संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ चतुर्विशोंऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


राजोवाच

भगवत्र्छोतुमिच्छामि हरेरद्भुतकर्मणः ।

अवतारकथामाद्यां मायामत्स्यविडम्बनम ॥१॥

यदर्थमदधद रुपं मात्स्यं लोकजुगुप्सितम ।

तमः प्रकृति दुर्मर्ष कर्मग्रस्त इवेश्चरः ॥२॥

एतन्नो भगवन सर्व यथावद वक्तुमर्हसि ।

उत्तमश्‍लोकचरितं सर्वलोकसुखावहम ॥३॥

सुत उवाच

इत्युक्तो विष्णुरातेन भगवान बादरायणिः ।

उवाच चरितं विष्णोऽर्मत्स्यरुपेण कृत कृतम ॥४॥

गोविप्रसुरसाधुनां छन्दसामपि चेश्वरः ।

रक्षामिच्छंस्तनुर्धस्ते धर्मस्यार्थस्य चैव हि ॥५॥

उच्चावचेषु भुतेषु चरन वयुरिवेश्चरः ।

नोच्चावचत्वं भजेते निर्गुणत्वाद्धियो गुणैः ॥६॥

आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः ।

समुद्रोपप्लुतास्तत्र लोका भुरादयो नृप ॥७॥

कालेनागतनिद्रस्य धातुः शिशयिषोर्ब्ली ।

मुखतो निःसृतान वेदान हयग्रीवोऽन्तिकेऽहरत ॥८॥

ज्ञात्वा तद दानवेन्द्रस्य हयग्रीवस्य चेष्टितम ।

दधार शफरीरुपं भगवान हरिरीश्वरः ॥९॥

तत्र राजऋषिः कश्चिन्नाम्ना सत्यव्रतो महान ।

नरायणप्रोऽतप्यत तपः स सलिलाशनः ॥१०॥

योऽसवस्मिन महाकल्पेतनयः स विवस्वतः ।

श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः ॥११॥

एकदा कृतमालायां कुर्वतो जलतर्पणम ।

तस्यात्र्जल्युदके काचिच्छफर्येकाभ्यपद्मत ॥१२॥

सत्यव्रतोऽत्र्जलिगतां सह तोयेन भारत ।

उत्ससर्ज नदीतोये शफरीं द्रविडेश्वरः ॥१३॥

तमाह सातिकरुणं महाकरुणिकं नृपम ।

यादोभ्यो ज्ञातिघतिभ्यो दीनां मां दीनवत्सल ।

कथं विसृजसे राजन भीतामस्मिन सरिज्जले ॥१४॥

तमात्मनोऽनुग्रहार्थ प्रीत्य मत्स्यवपुर्धरम ।

अजानन रक्षणार्थाय शफर्याः स मनो दधे ॥१५॥

तस्या दीनतरं वाक्यमाश्रुत्य स महीपतिः ।

कलशाप्सु निधायैना दयालुर्निन्य आश्रमम ॥१६॥

सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ ।

अलब्ध्वऽऽत्मावकाशं वा इदमाह महीपतिम ॥१७॥

नाहं कमण्डलावस्मिन कृच्छं व्स्तुमिहोत्सहे ।

कल्पयौकः सुविपुलं यत्राहं निवसे सुखम ॥१८॥

स एनां तत आदाय न्यधादौदत्र्चनोदके ।

तत्र क्षिप्ता मुहुर्तेन हस्तत्रयमवर्धन ॥१९॥

न म एतदलं राजन सुखं वस्तुमुदत्र्चनम ।

पृथु देहि पदं मह्रां यत त्वाहं शरणं गता ॥२०॥

तत आदाय सा राज्ञा क्षिप्ता राजन सरोवरे ।

तदावृत्यात्मना सोऽयं महामीनोऽन्ववर्धत ॥२१॥

नैतन्मे स्वस्तये राजन्नुदकं सलिलौकसः ।

निधेहि रक्षायोगेन ह्रदे मामविदासिनि ॥२२॥

इत्युक्तः सोऽनयन्मत्स्यं तत्र तत्राविदसिनि ।

जलाशये सम्मितं तं समुद्र प्राक्षिपज्झषम ॥२३॥

क्षिप्यमाणस्तमाहेदमिहं मां मकारदयः ।

अदन्त्यतिबला वीर मां नेहोत्स्रष्टुमर्हसि ॥२४॥

एवं विमोहितस्तेन वद्ता वल्गुभरतीम ।

तमाह को भवानस्मान मत्स्यरुपेण मोहयन ॥२५॥

नैवंवेर्यों जलचरो दॄष्टोऽस्मभिः श्रुतोऽपि च ।

यो भवान योजनशतमह्नाभिव्यानशे सरः ॥२६॥

नुनं त्वं भगवान साक्षाद्धरिर्नारायणोऽव्ययः ।

अनुग्रहाय भुतानां धत्से रुपं जलौकसाम ॥२७॥

नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर ।

भक्तांनां नः प्रपन्नानां मुख्यो ह्रात्मगतिर्विभो ॥२८॥

सर्व लीलावतारास्ते भुतानां भुतिहेतवः ।

ज्ञातुमिच्चाम्यदो रुपं यदर्थं भवता धृतम ॥२९॥

न तेऽरविन्दक्ष पदोपसर्पणं मृषा भवेत सर्वसुहृत्प्रियात्मनः ।

यथेतरेषा पृथगात्मनां सता मदीदृशो यद वपुरद्भुतं हि नः ॥३०॥

श्रीशुक उवाच

इति ब्रुवणं नृपतिं जगत्पतिः सत्यव्रतं मत्स्यवपुर्युगक्षये ।

विहर्तुकामः प्रलयार्णवेऽब्रवीच्चिकीर्षुरेकान्तजनप्रियः प्रियम ॥३१॥

श्रीभगवानुवाच

सप्तमे‍ऽद्यतनादुर्ध्वमहन्येतदरिन्दम ।

निमंक्षंत्यप्ययाम्भोधौत्रैलोक्यं भूर्भिवादिकम ॥३२॥

त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा ।

उपस्थास्यति नौः काचिद विशाला त्वां मयेरिता ॥३३॥

त्वं तावदोषधीः सर्वा बीजान्युच्चावचानि च ।

सप्तर्षिभिः परिवृतः सर्वसत्त्वोपअबृंहितः ॥३४॥

आरुह्रा बृहतीं नावं विचरिष्यस्यविक्लवः ।

एकार्णवे निरालोके ऋषीणामेव वर्चसा ॥३५॥

दोधुयमानां तां नावं समीरेण बलीयसा ।

उपस्थितस्य मे श्रुगें निबध्रीहि महाहिना ॥३६॥

अहं त्वामृषिभिः साकं सहनावमुदन्वति ।

विकर्षन विचरिष्यामि यावद ब्राह्मी निशा प्रभो ॥३७॥

मदीयं महिमानं च परम ब्रह्मोति शब्दितम ।

वेत्स्यस्यनुगृहीतं मे संप्रश्नैर्विवृतं हृदि ॥३८॥

इत्थमादिश्य राजानं हरिरन्तरधीयत ।

सोऽ‍न्ववैक्षतं तं कालं यं हृषीकेश आदिशत ॥३९॥

आस्तीर्य दर्भाग प्राक्कुलन राजर्षिः प्रगुदंमुखः ।

निषसाद हरेः पादौ चिन्तयन मत्स्यरुपिणः ॥४०॥

ततः समुद्र उद्वेलः सर्वतः प्लावयन महिम ।

वर्धमानो महामेघैर्वर्षद्भिः समदृश्यत ॥४१॥

ध्यायन भगवदादेशं ददृशे नावमागताम ।

तामारुरोह विप्रन्द्रैरादायौषधिवीरुधः ॥४२॥

तमुचुर्मुनयः प्रीता राजन ध्यायस्व केशवम ।

स वै नः संकटादस्मादविता शं विधास्यति ॥४३॥

सो‍ऽनुध्यातस्ततो राज्ञा प्रादुरासीन्महार्णवे ।

एकश्रृंगधरो मत्स्यो हैमो नियुतयोजनः ॥४४॥

निबध्य नावं तच्छृडे यथोक्तो हरिणा पुरा ।

वरत्रेणाहिना तुष्टस्तुष्टाव मधुसुदनम ॥४५॥

राजोवाच

अनाद्यविद्योपहतात्मसंविदस्तन्मुलसंसारपरिश्रमातुराः ।

यदृच्छयेहोपसृता यमाप्रुयु र्विमुक्तिदो न परमो गुरुर्भवान ॥४६॥

जनोऽबुधो‍ऽयं निजकर्मबन्धनः सुखेच्छया कर्म समीहतेऽसुखम ।

यत्सेवया तां विधुनोत्यसन्मतिं ग्रन्थिं स भिन्द्यादधृदयं स नो गुरुः ॥४७॥

यत्सेवयाग्नेरिव रुद्ररोदनं पुमान विजह्रान्मलमात्मनस्तमः ।

भजेत वर्णं निजमेष सोऽव्ययो भुयात स ईशः परमो गुरोर्गुरुः ॥४८॥

न यत्प्रसादायुतभागलेश मन्ये च देवा गुरवो जनाः स्वयम ।

कर्तुं समेताः प्रभवन्ति पुंस स्तमीश्वरं त्वां शरणं प्रपद्ये ॥४९॥

अचक्षुरन्धस्य यथाग्रणी कृतस्तथा जनस्याविदुषोऽबुधो गुरुः ।

त्वमर्कदृक सर्वदृशां समीक्षणो वृतो गुरुर्नः स्वागतिं बुभित्सताम ॥५०॥

जनो जनस्यादिशतेऽसतीं मतिं यया प्रपद्येत दुरत्ययं तमः ।

त्वं त्यव्यंयं ज्ञनमामोघमत्र्जसा प्रपद्यते येन जनो निजं पदम ॥५१॥

त्वं सर्वलोकस्य सुहृत प्रियेश्वरो ह्यात्मा गुरुर्ज्ञानमभीष्टसिद्धिः ।

तथापि लोको न भवन्तमन्धधीर्जानाति सन्तं हृदै बद्धकामः ॥५२॥

तं त्वामहं देववरं वरेण्यं प्रपद्य इशं प्रतिबोधनाय ।

छिन्ध्यर्थदीपैर्भगवन वचोभि र्ग्रन्थीन हृदय्यान विवृणु स्वमोकः ॥५३॥

श्रीशुक उवाच

इत्युक्तवन्तं नृपतिं भगवानादिपुरुषः ।

मत्स्यरुपी महाम्भोधी विहरंस्तत्त्वमब्रवीत ॥५४॥

पुराणसंहितां दिव्यां सांख्ययोगक्रियावतीम ।

सत्यव्रतस्य राजर्षेरात्मगुह्रामशेषत ॥५५॥

आश्रौषीदृषिभिः साकामत्मतत्त्वमसंशयम ।

नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम ॥५६॥

अतीतप्रलयापाय उत्थिताय स वेधसे ।

हत्वासुरं हयग्रीवं वेदाय प्रत्याहरद्धरिः ॥५७॥

स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः ।

विष्णोः प्रसादात कल्पेऽस्मिन्नासीद वैवस्वतो मनुः ॥५८॥

सत्यव्रतस्य राजर्षोर्मायामस्त्स्यस्य शांर्गिणः ।

संवादं महदाख्यानं श्रृत्वा मुच्येत किल्बिषात ॥५९॥

अवतारो हरिर्योऽयं कीर्त्येदन्वहं नरः ।

संकल्पास्तस्य सिध्यान्ति स याति परमां गतिम ॥६०॥

प्रलयपयासि धातुः सुप्तशक्तेर्मुखेभ्यः श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा ।

दितिजमकथयद यो ब्रह्मा सत्यव्रतानां तमहमखिलहेतुं जिह्रामीनं नतोऽस्मि ॥६१॥

इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्रयां पारमहंस्यां संहितायामष्टमस्कन्धे मत्स्यावतारचरितानुवर्णनं नाम चतुर्विंशो‍ऽध्यायः ॥२४॥

॥ इत्यष्टमः स्कन्धः ॥

॥ हरिः ॐ तत्सत ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP