संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः| अध्यायः ५२ मध्यम भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ मध्यम भागः - अध्यायः ५२ ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे. Tags : brahmand puranpuranपुराणब्रह्माण्ड पुराणसंस्कृत अध्यायः ५२ Translation - भाषांतर जैमिनिरुवाचत्यक्त्वा पुत्रं स धर्मात्मा सगरः प्रेम तद्गतम् ।धर्मशीले तदा वाले चकारांशुमति प्रभुः ॥१॥एतस्मिन्नेव काले तु सुमत्यास्तनया नृप ।ववृधुः सघशः सर्वे परस्परमनुव्रताः ॥२॥वज्रसंहननाः क्रूरा निर्दया निरपत्रपाः ।अधर्मशीला नितरामेकघर्माण एव च ॥३॥एककार्याभिनिरताः क्रोधना मूढचेतसः ।अधृष्याः सर्वभूतानां जनोपद्रवकारिणः ॥४॥विनयाचा रसन्मार्गनिरपेक्षाः समन्ततः ।बबाधिरे जगत्सर्वमसुरा इव कामतः ॥५॥विध्वस्तयज्ञसन्मार्गं भुवनं तैरुपद्रुतम् ।निःस्वाध्याय वषट्कारं बभूवार्तं विशेषतः ॥६॥विध्वस्यमाने सुभृशं सागरैर्वरदर्पितैः ।प्रक्षोभं परमं जग्मुर्देवासुरमहोरगाः ॥७॥धरासा सागराक्रान्ता न चलापि तदा चला ।तपः समाधिभङ्गश्च प्रबभूव तपस्विनाम् ॥८॥हव्यकव्यपरिभ्रष्टास्त्रिदशाः पितृभिः सह ।दुःशेन महाताविष्टा विरिञ्जभवनं ययुः ॥९॥तत्र गत्वा यथान्यायं देवाः शर्वपुरोगमाः ।शशंसुः सकलं तस्मै सागराणां विचेष्टितम् ॥१०॥तच्छ्रत्वा वचनं तेषां ब्रह्मा लोकपितामहः ।क्षणमन्तर्मना भूत्वा जगाद सुरसत्तमः ॥११॥देवाःशृणुत भद्रं वो वाणीमवहिता मम ।विनङ्क्ष्यन्त्यचिरेमैव सागरा नात्र संशयः ॥१२॥कालं कञ्चित्प्रतीक्षध्वं तेन सर्वं नियम्यते ।निमित्तमात्रमन्यत्तु स एव सकलेशिता ॥१३॥तस्माद्युष्मद्धितार्थाय यद्वक्ष्यामि सुरोत्तमाः ।सर्वैर्भवद्भिरधुना तत्कर्त्तव्यमतं द्रितैः ॥१४॥विष्णोरंशेन भगवान्कपिलो जयतां वरः ।जातो जगद्धितार्थाय योगीन्द्रप्रवरो भुवि ॥१५॥अगस्त्यपीतसलिले दिव्यवर्षशतावधि ।ध्यायन्नास्तेऽधुनांऽभोधावेकान्ते तत्र कुत्र चित् ॥१६॥गत्वा यूयं ममादेशात्कपिलं मुनिपुङ्गवम् ।ध्यानाव सानमिच्छन्तस्तिष्ठध्वं तदुपह्वरे ॥१७॥समाधिविरतौ तस्य स्वाभिप्रायमशेषतः ।नत्वा तस्मै वदिष्यध्वं स वः श्रेयो विधास्यति ॥१८॥समाधिभङ्गश्च मुनेर्यथा स्यात्सागरैः कृतः ।कुरुध्वं च तथा यूयं प्रवृत्तिं विबुधोत्तमाः ॥१९॥जैमिनिरुवाचइत्युक्तास्तेन विबुधास्तं प्रणम्य वितामहम् ।गत्वा तं विबुधश्रेष्टं ते कृताञ्जलयोऽब्रुवन् ॥२०॥देवा ऊचुःप्रसीद नो मुनिश्रेष्ठ वयं त्वां शरणं गताः ।उपद्रुतं जगत्सर्वंसागरैः संप्रणश्यति ॥२१॥त्वं किलाखिललोकानां स्थितिसहारकारणः ।विष्णोरंशेन योगीन्द्रस्वरूपी भुवि संस्थितः ॥२२॥पुंसां तापत्रयार्त्तानामार्तिनाशाय केवलम् ।स्वेच्छया ते धृतो देहो न तु त्वं तपतां वरः ॥२३॥मनसैव जगत्सर्वं स्रष्टुं संहर्तुमेव च ।विधातुं स्वेच्छया ब्रह्मन्भवाञ्छक्रोत्यसंशयम् ॥२४॥त्वं नो धाता विधाता च त्वं गुरुस्त्वं परायणम् ।परित्राता त्वमस्माकं विनिवर्त्तय चापदम् ॥२५॥शरणं भव विप्रेन्द्र विप्रेद्राणां विशेषतः ।सागरैर्दह्यमानानां लोकत्रयनिवासिनाम् ॥२६॥ननु वै सात्त्विकी चेष्टा भवतीह भवादृशाम् ।त्रातुमर्हसि तस्मात्त्वं लोकानस्मांश्च सुव्रत ॥२७॥न चेदकाले भगवन्विनङ्क्ष्यत्यखिलं जगत् ।जैमिनिरुवाचइत्युक्तः सकलैर्देवैरुन्मील्य नयने शनैः ॥२८॥विलोक्य तानुवाचेदं कपिलः सूनृतं वचः ।स्वकर्मणैव निर्दग्धाः प्रविनङ्क्ष्यन्ति सागराः ॥२९॥काले प्राप्ते तु युष्माभिः सतावत्परिपाल्यताम् ।अहं तु कारणं तेषां विनाशाय दुरात्मनाम् ॥३०॥भविष्यामि सुरश्रेष्ठा भवतामर्थसिद्धये ।मम क्रोधाग्नि विप्लुष्टाः सागराः पापचेतसः ॥३१॥भविष्यन्तु चिरेणैव कालोपहतबुद्धयः ।तस्माद्गतज्वरा देवा लोकाश्चैवाकुतोभयाः ॥३२॥भवन्तु ते दुराचाराः क्षिप्रं यास्यन्ति संक्षयम् ।तद्यूयं निर्भया भूत्वा व्रजध्वं स्वां पुरीं प्रति ॥३३॥कालं कञ्चित्प्रतीक्षध्वं ततोऽभीष्टमवाप्स्यथ ।कपिलेनैवमुक्तास्ते देवाः सर्वे सवासवाः ॥३४॥तं प्रणम्य ततो जग्मुः प्रतीताग्निदिवं प्रति ।एतस्मिन्नन्तरे राजा सगरः पृथिवीपतिः ॥३५॥वाजिमेधं महायज्ञं कर्तुं चक्रे मनोरथम् ।आहृत्य सर्वसंभारान्वसिष्ठानुमते तदा ॥३६॥और्वाद्यैः सहितो विप्रैर्यथावद्दीक्षितोऽभवत् ।दीक्षां प्रविष्टो नृपतिर्हयसंचारणाय वै ॥३७॥पुत्रान्सर्वान्समाहूय संदिदेश महयशाः ।संचारयित्वा तुरगं परीत्य पृथिवीतले ॥३८॥क्षिप्रं ममान्तिकं पुत्राः पुनराहर्तुमर्हथ ।जैमिनिरुवाचततस्ते पितुरादेशात्तमादाय तुरङ्गमम् ॥३९॥परिचङ्क्रमयामासुः सकले क्षितिमण्डले ।विधिचोदनयैवाश्वः स भूमौ परिवर्तिततः ॥४०॥न तु दिग्विजयार्थाय करादानार्थमेव च ।पृथिवीभूभुजा तेन पूर्वमेव विनिर्जिता ॥४१॥नृपाश्चोदारवीर्येण करदाः समरे कृताः ।ततस्ते राजतनया निस्तोये लवणांबुधौ ॥४२॥भूतले विविशुर्हृष्टाः परिवार्य तुरङ्गमम् ॥४३॥इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उवोद्धातपादे सगरवरितेऽश्वमोचनं नाम द्विपञ्चाशत्तमोऽध्यायः॥५२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP