संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ३९

मध्यम भागः - अध्यायः ३९

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


वसिष्ठ उवाच
मत्स्यराजे निपतिते राजा युद्धविशारदः ।
राजेन्द्रान्प्रेरयामास कार्त्तवीर्यो महाबलः ॥१॥

बृहद्बलः सोमदत्तो विदर्भो मिथिलेश्वरः ।
निषधाधिपतिश्चैव मगधाधिपतिस्तथा ॥२॥

आययुः समरे योद्धं भार्गवेद्रेण भूपते ।
वर्षन्तः शरजालानि नानायुद्धविशारदाः ॥३॥

वीराभिमानिनः सर्वे हैहयस्याज्ञया तदा ।
पिनाकहस्तः स भृगुर्ज्वलदग्निशिखोपमः ॥४॥

चिक्षेप नागपाशं च आभिमन्त्र्य शरोत्तमम् ।
तदस्त्रं भार्गवे द्रेण क्षिप्तं संग्राममूर्द्धनि ॥५॥

चकर्त्त गारुडास्त्रेण सोमदत्तो महाबलः ।
ततः क्रुद्धो महाभागो रामः शत्रुविदारणः ॥६॥

रुद्रदत्तेन शूलेन सोमदत्तं जघान ह ।
बृहद्बलं च गदया विदर्भं मुष्टिना तथा ॥७॥

मैथिलं मुद्गरेणैव शक्त्या च निषधाधिपम् ।
मागधञ्चरणाघातैरस्त्रजालेन सैनिकान् ॥८॥

निहत्य निखिलां सेनां संहाराग्निसमीरणे ।
दुद्राव कार्त्तवीर्यं च जामदग्न्यो महाबलः ॥९॥

दृष्ट्वा तं योद्धुमायान्तं राजानोऽन्ये महारथाः ।
कार्य्याकार्यविधानज्ञाः पृष्टे कृत्वा च हैहयम् ॥१०॥

रामेण युयुधुश्चैव दर्शयन्तश्च सौहृदम् ।
कान्यकुब्जाश्च शतशः सौराष्ट्रावन्तयस्तथा ॥११॥

चक्रुश्च शरजालानि रामस्य च समन्ततः ।
शरजालावृतस्तेषां रामः संग्राममूर्द्धनि ॥१२॥

न चादृश्यत राजेन्द्र तदा स त्वकृतव्रणः ।
सस्मार रामचरितं यदुक्तं हरिणेन वै ॥१३॥

कुशलं भार्गवेन्द्रस्य याचमानो हरिं मुनिः ।
एतस्मिन्नेव काले तु रामः शस्त्रास्त्रकोविदः ॥१४॥

विधूय शरजालानि वायव्यास्त्रेण मन्त्रवित् ।
उदतिष्ठद्रणाकाङ्क्षी नीहारादिव भास्करः ॥१५॥

त्रिरात्रं समरे रामस्तैः सार्द्धं युयुधे बली ।
द्वादशाक्षौहिणीस्तत्र चिच्छेद लघुविक्रमः ॥१६॥

रम्भास्तम्भवनं यद्वत्परश्वधवरायुधः ।
सर्वांस्तान्भूपवर्गांश्च तदीयश्च महाचमूः ॥१७॥

दृष्ट्वा विनिहतां तेन रामेण सुमहात्मना ।
आजगाम महावीर्यः सुचन्द्रः सूर्यवंशजः ॥१८॥

लक्षराजन्यसंयुक्तः सप्ताक्षौहिणिसंयुतः ।
तत्रानेकमहावीरा गर्जन्तस्तोयदा इव ॥१९॥

कंपयन्तो भुवं राजन् युयुधुर्भार्गवेण च ।
तेः प्रयुक्तानि शस्त्राणि महास्त्राणि च भूपते ॥२०॥

क्षणेन नाशयामास भार्गवेन्द्रः प्रतापवान् ।
गृहीत्वा परशुं दिव्यं कालातकयमोपमम् ॥२१॥

कालयन्सकला सेनां चिच्छेद भुगुनन्दनः ।
कर्षकस्तु यथा क्षेत्रे पक्वं धान्यं तथा तृणम् ॥२२॥

निशेषयति दात्रेण तथा रामेण तत्कृतम् ।
लक्षराजन्यसैन्यं तददृष्ट्वा रामेण दारितम् ॥२३॥

सुचन्द्रः पृथिवीपालो युयुधे संगरे नृप ।
तावुभौ तत्र संक्षुब्धौ नानाशस्त्रास्त्रकोविदौ ॥२४॥

युयुधाते महावीरौ मुनीशनृपतीश्वरौ ।
रामोऽस्मै यानि शस्त्राणि चिक्षेपास्त्राणि चापि हि ॥२५॥

तानि सर्वाणि चिच्छेद सुचन्द्रो युद्ध पण्डितः ।
ततः क्रुद्धो रणे रामः सुचन्द्रं पृथिवीश्वरम् ॥२६॥

कृतप्रतिकृताभिज्ञं ज्ञात्वोपस्पृश्य वार्यथ ।
नारायणास्त्रं विशिखे संदधे चानिवारितम् ॥२७॥

तदस्त्रं शतसूर्याभं क्षिप्तं रामेण धीमता ।
हृष्टोत्तीर्य रथात्सद्यः सुचन्द्रः प्रणनाम ह ॥२८॥

सर्वास्त्रपूज्यं तच्चापि नारायणविनिर्मितम् ।
तमेवं प्रणतं त्यक्त्वा यथौ नारायमन्तिकम् ॥२९॥

विस्मितोऽभूत्तदा रामः समरे शत्रसूदनः ।
दृष्ट्वा व्यर्थं महास्त्रं तद्भूपं स्वस्थं विलोक्य च ॥३०॥

रामः शक्तिं च मुसलं तोमरं पट्टिशं तथा ।
गदां च परशुं कोपाच्छिक्षेप नृपमूर्द्धनि ॥३१॥

जग्राह तानि सर्वाणि सुचन्द्रो लीलयैव हि ।
चिक्षेप शिवशूलं च रामो नृपतये यदा ॥३२॥

बभूव पुष्पमालां च तच्छूलं नृपतेर्गले ।
ददर्श च पुरस्तस्य भद्रकालीं जगत्प्रसूम् ॥३३॥

वहन्तीं मुण्डमालां च विकटास्यां भयङ्करीम् ।
सिंहस्थां च त्रिनेत्रां च त्रिशूलवरधारिणीम् ॥३४॥

दृष्ट्वा विहाय शस्त्रास्त्रं नमस्कृत्य समैडत ।
राम उवाच
नमोस्तु ते शङ्करवल्लभायै जगत्सवित्र्यै समलङ्कृतायै ॥३५॥

नानाविभूषाभिरिभारिगायै प्रपन्नरक्षाविहितोद्यमायै ।
दक्षप्रसूत्यै हिमवद्भवायै महेश्वरार्द्धङ्गसमास्थितायै ॥३६॥

काल्यै कलानाथकलाधरायै भक्तप्रियायै भुवनाधिपायै ।
ताराभिधायै शिवतत्परायै गणेश्वराराधितपादुकायै ॥३७॥

परात्परायै परमेष्ठिदायै तापत्रयोन्मूलनचिन्तनायै ।
जगद्धितायास्तपुरत्रयायै बालादिकायै त्रिपुराभिधायै ॥३८॥

समस्तविद्यासुविलासदायै जगज्जनन्यै निहिताहितायै ।
बकाननायै बहुसाख्यदायै विध्वस्तनानासुरदान्वायै ॥३९॥

वराभयालङ्कृतदोर्लतायै समस्तगीर्वाणनमस्कृतायै ।
पीतांबरायै पवनाशुगायै शुभप्रदायै शिवसंस्तुतायै ॥४०॥

नागारिगायै नवखण्डपायै नीलाचलाभां गलसत्प्रभायै ।
लघुक्रमायै ललिताभिधायै लेखाधिपायै लवणाकरायै ॥४१॥

लोलेक्षणायै लयवर्जितायै लाक्षारसालङ्कृतपङ्कजायै ।
रमाभिधायै रतिसुप्रियायै रोगापहायै रचिताखिलायै ॥४२॥

राज्यप्रदायै रमणोत्सुकायै रत्नप्रभायै रुचिरांबरायै ।
नमो नमस्ते परतः पुरस्तात्पार्श्वाधरोर्ध्वं च नमो नमस्ते ॥४३॥

सदा च सर्वत्र नमो नमस्ते नमो नमस्तेऽखिलविग्रहायै ।
प्रसीद देवेशि मम प्रतिज्ञां पुरा कृतां पालय भद्रकालि ॥४४॥

त्वमेव माता च पिता त्वमेव जगत्त्रयस्यापि नमो नमस्ते ।
वसिष्ठ उवाच
एवं स्तुता तदा देवी भद्रकाली तरस्विनी ॥४५॥

उवाच भार्गवं प्रीता वरदानकृतोत्सवा ।
भद्रकाल्युवाच
वत्स राम महाभाग प्रीतास्मि तव सांप्रतम् ॥४६॥

वरं वरय मत्तो यस्त्वया चाभ्यर्थिता हृदि ।
राम उवाच
मातर्यदि वरो देयस्त्वया मे भक्तव त्सले ॥४७॥

तत्सुचन्द्रं जये युद्धे तवानुग्रहभाजनम् ।
इति मेऽभिहितं देवि कुरु प्रीतेन चेतसा ॥४८॥

येन केनाप्युपायेन जगन्मातर्नमोऽस्तु ते ।
भद्रकाल्युवाच
आग्नेयास्त्रेण राजेन्द्रं सुचन्द्रं नय मद्गृहम् ॥४९॥

ममातिप्रियमद्यैव पार्षदो मे भवत्वयम् ।
वसिष्ठ उवाच
इत्युक्तमाकर्ण्य स भार्गवेन्द्रो देव्याः प्रियं कर्तुमथोद्यतोऽभूत् ॥५०॥

प्राणान्नियम्याचमनं च कृत्वा सुचन्द्रमुद्दिश्य च तत्समादधे ।
अस्त्रं प्रयुक्तं नृपतेर्वधाय रामेण राजन् प्रसभं तदा तत् ॥५१॥

दग्ध्वा वपुर्भूतमयं तदीयं निनाय लोकं परदेवतायाः ।
ततस्तु रामेण कृतप्रणामा सा भद्रकालो जगदादिकर्त्री ॥५२॥

अन्तर्हिताभूदथ जामदग्न्यस्तस्थौ रणेभूपवधाभिकाङ्क्षी ॥५३॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादे भार्गवचरिते एकोनचत्वारिंशत्तमोऽध्यायः॥३९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP