संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ५८

मध्यम भागः - अध्यायः ५८

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


जैमिनिरुवाच
एवं ब्रुवाणं वरुणं विलोक्य पतितं भुवि ।
संजहार पुनर्धीमानस्त्रं मृगुकुलोद्वहः ॥१॥

संत्दृतास्त्रस्ततो रामो वरुणं पुरतः स्थिरम् ।
विलोक्य बिगतक्रोधस्तमुवाच हसन्निव ॥२॥

गोकर्णनिलयाः पूर्वमिमेमां मुनिपुङ्गवाः ।
समायाता महेन्द्राद्रौ निवसंतं सरित्पते ॥३॥

त्वत्तोये मेदिनीं पूर्वं खनद्भिः सगरात्मजैः ।
अधो निपातितं क्षेत्रं गोकर्णमृषिसेवितम् ॥४॥

उपलब्धुमिमे भूयः क्षेत्रं तद्भववल्लभम् ।
अधावन्मामुपागम्य मुनयस्तीर्थवासिनः ॥५॥

एषामर्थे ततः सोऽहं महेन्द्रादचलोत्तमात् ।
भवन्तमागतो द्रष्टुं सहैभिर्मुनिपुङ्गवैः ॥६॥

तस्मान्मदर्थे सलिलं समुत्सार्यात्मनो भवान् ।
दातुमर्हति तत्क्षेत्रमेषां तोये च पूर्ववत् ॥७॥

जैमिनिरुवाच
इति तस्य वचः श्रुत्वा वरुणो यादसां पतिः ।
निरूप्य मनसा राममिद भूयोऽब्रवीद्वचः ॥८॥

वरुण उवाच
न शक्यमुत्सारयितुं मदंभः केनचिद्भवेत् ।
तथा हि मे वरो दत्तः पुरानेन विरिञ्चिना ॥९॥

सोऽहं त्वत्तेजसेदारीं विहाय सहजां धृतिम् ।
कातरं समुपायातो वशतां तव भार्गव ॥१०॥

एषामर्थे विशेषण भवता परिचोदितः ।
कथं न कुर्यां कर्मेदमहं क्षत्त्रकुलान्तक ॥११॥

तस्माद्यावत्प्रमाणं मे भवान्संकल्पयिष्यति ।
तावत्संघारयिष्यामि भूमौ सलिलमात्मनः ॥१२॥

इति तस्य वचः श्रुत्वा तथेत्युक्त्वा स सायकम् ।
यथागतं प्रचिक्षेप धनुर्निर्भिद्य भार्गवः ॥१३॥

ततो निरूप्य सीमानं दर्शयानो महीपते ।
स्रुवं जग्राह मतिमान्क्षप्तुकामो जलाशये ॥१४॥

प्रसन्नचेतसं रामं गतरोषमथात्मनि ।
अन्तर्हिते सरिन्नाथे रामः सुवमुदङ्मुखः ॥१५॥

भ्रामयित्वातिवेगेन चिक्षेप लवणार्णवे ।
क्षिप्तत्वेन समुद्रे तु दिशमुत्तरपश्चिमाम् ॥१६॥

गत्वा स्रुवोपतद्राजन्योजनानां शतद्वयम् ।
तीर्थं शुर्पारकं नाम सर्वपापविमोचनम् ॥१७॥

विश्रुतं यत्त्रिलोकेषु तीरे नदनदीपतेः ।
तीर्थं तदन्तरीकृत्य स्रुवो रामकराच्च्युतः ॥१८॥

निपपात महाराज सूचयन्रामविक्रमम् ।
यत्राभूद्रामसृष्टाया भुवो निष्ठाथ पार्थिव ॥१९॥

तीर्थं शूर्पारकं तत्तु श्रीमल्लोकपरिश्रुतम् ।
उत्सारयित्वा सलिलं समुद्रस्तावदात्मनः ॥२०॥

अतिष्ठदपसृत्योर्वीं दत्त्वा रामाय पार्थिव ।
अनतिक्रान्तमर्यादो यथाकालं भृगूद्वहः ॥२१॥

समयं स्वापयामास तस्यैवानुमते भुवि ।
विज्ञाय पूर्वसीमान्तां भुवमभ्युत्ससर्ज ह ॥२२॥

व्यस्मयन्त सुराः सर्वे दृष्ट्वा रामस्य विक्रमम् ।
नगरग्रमसीमानः किञ्चित्किञ्चित्क्वचित्क्वचित् ॥२३॥

सह्ये तु पूर्ववत्तस्मिन्नब्धेरपसृतेंऽभसि ।
तत्र दैवात्तथा स्थानान्निम्नत्वात्स प्रलक्ष्य तु ॥२४॥

ततस्तेषां भृगुश्रेष्ठो मुनीनां भावितात्मनाम् ।
यथाभिलषितं स्थानं प्रददौ प्रीतिपूर्वकम् ॥२५॥

ततस्ते मुनयः सर्वे हर्षेण महातान्विताः ।
कृतकृत्या भृशं राममाशिषा समपूजयन् ॥२६॥

अथैतैरभ्यनुज्ञातो ययौ प्राप्तमनोरथः ।
गते मुनिवरे रामे देशात्तस्मान्निजाश्रमम् ॥२७॥

संभूय मुनयः सर्वे प्रजग्मुस्तीरमंबुधेः ।
परिचङ्क्रम्य तां भूमिं यत्नेन महातान्विताः ॥२८॥

ददृशुः सर्वतो राजन्ह्यर्मवान्तः स्थितां महीम् ।
नित्यत्वा त्सर्वदेवानामधिष्ठानतया तथा ॥२९॥

कातमब्धौ निपतितं नष्टतोयं चिरोषितम् ।
अपि रुद्रप्रभावेम प्रायान्नात्यन्तविप्लवम् ॥३०॥

तत्तेयनिःसृतं क्षेत्रमभूत्पूर्ववदेव हि ।
एतद्धि देवसामर्थ्यमचिन्त्यं नृपसत्तम ॥३१॥

एवं रामेण जलधेः पुनः सृष्टा वसुंधरा ।
दक्षिणोत्तरतो राजनयोजनानां चतुःशतम् ॥३२॥

नातिक्रामति सोऽद्यापि सीमानं पयसां निधिः ।
कृतं रामेण महता न तु सज्जं महद्धनुः ॥३३॥

एवं प्रभावो रामोऽसौ सगरश्च महीपतिः ।
यस्य पुत्रैरयं खण्डो भारतोऽब्धौ निपतितः ॥३४॥

योजनानां सहस्रन्तु वर्द्धितश्च महोदधिः ।
रामेणाभूत्पुनः सृष्टं योजनानां तु षट्शतम् ॥३५॥

सगरस्य सुतैर्यस्माद्वर्द्धितो मकरालयः ।
ततः प्रभृति लोकेषु सागराख्यामवाप्तवान् ॥३६॥

एतत्तेऽभिहितं सम्यङ्महतश्चरितं मया ।
रामस्य कार्त्तवीर्यस्य सगरस्य महीपतेः ॥३७॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्त मध्यमभागे तृतीय उपाद्धातपादेऽष्टपञ्चशत्तमोऽध्यायः॥५८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP