वर्षगणान्रेमे सर्वशास्त्रविशारदः ।यस्य देवमुनिर्गाथां जगौ यज्ञेषु नारदः ॥२७२॥न यज्ञहवने दानेजवेनापि पराक्रमे ।तुल्योऽस्ति त्रिषु लोकेषु वालिनोहेममालिनः ॥२७३॥शांशपायन उवाचअहो महाप्रभा वस्तु महेन्द्रतनयो बली ।वाली यज्ञसहस्राणां यज्वा परमदुर्जयः ॥२७४॥चक्रवर्त्ती महाप्राज्ञे वाली च कथितस्त्वया ।मार्त डस्य तु नो ब्रूहि कथं मार्त्तण्डता स्मृता ।निरुक्तमस्य तु विभो याथातथ्येन सुव्रत ॥२७५॥सूत उवाचसृत्यमानेषु भूतेषु प्रजापतिरथ स्वयम् ॥२७६॥त्रैलोक्याद्यत्परं तेजस्तदाहृत्यादितेर्त्दृदि ।प्रवेशायामास तदा योगेन महता वृताः ॥२७७॥पूर्वमण्डं तु भगवानस्याश्चक्रे तथोदरे ।तत्रावर्त्तत गर्भो वै अण्डस्याभ्यन्तरे बली ॥२७८॥वर्द्धमानोऽतिमात्रं वै देवा निस्तेजसोऽभवन् ।सर्वतो निर्मितं ज्ञात्वा गर्भं ते त्दृततेजसः ॥२७९॥ऊचुः प्रजापतिं भीता कथं नो भविता त्विदम् ।बलं तेजोऽस्य भविता निर्मितस्याधिकं विभो ॥२८०॥नुनं कथं भविष्यामो नूनं नष्टा हि शाश्वत ।सर्वभूतानि यानीह स्यावराणि चरणि च ॥२८१॥तानि दग्धानि न चिराद्भविष्यन्ति न संशयः ।यदेडे स्थापितं तेजो बलं च द्विजसत्तम ॥२८२॥तत्संहर विचिन्त्येह यन्नः श्रेय स्करं भवेत् ।श्रुतितेजः प्रभावश्च धक्षते सर्वतोंऽजसा ॥२८३॥स चिन्तयित्वा भगवान्प्रजापतिरथाक्षिपत् ।बलं चाण्डे चकाराथ ततस्त्वण्डान्तरे शिशुः ॥२८४॥यदण्डं तद्बलं प्राहुर्यत्तेजः स शिशुर्मतः ।तत्तूदराद्विनिष्क्रान्तं मृतपिण्डोपमं स तु ॥२८५॥प्रजापतिस्ततो दृष्ट्वा तदण्डं वै द्विधाकरोत् ।शकले द्वे समास्थाय स एकस्मिन्नपश्यत ॥२८६॥गर्भं दुर्बलभावेन युक्तं तेजोमयं सकृत् ।तत्समुद्यम्य चोत्थायादिन्युत्संगे निवेद्य च ॥२८७॥उवाचादित्यभावच्च यस्मादण्डेन वै स्मृतः ।तेन मार्त्तण्ड इति वै कथ्यते सविता बुधैः ॥२८८॥तेजश्चैवाधिकं तस्मै निर्ममे प्रपितामहः ।ये ते अण्डकपाले द्वे तद्बलं परमं मतम् ॥२८९॥नाभौ पृथग्व्य वस्थाप्य इरावत्यै ददौ प्रभुः ।उदरे प्रवेशयामास तस्याः स जननेच्छया ॥२९०॥इरावत्यास्तथा जाताश्चत्वारो लोकसंमताः ।देवोपवाह्या राजानो हस्तिनो बलवत्तराः ॥२९१॥ऐरावणोऽथ कुमुदौ ह्यञ्जनो वामनस्तथा ।उत्तरत्र च वो भूयस्तेषां वक्ष्यामि विस्तरम् ॥२९२॥योऽयं प्रधानो लोकेऽस्मिन्नधिकेनामितौजसा ।भगवान्सविता साक्षात्प्रभासयति रश्मिभिः ॥२९३॥निरालोकं जगदिदं लोकालोकान्तरं द्विजाः ।बाह्यं तमोवृतं सर्वं तत्प्रमाणमशेषतः ॥२९४॥एतदुक्तं मया सर्वं यथावद्द्विजसत्तमाः ।श्रुतं भगवतो व्यासात्पाराशर्यान्महात्मनः ॥२९५॥सनत्कुमारेण पुरा प्रोक्तं वै वायुना पुरा ।विमृश्य बहुधा तत्तु पुनरन्यैः पृथक्पृथक् ॥२९६॥पुराणामृतकं श्रुत्वा पुण्यं सर्वार्थसाधकम् ।अभयो विचरत्येव जात्यन्तरशतं गतः ॥२९७॥मार्तण्डजननं ह्येतद्गेहे यस्य व्यवस्थितम् ।कथ्यते वा कथा यस्य न तं विद्धि समानकम् ॥२९८॥न चाकाले म्रियन्तेऽस्य बाला अपि कदाचन ।ऋक्षस्य भगिनी रक्षा वानरस्य बलीयसः ॥२९९॥प्रजापतिसकाशात्सा जज्ञे शूरपरिग्रहम् ।ऋक्षराजं महाप्राज्ञं जांबवन्तं यशस्विनम् ॥३००॥तस्य जांबवती नाम सुता व्याध्र्यामजायत ।वासुदेवस्य सा दत्ता पित्रा राजीवलोचना ॥३०१॥तथान्ये ऋक्षराजस्य सुता जाता महाबलाः ।जयन्तोऽथ च सर्वज्ञो मृगराट्संकृतिर्जयः ॥३०२॥मार्जारो बलिबाहुश्च लक्षणज्ञः श्रुतार्थकृत् ।भोजो राक्षसजिच्चैव पिशाचवनगोचरौ ॥३०३॥शरभः शलभश्चैव व्याघ्रः सिंहस्तथैव च ।तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥३०४॥ऋक्षाणामेव तु गणो देवदानवपूजितः ।मार्जारस्य तु मार्जारा वाद्याः पुत्रा महाबलाः ॥३०५॥बभूवुः शतसाहस्राः सर्वे वीर्यसमन्विताः ।आचार्याः श्वापदादीनां शरभाणां महौजसः ॥३०६॥स्वादकाः पृषतादीनां मूषिकाणां च पक्षिणाम् ।लाघवे प्लवने युक्ताः सर्वसत्त्वावसादकाः ॥३०७॥ग्रामेषु वनशण्डेषु कोटरेषु गुहासु च ।गृहेषु गृहगर्भेषु गृहवासावलंबिनः ॥३०८॥नानागतिषु संचाराः कुशला ग्रामगोचराः ।तथा वनचराश्चैव स्वभावात्समवस्थिताः ॥३०९॥रात्रौ दिवाचराश्चैव संध्यासु च चरन्ति ते ।नीलजीमूतवर्णाश्च कपिला केकरारुणाः ॥३१०॥कृष्णवर्णास्तथा पिङ्गाभक्तिचित्रास्तथापरे ।नखदंष्ट्रायुधा घोरा मयूरसमभाषणाः ॥३११॥सरमायाः सुतौ जातौ शूरौ परमदुःसहौ ।श्यामश्च शबलश्चैव यमस्यानुचरौ स्मृतौ ॥३१२॥तयोः पुत्रा दुराधर्षाः पुत्रपौत्रसमन्विताः ।श्रुतिमाप्तः पुनर्वंशः सारमेयेषु सर्वदा ॥३१३॥सांप्रतं तत्सजातीया घोररूपा महाबलाः ।विषादयन्ति च नरान्सर्वजातिसमन्वितान् ॥३१४॥ग्रामासक्तो निवासस्तु तेषामेव भवत्युत ।य इदं शृणुयाज्जन्म दंष्ट्रिणां श्रावयेत्तु यः ॥३१५॥दंष्ट्रिभ्यो न भयं तस्य न चोरेभ्यो नवान्यतः ।तात्कालमरणं चैव भवतीति विनिर्णयः ॥३१६॥न च बन्धनमाप्नोति न वियोनिं न संकरम् ।वानप्रस्था श्रितं धर्ममाप्नोति मुनिसेवितम् ॥३१७॥संपन्नश्चैव दिव्येन धनेन च बलेन च ।च्यवते न च ज्ञानेन जायते देवयोनिषु ॥३१८॥द्वीपिनः शरभाः सिंहा व्याघ्रा नीलाश्च शल्यकाः ।ऋक्षा मार्जारलोहासा वानरा मायवस्तथा ॥३१९॥एता एकादश मता वानराणां तु जातयः ।एषां प्रणेता सर्वेषां वाली राजा प्रतापवान् ॥३२०॥देवासुरविमर्देषु जिघ्नता नित्यमानिनाम् ।प्रसह्य हन्ता रौद्राणामसुराणां बलीयसाम् ॥३२१॥उत्सिक्तबलनाशाय विचिन्त्य तु महात्मना ।पक्ष एष समुद्दिष्टो महेन्द्रस्य सहायवान् ॥३२२॥विहितः पूर्वमेवात्र ब्रह्मणा लोकधारिणा ।इत्येते हरयः प्रोक्ता इरावत्या निबोधत ॥३२३॥सूर्यस्याण्डकपाले द्वे समानीय तु भौवनः ।हस्ताभ्यां परिगृह्याथ रथन्तरमगायत ॥३२४॥साम्ना प्रस्तूयमाने तु सद्य एव गतोऽभवत् ।संप्रायच्छदिरावत्यै पुत्रार्थं स तु भौवनः ॥३२५॥इरावत्याः सुतो यस्मात्तस्मादैरावतः स्मृतः ।देवराजोपवाह्यत्वात्प्रथमः स मतङ्गराट् ॥३२६॥श्वेताभ्राभश्चतुर्दन्तः श्रीमानैरावतो गजः ।अञ्जनस्यैकमूलस्य सुवर्णाभस्य हस्तिनः ॥३२७॥षड्दन्तस्य हि भद्रस्य ह्यौपवाह्यस्य वै बलेः ।तस्य पुत्रोंऽजनश्चैव सुप्रतीकश्च वामनः ॥३२८॥पद्मश्चैव चतुर्थोऽभूद्धस्तिनी चाभ्रमुस्तथा ।दिग्गजान्बलिनश्चैवाभ्रमुर्ज नयताप्सुगान् ॥३२९॥भद्रं मृगं च मन्दं च संकीर्णं चतुरः सुतान् ।संकीर्णो ह्यञ्जनो योऽसावौपवाह्यो यमस्य सः ॥३३०॥भद्रो यः सुप्रतीकस्तु हस्तिः स ह्यपांपतेः ।पद्मो मन्दस्तु यो गौरो द्विपो ह्यैलविलस्य च ॥३३१॥मृगश्यामस्तु यो हस्ती चौप वाह्यः स पावकेः ।पद्मोत्तमः पद्मागुल्मो गजो वातगजो गजः ॥३३२॥चपलोऽरिष्टसंज्ञश्च तस्याष्टौ जज्ञिरे सुताः ।उदग्रभावेनो पेता जायन्ते तस्य चान्वये ॥३३३॥श्वेतबालनखाः पिङ्गा वर्षावन्तो मतङ्गजाः ।सामजांस्तु प्रवक्ष्यामि नागानन्यानपि क्रमात् ॥३३४॥कपिलः पुण्डरीकश्च सुनामानौ रथन्तरात् ।जातौ नाम्ना श्रुतौ ताभ्यां सुप्रतीकप्रमर्दनौ ॥३३५॥शूराः स्थूलशिरोदन्ताः शुद्धबालनखास्तथा ।बलिनः शङ्किताश्चैव स्मृतास्तद्वंशिनो गजाः ॥३३६॥पुष्पदन्तो बृहत्साम्नः षड्दन्तः पद्मपुच्छवान् ।ताम्र पर्णश्च तत्पुत्राः संघचारिविषाणिनः ॥३३७॥अन्वये चास्य जायन्ते लंबोष्ठाश्चारुदर्शनाः ।श्यामत्वग्रसनाशुण्डा नागाः पीनायता ननाः ॥३३८॥वामदेवोंऽजनः श्यामः साम्नो जज्ञेऽथ वामनः ।भार्या चैवाङ्गना तस्य नीलवल्लक्षणौ सुतौ ॥३३९॥चण्डाश्चारु शिरोग्रीवा व्यूढोरस्कास्तरस्विनः ।नीचैर्बद्धाः कुले तस्य जायन्ते निबिडा गजाः ॥३४०॥सुप्रतीकस्तु वैरूप्यात्साम्नः सारूप्य मागतः ।तस्य प्रहारी संपातिः पृथुश्चेति सुतास्त्रयः ॥३४१॥प्रांशवो दीर्घताल्वोष्ठाः सुविभक्तशिरोरुहाः ।जायन्ते मृदुसंभोगा वंशे तस्य मतङ्गजाः ॥३४२॥अञ्जनादञ्जनः साम्नो विजज्ञे जाञ्जनावती ।सुतौ जातौ तयोश्चापि प्रमाथिपुरुषौ स्मृतौ ॥३४३॥महाविभक्तशिरसः स्निग्धजीमूतसन्निभाः ।सुदर्शनाः सुवर्ष्माणः पद्माभाः परिमण्डलाः ॥३४४॥शूरा दीनायतमुखा गजास्तस्यान्वयेऽभवन् ।जज्ञे चान्द्रमसः साम्नः कुमुदः कुमुदद्युतिः ॥३४५॥पिङ्गलायां सुतौ तस्य महापद्मोर्मिमालिनौ ।शैलजीमूतसंकाशान्सुबुद्धान्बलिनो वरान् ॥३४६॥हस्तियुद्धप्रियान्नागान्विद्धि तस्य कुलोद्भवान् ।एतान्देवासुरे युद्धे जयार्थं जगृहुः सुराः ॥३४७॥कृतार्थैश्च विसृष्टास्ते पूर्वोक्ताः प्रययुर्द्दिशः ।एतेषां चान्वये जातान्विनीतांस्त्रिदशा ददुः ॥३४८॥अङ्गाय लोमपादाय सूत्रकाराय वै द्विपान् ।द्विरदो रदनद्वाभ्यां हस्ती हस्तात्करात्करी ॥३४९॥वारणो वारणाद्दन्ती दन्ताभ्यां गर्जनाद्गजः ।कुञ्जरः कुञ्जचारित्वान्नागो नगम्यमस्य यत् ॥३५०॥मत्तं यातीति मातङ्गो द्विपो द्वाभ्यां पिबन्स्मृतः ।सामजः सामजातत्वादिति निर्वचनक्रमः ॥३५१॥एषां जिह्वापरावृत्तिर्ह्युक्ता वै चाग्निशापजा ।बलस्यानवबोधो यो या चैषां गूढमुष्कता ॥३५२॥उभयं दन्तिनामेतज्ज्ञेयं तु सुरशापजम् ।देवदानगन्धर्वपिशाचोरगरक्षसाम् ॥३५३॥कन्यासु जाता दिग्नागैर्नानासत्त्वास्ततो गजाः ।संभूतिश्च प्रसूतिश्च नामनिर्वचनं तथा ॥३५४॥एतद्गजानां विज्ञेयमेषां राजा स चाभ्रमः ।कौशिक्या ह्यासमुद्रात्तु गङ्गायश्च यदुत्तरम् ॥३५५॥अञ्जनस्यैकमूलस्य विज्ञेयं गहनं तु तत् ।उत्तरं चैव विध्यस्य गङ्गाया दक्षिणं च यत् ॥३५६॥गङ्गोद्भेदे सकेरुभ्यः सुप्रतीकस्य पत्तनम् ।अपरेणोत्कलं चैव कावेरीभ्यश्च पश्चिमम् ॥३५७॥एकसूकात्मजस्यैतद्वामनस्यवनंस्मृतम् ।अपरेणतु लौहित्यमासिंधोः पश्चिमेन तु ॥३५८॥पद्मस्यैतद्वनं प्रोक्तमनुपर्वतमेव तत् ।भूता विजज्ञे भूतांस्तु रुद्रस्यानुचरानिह ॥३५९॥स्थूलान्कृशांश्च दीर्घांश्च वामनान्ह्रस्वकान्समान् ।लंबकर्णान्प्रलंबौष्ठान् लंबजिह्वांस्तनूदरान् ॥३६०॥एकनेत्रान्विरूपांश्च लंबस्फिक्स्थूलपिण्डिकान् ।सकृष्णगौरान्नीलांश्च श्वेतान्वै लोहिताननान् ॥३६१॥बभ्रून्वै शबलान्धूम्रान्विकद्रून्नासमारूणान् ।मुञ्जकेशान्त्दृष्टरोम्णः सर्वयज्ञोपवीतिनः ॥३६२॥बहुशीर्षान्विपादांश्च ह्येकशीर्षानशीर्षकान् ।चण्डांश्च विकटांश्चैव निर्मितांश्च द्विजिह्वकान् ॥३६३॥मुण्डांश्च जटिलांश्चैव कुब्जान्वक्रान्सवामनान् ।सरः श्रेष्ठसमुद्राद्रिनदीपुलिनसेविनः ॥३६४॥एककर्णान्महाकर्णाञ्छङ्कुकर्णानकर्णकान् ।दंष्ट्रिणो नखिनश्चैव निर्दन्तांश्च विजिह्वकान् ॥३६५॥एकहस्तान्द्विहस्तांश्च त्रिहस्तांश्चाप्यहस्तकान् ।एकपादान्द्विपादांश्च त्रिपादान्बहुपादकान् ॥३६६॥महायोगान्महासत्त्वान्सुमनस्कान्महाबलान् ।सर्वत्रगातप्रतिघातब्रह्मज्ञान्कामरूपिणः ॥३६७॥घोरान्क्रूरांश्च मेध्यांश्च मद्यमेध्यान्सुधार्मिकान् ।कूटदन्तान्महाजिह्वान्विकेशान्विकृताननान् ॥३६८॥हस्तादांश्च मुखादांश्च शिरोदांश्च कपालिनः ।धन्विनो मुद्गरधरा नसिशूलधरांस्तथा ॥३६९॥दिग्वाससश्चित्रवेषांश्चित्रमाल्यानुलेपनान् ।अन्नादान्पिशितादांश्च सुरापान्सोमपांस्तथा ॥३७०॥केचित्संध्याचरा घोराः केचित्सौम्या दिवाचराः ।नक्तञ्चराः खरस्पर्शा घोरास्तेषां निशाचराः ॥३७१॥परत्वेन भवं देवं सर्वे ते गतमानसाः ।नैषां भार्यास्ति पुत्रा वा सर्वे ते ह्यूर्ध्वरेतसः ॥३७२॥शतं तानि सहस्राणि भूतानामात्मयोगिनाम् ।भवपारिषदास्ते वै सर्वे भूताः प्रकीर्त्तिताः ॥३७३॥कपिशायाश्च कूष्माण्डा जज्ञिरे च पुनः पुनः ।मिथुनेन पिशाचांश्च वर्णेन कपिशेन तु ॥३७४॥कपिशत्वात्पिशाचास्ते सर्वे च पिशिताशनाः ।युग्मानि षोडशाद्यानि वर्त्तमानस्तदन्वयः ॥३७५॥नामतस्तान्प्रवक्ष्यामि रूपतश्च तदन्वयम् ।छगलश्छगला चैव वक्रो वक्रमुखी तथा ॥३७६॥दुष्पूरः पूरणा चैव सूची सूचीमुखस्तथा ।विपादश्च विपादी च ज्वाला चाङ्गारकस्तथा ॥३७७॥कुंभपात्रश्च कुंभी च प्रतुन्दश्च प्रतुन्दिका ।उपवीरश्च वीरा च ह्युलूखल उलूखली ॥३७८॥अकर्मकः कर्मकी च कुषण्डश्च कुषण्डिका ।पाणिपात्रः पाणिपात्री पांशुः पांशुमती तथा ॥३७९॥नितुन्दश्च नितुन्दी च निपुणो निपुणी तथा ।बालादः केषणादी च प्रस्कन्दः स्कन्दिका तथा ॥३८०॥षोडशानां पिशाचानां गणाः प्रोक्तास्तु षोडश ।अजामुखा पक्रमुखाः पूरणः स्कन्दिनस्तथा ॥३८१॥विपादाङ्गारिकाश्चैव कुंभपात्राः प्रतुन्दकाः ।उपवीरोलूखलिका अर्कमर्काः कुषण्डिकाः ॥३८२॥पांशवः पाणिपत्राश्च नैतुन्दा निपुणास्तथा ।सूजीमुखोच्छेषणादाः कलान्येतानि षोडश ॥३८३॥इत्येता ह्यभि जातास्तु कूष्माण्डानां प्रकीर्त्तिताः ।पिशाचास्ते पिशाच्यस्ताः सकुल्याः संप्रजज्ञिरे ॥३८४॥बीभत्सं विकृताकारं पुत्रपौत्रमनेतकम् ।अतस्तेषां पिशाचानां लक्षणानि निबोधत ॥३८५॥सर्वाङ्गकेशा वत्ताक्षा दंष्ट्रिणो नखिनस्तथा ।तिर्य्यगङ्गाः पारुषदाः पिशाचास्ते ह्यजामुखाः ॥३८६॥अकर्णका ह्यरोमाणोऽवाससश्चर्मवाससः ।कुषण्डिकपिशाचास्ते प्रियभक्षाः सदामिषाः ॥३८७॥वक्राङ्गहस्तापादाश्च वक्रशीलमतास्तथा ।ज्ञेया वक्राः पिशाचास्ते वक्रगाः कामरूपिणः ॥३८८॥लंबोदरास्तुण्डनासा ह्रस्वकाय शिरोभुजाः ।नितुन्दकाः पिशाचास्ते तिलभक्षाः प्रियासृजाः ॥३८९॥वानराकृतयश्चैव वाचालाः प्लुतगामिनः ।पिशाचार्कमर्कास्ते वृक्षवासोदनप्रियाः ॥३९०॥ऊर्ध्वबाहूर्द्ध्वरोमाण उद्धृताक्षा यथालयाः ।मुञ्चन्ति पांशुमङ्गेभ्यः पिशाचाः पांशवस्तु ते ॥३९१॥भ्रमरीसन्निभाः शुष्कासशूलाश्चीरवाससः ।उपवीराः पिशाचास्ते श्मशानायतनाः सदा ॥३९२॥निष्टब्धाक्षा महाजिह्वा लेलिहाना ह्युलूखलाः ।उलूखलैराभरणा रत्नधाराश्च ते खलाः ॥३९३॥पाणिपात्राः पिशाचास्ते निसृष्टबलिभोजनाः ।हस्त्युष्ट्रस्थूलशिरसो विनतोद्धतपिण्डिकाः ॥३९४॥पिशाचाः कुंभपात्रास्ते अदृष्टान्नानि भुञ्जते ।सूक्ष्मास्तु रोमशाः पिङ्गा दृष्टादृष्टाश्चरन्ति ये ॥३९५॥अयुक्तान्प्रचरन्तीह निपुणास्ते पिशाचकाः ।आकर्णाद्दारितास्याश्च लंबभ्रूस्थूलनासिकाः ॥३९६॥शून्यागारप्रियाः स्थूलाः पिशाचास्ते तु पूरणाः ।हस्तपादाक्रान्ततुण्डा ह्रस्वकाः क्षितिदृष्टयः ॥३९७॥बालादास्ते पिशाचा वै सूतिकागृहसेविनः ।पृष्ठतः पाणि पादाश्च पृष्ठतो वातरंहसः ॥३९८॥विपादकाः पिशाचास्ते संग्रामे रुधिराशनाः ।नग्नका ह्यनिकेताश्च लंबशेफ आण्डपिडकाः ॥३९९॥पिशाचाः स्कन्दिनस्ते वै अन्य उच्छेषणादिनः ।षोडशैता हि जात्यस्ताः पिशाचानां प्रकीर्त्तिताः ॥४००॥एवंविधान्पिशाचांस्तु दीनान्दृष्ट्वानुकंपया ।ब्रह्मा तेभ्यो वरं प्रादात्कारुण्यादल्पचेतसः ॥४०१॥अन्तर्धानं प्रजायां हि कामरूपित्वमेव च ।संध्ये उभे प्रचारं च स्थानान्याजीवमेव च ॥४०२॥गृहाणि यानि भग्नानि शून्यान्यल्पजलानि च ।विध्वस्तानि च यानि स्युरनाचारोषिता नि च ॥४०३॥असंमृष्टोपलिप्तानि संस्कारैर्वर्जितानि तु ।राजमार्गोपरथ्याश्च निष्कुटाश्चत्वराणि च ॥४०४॥द्वाराण्यट्टालकांश्चैव निर्गमास्संक्रमास्तथा ।पथो नद्योऽथ तीर्थानि चैत्यवृक्षा महापथम् ॥४०५॥पिशाचा विनिविष्टा वै स्थानेष्वेतेषु सर्वशः ।अधार्मिको जनस्तेषामा जीवो विहितः सुरैः ॥४०६॥वर्णाश्रमाः संकरिकाः कारुशिल्पिजनास्तथा ।प्रकृतोपधिसंधानाश्चोरा विश्वासघातिनः ॥४०७॥एतैरन्यैश्च बहुभिरन्यायोपार्जितैरपि ।आरभ्यन्ते क्रियायास्तु पिशाचास्तत्र दैवतम् ॥४०८॥मधुमांसोदनैर्दध्ना तिलचूर्णैः सुरासवैः ।धूपैर्हारिद्रकृसरैस्तिलभक्षगुडौदनैः ॥४०९॥कृष्णानि चैव वासांसि धूपः सुमनमोऽक्षयः ।एवसुक्तास्तु बलयस्त्वेषां वै पर्वसंधिषु ॥४१०॥पिशाचानामनुज्ञाय ब्रह्मा चाधिपतिं ददौ ।सर्वभूतपिशाचानां गिरीणां शूलपाणिनाम् ॥४११॥दंष्ट्रा त्वजनयत्पुत्रान्सिंहान्व्याघ्रांश्च भामिनी ।द्वीपिनश्च सुतास्तस्याः श्वापदाश्चामिषाशिनः ॥४१२॥ऋषायास्त्वपि कार्त्स्न्ये प्रजासर्गं निबोधत ।तस्या दुहितरः पञ्च तासां नामानि मे शृणु ॥४१३॥मीनामीना तथा वृत्ता परि वृत्ता तथैव च ।अनुवृत्ता च विज्ञेया तासां वै शृणुत प्रजाः ॥४१४॥सहस्रदंष्ट्रा मकराः पाठीनास्तिमिरोहिताः ।इत्येवमादिर्हि गणो मैनो विस्तीर्ण उच्यते ॥४१५॥ग्राहाश्चतुर्विधा ज्ञेया मद्गुराःशङ्कवस्तथा ।उग्राश्च शिशुमाराश्चामीनाश्चैतान्व्यजायत ॥४१६॥वृत्ता कर्मविकाराणि नैकानि जलचारिणाम् ।तथा शङ्खविकाराणि जनयामास नैकशः ॥४१७॥मण्डूकानां विकाराणि ह्यनुवृत्ता व्यजायत ।ऐणेयानां विकाराणि शंबूकानां तथैव च ॥४१८॥तथा शुक्तिविकारणि वराटविकृतानि च ।तथा शङ्खविकाराणि परिवृत्ता व्यजायत ॥४१९॥कालकण्ठविकाराणि जलूकाविकृतानि च ।इत्येष हि ऋषावंशः पञ्चशाखः प्रकीर्त्तितः ॥४२०॥तिर्याहेतुक मप्याहुर्वहुलं वंशविस्तरम् ।संस्वेदजविकाराणि यथा येभ्यो भवन्ति ह ॥४२१॥स्वेदक्लिन्नशरीरेभ्यो यूकालिक्षादिका द्विजाः ।मनुष्यस्वेदमलजा उशना नाम जन्तवः ॥४२२॥नानापिपीलिकगणाः कीटका बहुपादकाः ।शङ्खोपलविकाराणि कीलकावरकाणि च ॥४२३॥इत्येवमादिबहुलाः स्वेदजाः पार्थिवा गणाः ।यथा घर्मदितप्पाभ्यश्चाभ्द्यो वृष्टिभ्य एव ॥४२४॥नैका मृगशरीरेभ्यो जायन्ते जन्तवस्त्विमे ।मक्षिकाः पिच्छला देशास्तथा तित्तिरिपुत्तिकाः ॥४२५॥नीलाचत्राश्च जायन्ते मलजा बहुविस्तराः ।जलजाः स्वेदजाश्चैव जायन्ते जन्तस्त्विमे ॥४२६॥काशतोयजकाः कीटा नलदा बहुपादकाः ।सिंहला रोमलाश्चैव पिच्छिलाः परिकीर्त्तिताः ॥४२७॥इत्येवमादिर्हि गणो जलजस्वेदजः स्मृतः ।शिंबिभ्यो माषमुद्गानां जायन्ते कृमयस्तथा ॥४२८॥बिल्वजं ब्वाम्रपूमेभ्यः फलेभ्यश्चैव जन्तवः ।मुद्गेभ्यः पनसेभ्यश्च तण्डुलेभ्यस्तथैव च ॥४२९॥तथा कोटरशुष्केभ्यो निहितेभ्यो भवन्ति हि ।अन्येभ्योऽपि च जायन्ते न हि तेभ्यश्चिरं सदा ॥४३०॥जन्तवस्तुरगादिभ्यो विषादिभ्यस्तथैव च ।बहून्यहानि निक्षिप्ते संभवन्ति च गोमये ॥४३१॥जायन्ते कृमयो विप्राः काष्ठेभ्यश्चापि सर्वशः ।संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात् ॥४३२॥गोभ्यो हि महिषेभ्यश्च तथान्येभ्यश्च जन्तवः ।मत्स्याद्यिश्च विविधा अन्नकूटे विशेषतः ॥४३३॥वैकारिकाश्च जायन्ते तथा गाजकुलानि च ।तथन्यानि च सक्ष्माणि जलौकादीनि जातयः ॥४३४॥कपोतकुररादिभ्यः सूक्ष्माः शूकास्तथैव च ।माक्षिकाणां विकाराणि जायन्ते जातयोऽपरे ॥४३५॥प्रायेणानुवसंत्यस्मिन्नुच्छिष्टोदककर्द्दमे ।मशकानां विकाराणि भ्रमराणां तथैव च ॥४३६॥गोभ्यः समभिजायन्ते पुत्तिकापुत्रसप्तकाः ।मणिच्छेदाः स्मृता व्यालाः पोतजाः परिकीर्त्तिताः ॥४३७॥शतवेरिविकाराणि करीषेभ्यो भवन्ति हि ।एवमादिरसंख्यातो गणः संस्वेदजो मया ॥४३८॥समासाभिहितो ह्येष प्राक्कर्मवशजः स्मृतः ।ये चान्ये नैरृताः सत्त्वास्ते स्मृता उपसर्गजाः ॥४३९॥भूतास्तु योनिजाः केचित्केचिदौत्पत्तिकाः स्मृताः ।प्रायेण देवाः सर्वे वै विज्ञेया ह्युपपत्तिजाः ॥४४०॥केचित्तु योनिजा देवाः केचिद्देवा निमित्ततः ।दुल्लोलकं ललोहं च सरमा द्वौ व्यजायत ॥४४१॥त्योरपत्यं चत्वारो विज्ञेयाः सृमरादयः ।श्यामाश्च शबलाश्चैव लोहिता अञ्जनास्तथा ॥४४२॥कृष्णधूम्ररुणास्चैव दुल्लो लस्याष्ट कद्रुकाः ।सर्पाणां सुरसा जज्ञे शन्त नैकशिरोभृताम् ॥४४३॥सर्पाणां तक्षको राजा नागानां चापि वासुकिः ।तमोबहुल इत्येष गणः क्रोधवशान्वयः ॥४४४॥पुलहस्यात्मजः सर्गस्ताम्रायास्तु निबोधत ।षट्कन्यास्त्वभिविख्यातास्ता म्रायाश्च विजज्ञिरे ॥४४५॥गृध्री भासी शुकी क्रैञ्ची श्येनी च धृतराष्ट्रिका ।अरुणस्य च गृद्री तु वीर्यवन्तौ महाबलौ ॥४४६॥संपातिं च जटायुं च प्रसूता पक्षिसत्तमौ ।संपातेर्विजयाः पुत्रा द्विरास्याः प्रसहश्च ये ॥४४७॥जटायुषः पुराः पुत्राः ककगृध्राश्च कर्णिकाः ।भार्या गरुत्मतश्चैव भासी क्रैञ्ची तथा शुकी ॥४४८॥धृतराष्ट्री तथा श्येनी तास्वपत्यानि वच्मिते ।शुकीगरुत्मतः पुत्रान्सुषुवे षट्परिश्रुतान् ॥४४९॥सुखं सुनेत्रं विशिखं सुरूपं सुरसं बलम् ।तेषां पुत्राश्च पौत्राश्च गरुडानां महात्मनाम् ॥४५०॥चतुर्दश सहस्राणि पुराणां पन्नगाशिनाम् ।पुत्रपौत्रविसर्गाच्च तेषां वै वंशविस्तरैः ॥४५१॥व्याप्तानि यानि स्थानानि तानि वक्ष्ये यथाक्रमम् ।शाल्मलिद्वीपमखिलं देवकूटं च पर्वतम् ॥४५२॥मणिमन्तं च शैलेन्द्रं महस्रशिखरं तथा ।पर्णमालं सुकेशं च शतशृङ्गं तथाचलम् ॥४५३॥कौररं पञ्चशिखरं हेमकूटं च पर्वतम् ।प्रचण्डवायुप्रजवैर्दीपितैः पद्मरागिभिः ॥४५४॥शैलशृङ्गाणि व्याप्तानि गारुडैस्तैर्महात्मभिः ।भासीपुत्राः स्मृता भासा उलूकाः काककुक्कुटाः ॥४५५॥मयूराः कलविङ्काश्च कपोतालावतित्तिराः ।क्रैञ्चा वाध्रीणसाः श्येनाः कुरराः सारसा बकाः ॥४५६॥इत्येवमादयोऽन्येऽपि क्रव्यादा ये च पक्षिणः ।धृतराष्ट्री तु हंसाश्च कलहंसांश्च भामिनी ॥४५७॥चक्रवाकांश्च विहगान्सर्वांश्चैवौदकान्द्विचान् ।श्येन्यनन्तं विजज्ञे तु पुत्रपौत्रं द्विजोत्तमाः ॥४५८॥गरुडस्यात्मजाः प्रोक्ता इरायाः शृणुत प्रजाः ।इरा विजज्ञे कन्या वै तिस्रः कमललोजनाः ॥४५९॥वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः ।लता चैवालता चैति वीरुधा चैति तत्र या ॥४६०॥लता वनस्पतिर्ज्जज्ञेपुष्पादपि फलावहान् ।पुष्पैः फलग्रहैर्वृक्षानलता समसूयत ॥४६१॥गुल्मास्तथा लतावल्ल्यस्त्वकूसारास्तृणजातयः ।वीरुधस्तदपत्यं हि वंशश्चात्र समाप्यते ॥४६२॥एते कश्यपदायादा व्याख्याताः स्थाणुजङ्गमाः ।तेषां पुत्राश्च पौत्राश्च यैरिदं संततं जगत् ॥४६३॥एष सर्गैकदेशस्य कीर्तितोऽवयवो मया ।मारीचो वः प्रजासर्गः समासेन प्रकीर्त्तितः ॥४६४॥न शक्यं व्यासतो वक्तुं वर्षाणां च शतैरपि ।अदितिर्धर्मशीला तु बलशीला दितिस्तथा ॥४६५॥तपःशीला तु सुरभिर्मायाशीला दनुस्तथा ।गन्धशीला मुनिश्चैव क्रोधाध्यायनशीलिनी ॥४६६॥गीतशीला ह्यरिष्टा तु क्रूरशीला खशा स्मृता ।क्रोधशीला तथा कदूः क्रोधा च शुचिशीलिनी ॥४६७॥वाहशीला तु विनता ताम्रा वै घातशीलिनी ।इरानुग्रहशीला तु ह्यनायुर्भक्षणे रता ॥४६८॥अभवंल्लोकमातॄणां शीलान्येतानि सर्वशः ।धर्मतः शीलतो बुद्ध्या क्षमया बलरूपतः ॥४६९॥रजः सत्त्व तमोद्रिक्ता धार्मिकाधार्मिकाश्च वै ।मातुस्तुल्याभिजाताश्च कश्यपस्यात्मजाः प्रभोः ॥४७०॥देवतासुरगन्धर्वा यक्षराक्षसपन्नगाः ।पिशाचाः पशवश्चैव मृगाः पतगवीरुधः ॥४७१॥यस्माद्दाक्षायणीष्वेते जज्ञिरे मानुषीष्पिह ।मनुष्यप्रकृतीस्तस्माद्देवादींश्च विजानते ॥४७२॥यस्माच्च संभवः कृत्स्नो देवानां मानुषेष्विह ।मन्वन्तरेषु सर्वेषु तस्माच्छ्रेष्ठास्तु मानुषाः ॥४७३॥धर्मार्थकाममोक्षाणां मानुषाः साधकास्तु वै ।ततोर्ऽवाक्स्रोतसस्ते वै उत्पद्यन्ते सुरासुराः ॥४७४॥जायन्ते कार्यसिद्ध्यर्थं मानुषेषु पुनः पुनः ।इत्येष वंशप्रभवः प्रसंख्यातस्तु विस्तरात् ॥४७५॥सुराणामसुराणां च गन्धर्वाप्सरसां तथा ।यक्षरक्षः पिशाचानां सुपर्णोरगपक्षिणाम् ॥४७६॥व्यालानां शिखिनां चैव औषधीनां च सर्वशः ।कृमिकीटपतङ्गानां क्षुद्राणां जलचारिणाम् ॥४७७॥पशूनां ब्राह्मणानां च श्रीमतां पुण्यलक्षणः ।आयुष्यश्चैव धन्यश्च श्रीमान् हितसुखावहः ।श्रोतव्यश्चैव सततं ग्राह्यश्चैवानसूयतः ॥४७८॥इमं तु वंशं नियमेन यः पठेन्महात्मनां ब्राह्मणवन्द्यसंसदि ।अपत्यलाभं लभते च पुष्कलं प्रियं धनं प्रेत्य च शोभनां गतिम् ॥४७९॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे काश्यपेयवर्णनं नाम सप्तमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP