संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ५९

मध्यम भागः - अध्यायः ५९

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


बृहस्पतिरुवाच
ऋषयस्त्वेव मुक्तास्तु परं हर्षमुपागताः ।
परं शुश्रूषया भूयः पप्रच्छुस्तदनन्तरम् ॥१॥

ऋषय ऊचुः
वंशानामानुपूर्व्येण राज्ञां चामिततेजसाम् ।
स्थितिं चैषां प्रभावं च ब्रूहि नः परिपृच्छताम् ॥२॥

एवमुक्तस्ततस्तैस्तु तदासौ लोमहर्षणः ।
शृण्वतामुत्तराख्याने ऋषीणां वाक्य कोविदः ॥३॥

अख्यानकुशलो भूयः परं वाक्यमुवाच ह ।
ब्रुवतो मे निबोधंश्च ऋषिराह यथा मम ॥४॥

वंशानामानुपूर्व्येण राज्ञां चामिततेजसाम् ।
स्थितिं चैषां प्रभावं च क्रमतो मे निबोधत ॥५॥

वरुणस्य सपत्नीकान् स्तुता देवी उदाहृता ।
तस्याः पुत्रौ कलिर्वैद्यः स्तुता च सुरसुंदरी ॥६॥

कलिपुत्रौ महावीर्यौं जयश्च विजयश्च ह ।
वैद्यपुत्रौ घृणिश्चैव मुनिश्चैव महाबलौ ॥७॥

प्रत्तानामनु कामानामन्योन्यस्य प्रभक्षिणौ ।
भक्ष्यित्वा तावन्योन्यं विनाशं समवाप्नुतः ॥८॥

कलिः सुरायाः संज्ञेयस्तस्य पुत्रो मदः स्मृतः ।
स्मृता हिंसा कलेर्भार्या श्रेष्ठा या निकृतस्मृतिः ॥९॥

प्रसूतान्ये कलेः पुत्राश्चत्वारः पुरुषादकाः ।
नाके विघ्नश्च विख्यातो भद्रमोविधमस्तथा ॥१०॥

अशिरस्कतया विघ्नो नाकश्चैवाशरीरवान् ।
भद्रमश्चैकहस्तोऽभूद्विधमश्चैकपात्स्मृतः ॥११॥

भद्रमस्य तथापत्नी तामसी पूतना तथा ।
रेवती विधमस्यापि तयोः पुत्राः सहस्रशः ॥१२॥

नाकस्य शकुनिः पत्नी विघ्नस्य च अयो मुखी ।
राक्षसास्तु महावीर्याः संध्याद्वयविचारिमः ॥१३॥

रेवतीपूतनापुत्रा नैऋता नामतः स्मृताः ।
ग्रहस्ते राक्षसाः सर्वे बालानां तु विशेषतः ॥१४॥

स्कन्दस्तेषामधिपतिर्ब्रह्मणोऽनुमतः प्रभुः ।
बृहस्पतेर्या भगिनी वरस्त्री ब्रह्मचारिणी ॥१५॥

योगसिद्धा जगत्कृत्स्नमसक्ता चरते सदा ।
प्रभासस्य तु सा भार्या वसूनामष्टमस्य च ॥१६॥

विश्वकर्मा सुरस्तस्या जातः शिल्पिप्रजापतिः ।
त्वष्टा विराजो रूपाणि धर्मपौत्र उदारधीः ॥१७॥

कर्त्ता शिल्पिसहस्राणां त्रिदशानां तु योगतः ।
यःसर्वेषां विमानानि देवतानां चकार ह ॥१८॥

मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः ।
प्रह्रादी विश्रुता तस्य पत्नी त्वष्टुर्विरोचना ॥१९॥

विरोचनस्य भगिनी माता त्रिशिरसस्तथा ।
देवाचार्यस्य महतो विश्वरूपस्य धीमतः ॥२०॥

विश्वकर्मात्मजश्वैव विश्वकर्मा मयः स्मृतः ।
सुरेणुरिति विख्याता स्वसा तस्य यवीयसी ॥२१॥

त्वाष्ट्री या सवितुर्भार्या पुनः संज्ञेति विश्रुता ।
प्रासूत सा महाभागं मनुं ज्येष्ठं विवस्वतः ॥२२॥

यमौ प्रासूत च पुनर्यमं च यमुनां च ह ।
सा तु गत्वा कुरून्देवी वडवा रूपधारिणी ॥२३॥

सवितुश्चास्य रूपस्य नासिकाभ्यां तु तौ स्मृतौ ।
प्रासूत सा महाभाग त्वन्तरिक्षेऽश्विनौ किल ॥२४॥

नासत्यं चैव दस्रं च मार्त्तण्डस्यात्मजावुभौ ।
ऋषय ऊचुः
कस्मान्मार्त्तण्ड इत्येष विवस्वानुदितो बुधैः ॥२५॥

किमर्थं सासुरूपा वै नासिकाभ्यामसूयत ।
एतद्वेदितुमिच्छामो सर्वं नो ब्रूहि पृच्छताम् ॥२६॥

सूत उवाच
चिरोत्पन्नमतिर्भिन्नमण्डं त्वष्ट्रा विदारितम् ।
गर्भवधं भ्रान्तः कश्यपो विद्रुतो भवेत् ॥२७॥

अण्डे द्विधाकृते त्वण्डं दृष्ट्वा त्वष्टेदमब्रवीत् ।
नैतन्न्यूनं भवादण्डं मार्त्तण्डस्त्वं भवानघ ॥२८॥

न खल्वयं मृतोंऽडस्थ इति स्नेहात्पिताब्रवीत् ।
तस्य तद्वचनं श्रुत्वा नामान्वर्थमुदाहरन् ॥२९॥

यन्मार्त्तण्डो भवेत्युक्तस्त्वण्डात्सोंडे द्विधाकृते ।
तस्माद्विवस्वान्मार्त्तण्डः पुराणज्ञैर्विभाव्यते ॥३०॥

ततः प्रजाः प्रवक्ष्यामि मार्त्तण्डस्य विवस्वतः ।
विजज्ञे सवितुर्भार्या संज्ञा पुत्रांस्तु त्रीन्पुनः ॥३१॥

मनुं यमीं यमं चैव छाया सा तपती तथा ।
शनैश्चरं तथैवैते मार्त्तण्डस्यात्मजाः स्मृताः ॥३२॥

विवस्वान्कश्यपाज्जज्ञे दाक्षायिण्यां महायशाः ।
तस्य संज्ञाभवद्भार्या त्वाष्ट्री देवी विवस्वतः ॥३३॥

सुरेणुरिति विख्याता पुनः संज्ञेति विश्रुता ।
सा तु भार्या भगवतो मार्त्तण्डस्यातितेजसः ॥३४॥

न खल्वये मृतो ह्यण्डे इति स्नेहात्तमब्रवीत् ।
अजानन्कश्यपः स्नेहात्मार्त्तण्ड इति चोच्यते ॥३५॥

तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः ।
येनापि तापयामास त्रील्लोङ्कान्कश्यपात्मजः ॥३६॥

त्रीण्यपत्यानि संज्ञायां जनयामास वै रविः ।
द्वौ सुतौ तु महावीर्यौं कन्यैका विदितैव च ॥३७॥

मनुर्वैवस्वतो ज्येष्ठः श्राद्धदेवः प्रजापतिः ।
ततो यमो यमी चैव यमजौ संबभूवतुः ॥३८॥

असह्यतेजस्तद्रूपं दृष्ट्वा संज्ञा विवस्वतः ।
असहन्ती स्वकां छायां सवर्णां निर्ममे पुनः ॥३९॥

महाभागा तु सा नारी तस्याश्छायासमुद्गता ।
प्राञ्जलिः प्रयता भूत्वा पुनः संज्ञामभाषत ॥४०॥

वदस्व किं मया कार्यं सा संज्ञा तामथाब्रवीत् ।
अहं यास्यापि भद्रं ते स्वमेव भवनं पितुः ॥४१॥

त्वयेह भवने मह्यं वस्तव्यं निर्विशङ्कया ।
इमौ च बालकौ मह्यं कन्या च वरवर्णिनी ॥४२॥

भर्त्तव्या नैवमाख्येयमिदं भगवते त्वया ।
इमौ च बालकौ मह्यं तथेत्युक्ता तथा च सा ॥४३॥

त्वष्टुः समीपमगमद्व्रीडितेव तपस्विनी ।
पिता तामागतां दृष्ट्वा क्रुद्धः संज्ञामथाब्रवीत् ॥४४॥

भर्त्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः ।
अगमद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता ॥४५॥

उत्तरान्सा कुरून्गत्वा तृणान्यथ चचार सा ।
द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्त्य ताम् ॥४६॥

आदित्यो जनयामास पुत्रावादित्यवर्चसौ ।
पूर्वजस्य मनोस्तुल्यौ सादृश्येन तु तौ प्रभू ॥४७॥

श्रुतश्रवा मनुस्ताभ्यां सावर्णिर्वै भविष्यति ॥४८॥

श्रुतकर्मा तु विज्ञेयो ग्रहो वै यः शनैश्चरः ।
मनुरेवाभवत्सोऽपि सावर्णिरिति चोच्यते ॥४९॥

संज्ञा तु पार्थिवी सा वै स्वस्य पुत्रस्य वै तदा ।
चकाराभ्यधिकं स्नेहं त तथा पूर्वजेषु वै ॥५०॥

मनुस्तच्छाक्षमत्सर्वं यमस्तद्वै न चाक्षमत् ।
बहुशो जल्पमानस्तु सापत्न्यादतिदुःखितः ॥५१॥

तां वै रोषाच्च बालाच्च भाविनोर्ऽथस्य वै बलात् ।
यदा संतर्जयामास च्छायां वैवस्वतो यमः ॥५२॥

सा शशाप ततः क्रोधात्सार्णिजननी यमम् ।
यदा तर्जयसेऽकस्मात्पितृभार्यां यशस्विनीम् ॥५३॥

तस्मात्तवैष चरमः पतिष्यति न संशयः ।
यमस्तु तेन शापेन भृशं पीडितमानसः ॥५४॥

मनुना सह धर्मात्मा पितुः सर्वं न्यवेदयत् ।
भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विनिर्जितः ॥५५॥

तस्यां मयोद्यतः पादो न तु देहे निपातितः ।
बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हति ॥५६॥

शप्तोऽहमस्मि लोकेश जनन्या तपतां वर ।
तव प्रसादो नस्त्रातुमेतस्मान्महतो भयात् ॥५७॥

विवस्वानेवमुक्तस्तु यमं प्रोवाच वै प्रभुः ।
असंशयं पुत्र महद्भविष्यत्यत्र कारणम् ॥५८॥

येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् ।
न शक्यमेतन्मिथ्य तु कर्त्तुं मातुर्वचस्तव ॥५९॥

कृमयो मांसमादाय यास्यन्ति च महीं तव ।
ततः पादं महाप्राज्ञ पुनः सांप्राप्स्यसे सुखम् ॥६०॥

कृतमेवं वचः सत्यं मातुस्तव भविष्यति ।
शापस्य परिहारेण त्वं च त्रातो भविष्यसि ॥६१॥

आदित्यस्त्वब्रवीत्संज्ञां किमर्थं तनयेषु तु ।
तुल्येष्वभ्यधिकस्नेह एकस्मिन्क्रियते त्वया ॥६२॥

सा तत्परिहरन्ती वै नाचचक्षे विवस्वतः ।
आत्मना स समाधाय योगात्तत्त्वमपश्यत ॥६३॥

तां शप्तुकामो भगवान्नाशाय कुपितः प्रभुः ।
सा तत्सर्वं यथा तत्त्वमाचचक्षे विवस्वतः ॥६४॥

विवस्वांस्तु यथा श्रुत्वा क्रुद्धस्त्वष्टारमभ्ययात् ।
त्वष्टा तु तं यथान्यायमर्चयित्वा विभावसुम् ॥६५॥

निर्दग्धुकामं रोषेण सांत्वयामास वै शनैः ।
तवातितेजसा युक्तमिदं रूपं न शोभते ॥६६॥

असहन्ती तु तत्संज्ञा वने चरति शाद्वले ।
द्रक्ष्यते तां भवनद्य स्वां भार्यां शुभचारिणीम् ॥६७॥

श्लाघ्ययौवनसंपन्नां योगमास्थाय गोपते ।
अनुकूलं भवेदेवं यदि स्यात्समयो मतः ॥६८॥

रूपं निवर्त्तयेयं ते ह्याद्यं श्रेष्ठमरिन्दम ।
रूपं विवस्वतस्त्वासीत्तिर्यगूर्द्ध्वमधस्तथा ॥६९॥

तेनासौ पीडिता देवी रूपेण तु दिवस्पतेः ।
तस्मात्ते समचक्रं तु वर्तते रूपमद्भुतम् ॥७०॥

अनुज्ञातस्ततस्त्वष्ट्रा रूपनिर्वर्त्तनाय वै ।
ततोऽभ्युपागमत्त्वष्टा मार्त्तण्डस्य विवस्वतः ॥७१॥

भ्रमिमारोप्य तत्तेजः शातयामास तस्य वै ।
तं निर्मूलित तेजस्कं तेजसापहृतेन तु ॥७२॥

कान्तां प्रभाकरो द्रष्टुमियेष शुभदर्शनः ।
ददर्श योगमास्थाय स्वां भार्यां वडवां तथा ॥७३॥

अदृश्यां सर्वभूतानां तेजसा नियमेन च ।
अश्वरूपेण मार्त्तण्डस्तां मुखे समभावयत् ॥७४॥

मैथुनान्तनिविष्टा च परपुंसोऽभिशङ्कया ।
सा तं निःसारयामास नोभ्यां शुक्रं विवस्वतः ॥७५॥

देवौ तस्मादजायेतामश्विनौ भिषजां वरौ ।
नासत्यश्चैव दस्रश्च स्मृतौ द्वादशमूर्तितः ॥७६॥

मार्त्तण्डस्य सुतावेतावष्टमस्य प्रजापतेः ।
तां तु रूपेण कान्तेन दर्शयामास भास्करः ॥७७॥

स तां दृष्ट्वा तदा भार्यां तुतो षैतामुवाच ह ।
यमस्तु तेन शापेन भृशं पीडितमानसः ॥७८॥

धर्मेण रञ्जयामास धर्मराजस्ततस्तु सः ।
सोऽलभत्कर्मणां तेन शुभेन परमां द्युतिम् ॥७९॥

पितॄणामाधिपत्यं च लोकपालत्वमेव च ।
मनुः प्रजापतिस्त्वेष सावर्णिः स महायशाः ॥८०॥

भाव्यः सोऽनागते तस्मिन्मनुः सावर्णिकेन्तरे ।
मेरुपृष्ठे तपो घोरमद्यापि चरते प्रभुः ॥८१॥

भ्राता शनैश्चरस्तत्रग्रहत्वं स तु लब्धवान् ।
त्वष्टा तु तेन रूपेण विष्णोश्चक्रमकल्पयत् ॥८२॥

महामहोऽप्रतिहतं दानवान्प्रतिवारणम् ।
यवीयसी तयोर्या तु यमुनाच यशस्विनी ॥८३॥

अभवत्सा सरिच्छ्रेष्ठा यमुना लोकपावनी ।
यस्तु ज्येष्ठो महातेजाः सर्गो यस्येति सांप्रतम् ॥८४॥

विस्तरं तस्य वक्ष्यामि मनोर्वैवस्वतस्य ह ।
इदं तु जन्म देवानां शृणुयाद्वा पठेच्च वा ॥८५॥

वैवस्वतस्य पुत्राणां सप्तानां तु महौजसाम् ।
आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः ॥८६॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते तृतीय उपोद्धातपादे वैवस्वतोत्पत्तिर्नामैकोनषष्टितमोध्यायः॥५९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP