संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ६३

मध्यम भागः - अध्यायः ६३

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


सूत उवाच
कुकुद्मिननस्तु तं लोकं रैवतस्य गतस्य ह ।
त्दृता पुण्यजनैः सर्वा राक्षसैः साकुशस्थली ॥१॥

तद्वै भ्रातृशतं तस्य धार्मिकस्य महात्मनः ।
निबध्यमानं नाराचैर्विदिशः प्राद्रवद्भयात् ॥२॥

तेषां तु तद्भयक्रान्तक्षत्रियाणां च विद्रुताम् ।
अन्ववायस्तु सुमहांस्तत्र तत्र द्विजोत्तमाः ॥३॥

शार्याता इति विख्याता दिक्षु सर्वासु धर्मिकाः ।
धृष्टस्य धर्ष्टिकं सर्वं रणधृष्टं बभूव ह ॥४॥

त्रिसाहस्रं तु स गणः क्षत्रियाणां महात्मनाम् ।
नभगस्य च दायादो नाभादो नाम वीर्यवान् ॥५॥

अंबरीषस्तु नाभागिर्विरूपस्तस्य चात्मजः ।
पृषदश्वो विरूपस्य तस्य पुत्रो रथीतरः ॥६॥

एते क्षत्रप्रसूता वै पुनश्चाङ्गिरसः स्मृताः ।
रथीतराणां प्रवराः क्षेत्रोपेता द्विजातयः ॥७॥

क्षुवतस्तु मनोः पूर्वमिक्ष्वाकुरभिनिःसृतः ।
तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिमम् ॥८॥

तेषां श्रेष्ठो विकुक्षिस्तु निमिर्दण्डश्च ते त्रयः ।
शकुनिप्रमुखास्तस्य पुत्राः पञ्चाशतस्तु ते ॥९॥

उत्तरापथदेशस्य रक्षितारो महीक्षितः ।
चत्वारिंशत्तथाष्टौ च दक्षिणस्यां तु वै दिशि ॥१०॥

विराटप्रमुखास्ते च दक्षिणापथरक्षिणः ।
इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथा दिशत् ॥११॥

राजोवाच ।
मांसमानय श्राद्धे त्वं मृगान्हत्वा महाबल ।
श्राद्धं मम तु कर्त्तव्यमष्टकानां न संशयः ॥१२॥

स गतो मृगयां चैव वचनात्तस्य धीमतः ।
मृगान्सहस्रकान्हत्वा परिश्रान्तश्च वीर्यवान् ॥१३॥

भक्षयच्छशकं तत्र विकुक्षिर्मृगयां गतः ।
आगते हि विकुक्षै तु समांसे महसैनिके ॥१४॥

वसिष्ठं चोदयामास मांस प्रोक्षयतामिति ।
तथेति चोदितो राज्ञा विधिवत्तदुपस्थितम् ॥१५॥

स दृष्ट्वोपहतं मांसं क्रुद्धो राजानमब्रवीत् ।
अनेनोपहतं मांसं पुत्रेण तव पार्थिव ॥१६॥

शशभक्षाददुष्टं वै नैव मांसं महाद्युते ।
शशो दुरात्मना पूर्वममना भक्षितोऽनघ ॥१७॥

तेन मांसमिदं दुष्टं पितॄणां नृपसत्तम ।
इक्ष्वाकुस्तु ततः क्रुद्धो विकुक्षिमिदमब्रवीत् ॥१८॥

पितृकर्मणि निर्दिष्टो मया च मृगयां गतः ।
शशं भक्षयसेऽरण्ये निर्घृणः पूर्वमद्य तु ॥१९॥

तस्मात्परित्यजामि त्वां गच्छ त्वं स्वेन कर्मणा ।
एवमिक्ष्वाकुणा त्यक्तो वसिष्ठवचनात्सुतः ॥२०॥

इक्ष्वाकौसंस्थिते तस्मिञ्छशादः पृथिवीमिमाम् ।
प्राप्तः परगधर्मात्मा स चायोध्याधिपोऽभवत् ॥२१॥

तदाकरोत्स राज्यं वै वसिष्ठपरिनोदितः ।
ततस्तेनैनसा पूर्णो राज्यावस्थो महीपतिः ॥२२॥

कालेन गतवान्सोऽथ शकृन्मूत्रतरङ्गितम् ।
ज्ञात्वैवमेतदाख्यानं ना विधिर्भक्षयेद्बुधः ॥२३॥

मांसभक्षयितामुत्र यस्य मांसमिहाद्म्यहम् ।
एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥२४॥

शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ।
इन्द्रस्य वृषभूतस्य ककुत्स्थो जयते पुरा ॥२५॥

पूर्वमाडीबके युद्धे ककुत्स्थस्तेन संस्मृतः ।
अनेनास्तु ककुत्स्थस्य पृथुश्चानेन स स्मृतः ॥२६॥

दृषदश्वः पृथोः पुत्रस्तस्मादन्ध्रस्तु वीर्यवान् ।
अन्ध्रात्तु युवनाश्वस्तु शावस्तस्तस्य चात्मजः ॥२७॥

जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ।
श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ॥२८॥

बृहदश्वसुतश्चापि कुवलाश्व इति श्रुतः ।
यस्तु धुन्धुवधाद्राजा धुन्धुमारत्वमागतः ॥२९॥

ऋषय ऊचुः
धुन्धोर्वधं महाप्राज्ञ घोतुमिच्छाम विस्तरात् ।
यदर्थं कुवलाश्वस्य धुन्धुमारत्वमागतम् ॥३०॥

सूत उवाच
कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः ।
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥३१॥

बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः ।
कुवलाश्वं महावीर्यं शूरमुत्तमधार्मिकम् ॥३२॥

बृहदश्वो ह्यभ्यषिञ्चत्तस्मिन्राज्ये नराधिपः ।
पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश ह ॥३३॥

बृहदश्वं महाराजं शूरमुत्तमधार्मिकम् ।
प्रयास्यन्तमुतङ्कस्तु ब्रह्मर्षिः प्रत्यवारयत् ॥३४॥

उत्तङ्क उवाच
भवता रक्षणं कार्यं तत्तावत्कर्त्तुमर्हति ।
निरुद्विग्नस्तपस्छर्तुं न हि शक्रोऽपि पार्थिव ॥३५॥

ममाश्रमसमीपेषु मेरोर्हि परितस्तु वै ।
समुद्रो वालुकापूर्णस्तत्र तिष्ठति भूपते ॥३६॥

देवतानामवध्यस्तु महाकायो महाबलः ।
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ॥३७॥

राक्षसस्य मधोः पुत्रो धुन्धुर्नाम महासुरः ।
शेते लोकविनाशाय तप आस्थाय दारुणम् ॥३८॥

संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति ।
यदा तदा मही तत्र चलति स्म सकानना ॥३९॥

तस्य निश्वासवातेन रज उद्धूयते महत् ।
आदित्यपथमावृत्य सप्ताहं भूमिकंपनम् ॥४०॥

सविस्फुलिङ्गं सज्वारं सधूममतिदारुणम् ।
तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे ॥४१॥

तं वारय महाबाहो लोकानां हितकाम्यया ।
तेजस्ते सुमहद्विष्मुस्तेजसाप्याययिष्यति ॥४२॥

लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहते सुरे ।
त्वं हि तस्य वधार्थाय समर्थः पृथिवीपते ॥४३॥

विष्णुना च वरो दत्तो मम पूर्व यतोऽनघ ।
न हि धुन्धुर्महावीर्यस्तेजसाल्पेन शाक्यते ॥४४॥

निर्दग्धुं पृथिवीपालैरपि वर्षशतैरपि ।
वीर्यं हि सुमहत्तस्य देवैरपि दुरासदम् ॥४५॥

एवमुक्तस्तु राजर्षिरुत्तङ्केन महात्मना ।
कुवलाश्वं तु तं प्रादात्तस्मिन् धुन्धुनिवारणे ॥४६॥

भगवन्न्यस्तशस्भोऽहमयं तु तनयो मम ।
भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥४७॥

स तमादिश्य तनयं धुन्धुमाग्णमच्युतम् ।
जगाम स वनायैव तपसे शंसितव्रतः ॥४८॥

कुवलाश्वस्तु धर्मात्मा पितुर्वचनमाश्रितः ।
सहक्रैरेकविंशत्या पुत्राणां सह पार्थिवः ॥४९॥

प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवारणे ।
तमाविशत्ततो विष्णुर्भगवान्स्वेन तेजसा ॥५०॥

उत्तङ्कस्य नियोगात्तु लोकानां हितकाम्यया ।
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् ॥५१॥

अद्य प्रभृत्येष नृपो धुन्धुमारो भविष्यति ।
दिव्यैः पुष्पैश्च तं देवाः संमतात्समवाकिरन् ॥५२॥

देवदुन्दुभयश्चैव प्रणेदुर्हि तदा भृशम् ।
स गत्वा पुरुषव्याघ्रस्तनयैः सह वीर्यवान् ॥५३॥

समुद्रं खानयामास वालुकापूर्णमव्ययम् ।
तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा ॥५४॥

धुन्धुरासादितस्तत्र दिशमाश्रित्य पश्चिमाम् ।
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव ॥५५॥

वारि सुस्राव चोगेन महोदधिरिवोदये ।
सोमस्य सोऽसुरश्रेष्ठो धारोर्मिकलिलो महान् ॥५६॥

तस्य पुत्रास्तु निर्दग्धास्त्रय उर्वरिता मृधे ।
ततः स राजातिबलो राक्षसं तं महाबलम् ॥५७॥

आससाद महातेजा धुन्धुं बन्धुनिबर्हणम् ।
तस्य वारिमयं वेगमपि वत्स नराधिपः ॥५८॥

योगी योगेन वह्निं च शमयामास वारिणा ।
निरस्यन्तं महाकायं बलेनोदकराक्षसम् ॥५९॥

उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः ।
उत्तङ्कश्च वरं प्रादात्तस्मै राज्ञे महात्मने ॥६०॥

ददतश्चाक्षयं वित्तं शत्रुभिश्चाप्य धुष्यताम् ।
धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम् ॥६१॥

पुत्राणां चाक्षयांल्लोकान्स्वर्गे ये रक्षसा हताः ।
तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते ॥६२॥

भद्राश्वः कपिलाश्वश्च कनीयांसौ तु तौ स्मृतौ ।
धैन्धुमारिर्दृढाश्वश्च हर्यश्वस्तस्य चात्मजः ॥६३॥

हर्यश्वस्य निकुंभोऽभूत्क्षात्रधर्मरतः सदा ।
संहताश्वो निकुंभस्य सुतो रणविशारदः ॥६४॥

कृशाश्वश्चाकृताश्वश्च संहताश्वसुतावुभौ ।
तस्य पत्नी हैमवती सती माता दृषद्वती ॥६५॥

विख्याता त्रिषु लोकेषु पुत्रश्चास्य प्रसेनजित् ।
युवनाश्वसुतस्तस्य त्रिषु लोकेषु विश्रुतः ॥६६॥

अत्यन्तधार्मिका गौरी तस्य पत्नी पतिव्रता ।
अभिशस्ता तु सा भर्त्रा नदी सा बाहुदा कृता ॥६७॥

तस्यास्तु गौरिकः पुत्रश्चक्रवर्ती बभूव ह ।
मान्धाता यौवनाश्वो वै त्रैलोक्यविजयी नृपः ॥६८॥

अत्राप्युदाहरन्तीमं श्लोकं पौराणिका द्विजाः ।
यावत्सूर्य उदयते यावच्च प्रतितिष्ठति ॥६९॥

सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ।
तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् ॥७०॥

साध्वी बिन्दुमती नाम रूपेणाप्रतिमा भुवि ।
पतिव्रता च ज्येष्ठा च भातॄणामयुतस्य सा ॥७१॥

तस्यामुत्पादयामास मान्धाता त्रीन्सुतन्प्रभुः ।
पुरुकुत्समंबरीषं मुचुकुन्दं च विश्रुतम् ॥७२॥

अंबरीषस्य दायादो युवनाश्वोऽपरः स्मृतः ।
नर्मदायां समुत्पन्नः संभूतस्तस्य चात्मजः ॥७३॥

संभूतस्यात्मजः पुत्रो ङ्यनरण्यः प्रतापवान् ।
रावणेन हतो येन त्रैलोक्यं विजितं पुरा ॥७४॥

तेन दृश्योनरण्यस्य हर्यश्वस्तस्य चात्मजः ।
हर्यश्वात्तु दृषद्वत्यां जज्ञे च सुमतिर्नृपः ॥७५॥

तस्य पुत्रोऽभवद्राजा त्रिधन्वा नाम धार्मिकः ।
आसीत्त्रिधन्वनश्चापि विद्वांस्त्रय्यारुणिः प्रभुः ॥७६॥

तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः ।
तेन भार्या विदर्भस्य त्दृता हत्वा दिवौकसः ॥७७॥

पाणिग्रहणमन्त्रेषु निष्टानं प्रापितेष्विह ।
कामाद्बलाच्च मोहाच्च संहर्षेण बलेन च ॥७८॥

भाविनोर्ऽथस्य च बलात्तत्कृतं तेन धीमता ।
तमधर्मेण संयुक्तं पिता भय्यारुणोऽत्यजत् ॥७९॥

अपध्वंसेति बहुशो वदन्क्रोधसमन्वितः ।
पितरं सोऽब्रवीदेकः क्व गच्छामीति वै मुहुः ॥८०॥

पिता चैनमथोवाच श्वपाकैः सह वर्त्तय ।
नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन ॥८१॥

इत्युक्तः स निराक्रामन्नगराद्वचना द्विभोः ।
न चैनं वारयामास वसिष्ठो भगवानृषिः ॥८२॥

स तु सत्यव्रतो धीमाञ्श्वपाकावसथान्तिके ।
पित्रा त्यक्तोऽवसद्धीरः पिता चास्य वनं ययौ ॥८३॥

तस्मिंस्तु विषये तस्य नावर्षत्पाकशासनः ।
समा द्वादश संपूर्मास्तेनाधर्मेण वै तदा ॥८४॥

दारांस्तु तस्य विषये विश्वामित्रो महातपाः ।
संन्यस्य सागरानूपे चचार विपुलं तपः ॥८५॥

तस्य पत्नी गले बद्ध्वा मध्यमंपुत्रमौरसम् ।
शिष्टानां भरणार्थाय व्यक्रीणाद्गोशतेन वै ॥८६॥

तं तु बद्धं गले दृष्टवा विक्रयार्थं नरोत्तमः ।
महर्षिपुत्रं धर्मात्मा मोक्षयामास सुव्रतः ॥८७॥

सत्यव्रतो महाबुद्धिर्भरणं तस्य चाकरोत् ।
विश्वामित्रस्य तुष्ट्यर्थमनुकंपार्थमेव च ॥८८॥

सोऽभवद्गालवो नाम गले बद्धो महातपाः ।
महर्षिः कौशिकस्तात तेन वीरेण मोक्षितः ॥८९॥

तस्य व्रतेन भक्त्या च कृपया च प्रतिज्ञया ।
विश्वामित्रकलत्रं च बभार विनये स्थितः ॥९०॥

हत्वा मृगान्वराहांश्च महिषांश्च जलेचरान् ।
विश्वामित्राश्रमाभ्यासे तन्मांसमनयत्ततः ॥९१॥

उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् ।
पितुर्नियोगादभजन्नृपे तु वनमास्थिते ॥९२॥

अयोध्यां चैव राष्ट्रं च तथैवान्तः पुरं पुनिः ।
याज्योत्थान्यायसंयोगाद्वसिष्ठः पर्यरक्षत ॥९३॥

सत्यव्रतः सुबाल्यात्तु भाविनोर्ऽथस्य वै बलात् ।
वसिष्ठेऽभ्यधिकं मन्युं धारयामास मन्युना ॥९४॥

पित्रा तु तं तदा राष्ट्रात्परित्यक्तं स्वमात्मजम् ।
न वारयामास मुनिर्वसिष्ठः कारणेन वै ॥९५॥

पाणिग्रहममन्त्राणां निष्ठा स्यात्सप्तमे पदे ।
एवं सत्यव्रतस्तां वै हृतवान्सप्तमे पदे ॥९६॥

जानन्धर्मान्वसिष्ठस्तु नवमन्त्रानिहेच्छति ।
इति सत्यव्रतो रोषं वसिष्ठे मनसाकरोत् ॥९७॥

गुणबुद्ध्या तु भगवान्वसिष्ठः कृतवांस्तपः ।
न तु सत्यव्रतोऽबुध्यदुपांशुव्रतमस्य वै ॥९८॥

तस्मिंस्तु परमो रोषः पितुरासीन्महात्मनः ।
तेन द्वादश वर्षाणि नावर्षत्पाकशासनः ॥९९॥

तेन त्विदानीं वहता दीक्षां तां दुर्वहां भुवि ।
कुलस्य निष्कृतिः स्वस्य सृतेयं च भवेदिति ॥१००॥

ततो वसिष्ठो भगवान्पित्रा त्यक्तं न वारयत् ।
अभिषेक्ष्याम्यहं नष्टे पश्चादेनमिति प्रभुः ॥१०१॥

स तु द्वादशवर्षाणि दीक्षां तामुद्वहन्बली ।
अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥१०२॥

सर्वकामदुघां धेनुं स ददर्श नृपात्मजः ।
तां वै क्रोधाच्च मोहाच्च श्रमच्चैव क्षुधान्वितः ॥१०३॥

दस्युधर्मगतो दृष्ट्वा जघान बलिनां वरः ।
सतु मांसं स्वयं चैव विश्वामित्रस्य चात्मजान् ॥१०४॥

भोजयामास तच्छ्रुत्वा वसिष्ठस्तं तदात्यजत् ।
प्रोवाच चैव भगवान्वसिष्ठस्तं नृपात्मजम् ॥१०५॥

पातयेयमहं क्रूर तव शङ्कुम पोह्य वै ।
यदि ते त्रीणि शङ्कूनि न स्युर्हि पुरुषाधम ॥१०६॥

पितुश्चापारितोषेण गुरोर्देगध्रीवधेन च ।
अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥१०७॥

एवं स त्रीणि शङ्कूनि दृष्ट्वा तस्य महातपाः ।
त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः ॥१०८॥

विश्वामित्रस्तु दाराणामागतो भरणे कृते ।
ततस्तस्मै वरं प्रादात्तदा प्रीतस्त्रिशङ्कवे ॥१०९॥

छन्द्यमानो वरेणाथ गुरुं वव्रेनृपात्मजः ।
सशरीरो व्रजे स्वर्गमित्येवं याचितो वरः ॥११०॥

अनावृष्टिभये तस्मिञ्जाते द्वादशवार्षिके ।
अभिषिच्य राज्ये पित्र्ये योजयामास तं मुनिः ॥१११॥

मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।
सशरीरं तदा तं वै दिवमारोपयत्प्रभुः ॥११२॥

मिषतस्तु वसिष्ठस्य तदद्भुतमिवाभवत् ।
अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः ॥११३॥

विश्वामित्रप्रसादेन त्रिशङ्कुर्दिविराजते ।
देवैः सार्द्धं महातेजानुग्रहात्तस्य धीमतः ॥११४॥

तस्य सत्यरता नाम भार्या कैकयवंशजा ।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥११५॥

स तु राजा हरिश्चन्द्रस्त्रैशङ्कव इति श्रुतः ।
अहर्ता राजसूयस्य सम्रडिति परिश्रुतः ॥११६॥

हरिश्चन्द्रस्य तु सुतो रोहितो नाम वीर्यवान् ।
हरितो रोहितस्याथ चञ्चुर्हरीत उच्यते ॥११७॥

विनयश्च सुदेवश्च चञ्चुपुत्रौ बभूवतुः ।
चैता सर्वस्य क्षत्रस्य विजयस्तेन स स्मृतः ॥११८॥

रुरुकस्तनयस्तस्य राजा धर्मार्थकोविदः ।
रुरुकात्तु वृकः पुत्रस्तस्माद्बाहुर्विजज्ञिवान् ॥११९॥

हैहयैस्तालजङ्घैश्च निरस्तो व्यसनी नृपः ।
शकैर्यवनकांबोजैः पारदैः पह्लवैस्तथा ॥१२०॥

नात्यर्थं धार्मिकोऽभूत्स धर्म्ये सति युगे तथा ।
सगरस्तु सुतो बाहोर्जज्ञे सह गरेण वै ॥१२१॥

भृगोराश्रममासाद्य ह्यौर्वैण परिरक्षितः ।
अग्नेयमस्त्रं लब्ध्वा तु भार्गवात्सगरो नृपः ॥१२२॥

जघान पृथिवीं गत्वा तालजङ्घान्सहैहयान् ।
शकानां पह्लवानां च धर्मं निरसदच्युतः ॥१२३॥

क्षत्रियाणां तथा तेषां पारदानां च धर्मवित् ।
ऋषय ऊचुः
कथं स सगरो राजा गरेण सह जज्ञिवान् ॥१२४॥

किमर्थं वा शकादीनां क्षत्रियाणां महौजसाम् ।
धर्मान्कुलोचितान्क्रुद्धो राजा निरसदच्युतः ॥१२५॥

सुत उवाच
बाहोर्व्यसनिनस्तस्य त्दृतं राज्यं पुरा किल ।
हैहयैस्तालजङ्घैश्च शकैः सार्द्धं समागतैः ॥१२६॥

यवनाः पारदाश्चैव कांबोजाः पह्लवास्तथा ।
हैहयार्थं पराक्रान्ता एते पञ्च गणास्तदा ॥१२७॥

त्दृतराज्यस्तदाबाहुः संन्यस्य स तदा गृहम् ।
वनं प्रविश्य धर्मात्मा सह पत्न्या तपोऽचरत् ॥१२८॥

कदाचिदप्यकल्पः स तोयार्थं प्रस्थितो नृपः ।
वृद्धत्वाद्दुर्बलत्वाच्च ह्यन्तरा स ममार च ॥१२९॥

पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽप्यगात् ।
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ॥१३०॥

सा तु भर्तुश्चितां कृत्वा वह्निं तं समारोहयत् ।
और्वस्तं भार्गवो दृष्ट्वा कारुण्याद्धि न्यवर्त्तयत् ॥१३१॥

तस्याश्रमे तु गर्भं सा गरेण च तदा सह ।
व्यजायत महाबाहुं सगरं नाम धर्मिकम् ॥१३२॥

और्वस्तु जातकर्मादीन्कृत्वा तस्य महात्मनः ।
अध्याप्य वेदाञ्छास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥१३३॥

ततः शकान्स यवनान्कांबोजान्पारदांस्तथा ।
पह्लवांश्चैव निःशेषान्कर्तुं व्यवसितो नृपः ॥१३४॥

ते हन्यमाना वीरेण सगरेण महात्मना ।
वसिष्ठं शरणं सर्वे संप्राप्ताः शरणैषिणः ॥१३५॥

वसिष्ठो वीक्ष्य तान्युक्तान्विनयोन महामुनिः ।
सगरं वारयामास तेषां दत्त्वाभयं तथा ॥१३६॥

सगरः स्वां प्रतिज्ञां च गुरोर्वाक्यं निशम्य च ।
जघान धर्मं वै तेषां वेषान्यत्वं चकार ह ॥१३७॥

अर्द्धं शाकानां शिरसो मुण्डयित्वा व्यसर्जयत् ।
यवनानां शिरः सर्वं कांबोजानां तथैव च ॥१३८॥

पारदा मुक्तकेशाश्च पह्लवाः श्मश्रुधारिणः ।
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥१३९॥

शका यवन कांबोजाः पह्लवाः पारदैः सह ।
कलिस्पर्शा महिषिका दार्वस्छोलाः खशास्तथा ॥१४०॥

सर्वे ते क्षत्रियगणा धर्मस्तेषां निराकृतः ।
वसिष्ठवचनात्पूर्वं सगरेण महात्मना ॥१४१॥

स धर्मविजयी राजा विजित्येमां वसुन्धराम् ।
अश्वं वै चारयामास वाजिमेधाय दीक्षितः ॥१४२॥

तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे ।
वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ॥१४३॥

स तं देशं सुतैः सर्वैः खानयामास पार्थिवः ।
आसेदुश्च ततस्तस्मिन्खनन्तस्ते महार्मवे ॥१४४॥

तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् ।
विष्णुं कपिलरूपेण हंसं नारायणं प्रभुम् ॥१४५॥

तस्य चक्षुः समासाद्य तेजस्तत्प्रतिपद्यते ।
दग्धाः पुत्रास्तदा सर्वेचत्वारस्त्ववशेषिताः ॥१४६॥

बर्हिकेतुः सुकेतुश्च तथा धर्मरथश्च यः ।
शूरः पञ्चजनश्चैव तस्य वंशकराः प्रभोः ॥१४७॥

प्रादाच्च तस्य भगवान्हरिर्नारायणो वरान् ।
अक्षयत्वं स्ववंशस्य वाजिमेधशतं तथा ॥१४८॥

विभुः पुत्रं समुद्रं च स्वर्गे वासं तथाक्षयम् ।
तं समुद्रोऽश्वमादाय ववन्दे सरितांपतिः ॥१४९॥

सागरत्वं च लेभे स कर्मणा तेन तस्य वै ।
तं चाश्वमेधिकं सोऽश्वं समुद्रात्प्राप्य पार्थिवः ॥१५०॥

आजहाराश्वमेधानां शतं चैव पुनः पुनः ।
षष्टिं पुत्रसहस्राणि दग्धान्यस्य रुषा विभो ॥१५१॥

तेषां नारायणं तेजः प्रविष्टानि महात्मनाम् ।
पुत्राणां तु सहस्राणि षष्टिस्तु इति नः श्रुतम् ॥१५२॥

ऋषय ऊचुः
सगरस्यात्मजा नाना कथं जाता महाबलाः ।
विक्रान्ताः षष्टिसाहस्रा विधिना केन वा वद ॥१५३॥

सुत उवाच
द्वेपत्न्यौ सगरस्यास्तां तपसा दगधकिल्बिषे ।
ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥१५४॥

कनीयसी तु या तस्यपत्नी परमधर्मिणी ।
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥१५५॥

और्वस्ताभ्यां वरं प्रादात्तपसाराधितः प्रभुः ।
एका जनिष्यते पुत्रं वंशकर्त्तारमीप्सितम् ॥१५६॥

षष्टिं पुत्रसहस्राणि द्वितीया जनयिष्यति ।
मुनेस्तु वचनं श्रुत्वा केशिनी पुत्रमेककम् ॥१५७॥

वंशस्य कारणं श्रेष्ठं जग्राह नृप संसदि ।
षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तथा ॥१५८॥

महाभागा प्रमुदिता जग्राह सुमतिस्तथा ।
अथ काले गते ज्येष्ठा ज्येष्ठं पुत्रं व्यजायत ॥१५९॥

असमञ्ज इति ख्यातं काकुत्स्थं सगरात्मजम् ।
सुमतिस्त्वपि जज्ञे वै गर्भतुंबं यशस्विनी ॥१६०॥

षष्टिः पुत्रसहस्राणां तुंबमध्याद्विनिस्सृताः ।
घृतपूर्णेषु कुंभेषु तान्गर्भान्यदधात्ततः ॥१६१॥

धात्रीश्चैकैकशः प्रादात्तावतीः पोषणे नृपः ।
ततो नवसु मासेषु समुत्तस्थुर्यथासुखम् ॥१६२॥

कुमारास्ते महाभागाः सगरप्रीतिवर्द्धनाः ।
कालेन महाता चैव यैवनं समुपाश्रिताः ॥१६३॥

केशिन्यास्तनयो योऽन्यः सगरस्यात्मसंभवः ।
असमञ्ज इति ख्यातो वर्हिकेतुर्महाबलः ॥१६४॥

पौराणामहिते युक्तः पित्रा निर्वासितः पुरात् ।
तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान् ॥१६५॥

तस्य पुत्रस्तु धर्मात्मा दिलीप इति विश्रुतः ।
दिलीपात्तु महातेजा वीरो जातो भगीरथः ॥१६६॥

येन गङ्गा सरिच्छ्रेष्ठा विमानैरुपशोभिता ।
इहानीता सुरेशाद्वै दुहितृत्वे च कल्पिता ॥१६७॥

अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः ।
भगीरथस्तु तां गङ्गामानयामास कर्मभिः ॥१६८॥

तस्माद्भागीरथी गङ्गा कथ्यते वंशवित्तमैः ।
भगीरथसुतश्चापि श्रुतो नाम बभूवह ॥१६९॥

नाभागस्तस्य दायादो नित्यं धर्मपरायणः ।
अम्बरीषः सुतस्तस्य सिंधुद्वीपस्ततोऽभवत् ॥१७०॥

पूर्वे वंशपुराणज्ञा गायन्तीति परिश्रुतम् ।
नाभागेरंबरीषस्य भुजाभ्यां परिपालिता ॥१७१॥

बभूव वसुधात्यर्थं तापत्रयविवर्जिता ।
अयुतायुः सुतस्तस्य सिंधुद्वीपस्य वीर्यवान् ॥१७२॥

अयुतायोस्तु दायाद ऋतुपर्णो महायशाः ।
दिव्याक्षहृदयज्ञोऽसौ राजा नलसखो बली ॥१७३॥

नलौ द्वाविति विख्यातौ पुराणेषु दृढव्रतौ ।
वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ॥१७४॥

ऋतुपर्णस्य पुत्रोऽभूत्सर्वकामो जनेश्वरः ।
सुदासस्तस्य तनयो राजा इन्द्रसखोऽभवत् ॥१७५॥

सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ।
ख्यातः कल्माषपादो वै नाम्ना सित्रसहश्च सः ॥१७६॥

वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके ।
अश्मकं जनयामास त्विक्ष्वाकुकुलवृद्धये ॥१७७॥

अश्मकस्यौरसो यस्तु मूलकस्तत्सुतोऽभवत् ।
अत्राप्युदाहरन्तीमं मूलकं वै नृपं प्रति ॥१७८॥

स हि रामभयाद्राजा स्त्रीभिः परिवृतोऽवसत् ।
विवस्त्रस्त्राणमिच्छन्वै नारीकवच ईश्वरः ॥१७९॥

मूलकस्यापि धर्मात्मा राजा शतरथः स्मृतः ।
तस्माच्छतरथाज्जज्ञे राजा त्विडविडो बली ॥१८०॥

आसीत्त्वैडविडः श्रीमान्कृशशर्मा प्रतापवान् ।
पुत्रो विश्वसहस्रस्य पुत्रीकस्यां व्यजायत ॥१८१॥

दिलीपस्तस्य पुत्रोऽभूत्खट्वाङ्ग इति विश्रुतः ।
येन स्वर्गादिहागत्य मुहूर्त्तं प्राप्य जीवितम् ॥१८२॥

त्रयोऽभिसंहिता लोका बुद्ध्या सत्येन चैव हि ।
दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत ॥१८३॥

अजः पुत्रो रघोश्चापि तस्माज्जज्ञे स वीर्यवान् ।
राजा दशरथो नाम इक्ष्वाकुकुलनन्दनः ॥१८४॥

रामो दाशरथिर्वीरो धर्मज्ञो लोकविश्रुतः ।
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ॥१८५॥

माधवं लवणं हत्वा गत्वा मधुवनं च तत् ।
शत्रुघ्रेन पुरी तत्र मथुरा विनिवेशिता ॥१८६॥

सुबाहुः शूरसे नश्च शत्रुघ्नस्य सुतावुभौ ।
पालयामासतुस्तौ तु वैदेह्यौ मथुरां पुरीम् ॥१८७॥

अङ्गदश्चन्द्रकेतुश्च लक्ष्मणस्यात्मजावुभौ ।
हिमवत्पर्वतस्यान्ते स्फीतौ जनपदौ तयोः ॥१८८॥

अङ्गदस्याङ्गदाख्याता देशे कारयते पुरी ।
चन्द्रकेतोस्तु विख्याता चन्द्रचक्रा पुरी शुभा ॥१८९॥

भरतस्यात्मजौ वीरौ तक्षः पुष्कर एव च ।
गान्धारविषये सिद्धे तयोः पुर्यो महात्मनोः ॥१९०॥

तक्षस्य दिक्षु विख्याता नाम्ना तक्षशिला पुरी ।
पुष्करस्यापि वीरस्य विख्याता पुष्करावती ॥१९१॥

गाथां चैवात्र गायन्ति ये पुराण विदो जनाः ।
रामेण बद्धां सत्यार्थां महात्म्यात्तस्य धीमतः ॥१९२॥

श्यामो युवा लोहिताक्षो दीप्तास्यो मीतभाषितः ।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥१९३॥

दशवर्षसहस्राणि रामो राज्यमकारयत् ।
ऋक्सामयजुषां घोषो यो घोषश्च महास्वनः ॥१९४॥

अव्युच्छिन्नोऽभवद्राज्ये दीयतां भुज्यतामिति ।
जनस्थाने वसन्कार्यं त्रिदशानां चकार सः ॥१९५॥

तमागस्कारिणं पूर्वं पौलस्त्यं मनुजर्षभः ।
सीतायाः पदमन्विच्छन्निजघान महायशाः ॥१९६॥

सत्त्ववान्गुणसंपन्नो दीप्यमानः स्वतेजसा ।
अतिसूर्यं च वह्निं च रामो दाशरथिर्बभौ ॥१९७॥

एवमेष महाबाहोस्तस्य पुत्रौ बभूवतुः ।
कुशो लव इति ख्यातो तयोर्देशौ निबोधत ॥१९८॥

कुशस्य कोशला राज्यं पुरी चापि कुशस्थली ।
रम्या निवेशिता तेन विन्ध्यपर्वतसानुषु ॥१९९॥

उत्तराकोशले राज्य लवस्य च महात्मनः ।
श्रावस्तिर्लोकविख्याता कुशवंशं निबोधत ॥२००॥

कुशस्य पुत्रो धर्मात्मा ह्यतिथिः सुप्रियातिथिः ।
अतिथेरपि विख्यातो निषधो नाम पार्थिवः ॥२०१॥

निषधस्य नलः पुत्रो नलस्य तु नाभाः सुतः ।
नभसः पुण्डरीकस्तु क्षेम धन्वा ततः स्मृतः ॥२०२॥

क्षेमधन्वसुतो राजा देवानीकः प्रतापवान् ।
आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ॥२०३॥

अहीन गोस्तु दायादः पारियात्रो महायशाः ।
दलस्तस्यात्मजश्चापि तस्माज्जज्ञे बलो नृपः ॥२०४॥

उलूको नाम धर्मात्मा बलपुत्रो बभूव ह ।
वज्रनाभः सुतस्तस्य शङ्खणस्तस्य चात्मजः ॥२०५॥

शङ्खणस्य सुतो विद्वान् व्युषिताश्व इति श्रुतः ।
व्युषिताश्वसुतश्चापि राजा विश्वसहः किल ॥२०६॥

हिरण्यनाभः कौशल्यो वरिष्ठस्तत्सुतोऽभवत् ।
पौष्यञ्जेश्च स वै शिष्यः स्मृतः प्राच्येषु सामसु ॥२०७॥

शतानि संहितानां तु पञ्च योऽधीतवांस्ततः ।
तस्मादधिगतो योगो याज्ञवल्क्येन धीमता ॥२०८॥

पुष्पस्तस्य सुतो विद्वान्ध्रुवसंधिश्च तत्सुतः ।
सुदर्शनस्तस्य सुतो ह्यग्निवर्मः सुदर्शनात् ॥२०९॥

अग्निवर्णस्य शीघ्रस्तु शीघ्रकस्य मरुः स्मृतः ।
मरुस्तु योगमास्थाय कलापग्राममास्थितः ॥२१०॥

एकोनविंशप्रयुगे क्षत्रप्रावर्त्तकः प्रभुः ।
प्रभुसुतो मरोः पुत्रः सुसंधिस्तस्य चात्मजः ॥२११॥

सुसंधेश्च तथा मर्षः सहस्वान्नाम नामतः ।
आसीत्सहस्वतः पुत्रो राजा विश्रुतवानिति ॥२१२॥

तस्यासीद्विश्रुतवतः पुत्रो राजा बृहद्बलः ।
एते हीक्ष्वाकुदायादा राजानः शतशः स्मृताः ॥२१३॥

वंशे प्रधाना ये तस्मिन्प्राधान्येन तु कीर्त्तिताः ।
पठन्सम्यगिमां सृष्टिमादित्यस्य विवस्वतः ॥२१४॥

प्रजावानेति सायुज्यं मनोर्वेवस्वतस्य सः ।
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ॥२१५॥

विपाप्मा विरजाश्चैव आयुष्माञ्जायतेऽच्युतः ॥२१६॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धात पादे भार्गवचरिते इक्ष्वाकुवंशकीर्त्तनं नाम त्रिषष्टितमोऽध्यायः॥६३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP