संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथम खण्डः : अष्टमः स्कन्धः|

अष्टमः स्कन्धः - अथ चतुर्दशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


राजोवाच

मन्वन्तरेषु भगवन्यथा मन्वादयस्त्विमे ।

यस्मिन्कर्मणि ये येन नियुक्तास्तद्वदस्व मे ॥१॥

ऋशिरुवाच

मनवो मनुपुत्राश्च मनुयश्च महिपते ।

इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः ॥२॥

यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप ।

मन्वादयो जगद्यात्रां नयन्त्याभिः प्रचोदिताः ॥३॥

चतुर्युगान्ते कलेन ग्रस्तात्र्छुइगणान्यथा ।

तपसा ऋषयोऽपश्यन्यतो धर्मः सनातनः ॥४॥

ततो धर्म चतुष्पादं मनवो हरिणोदिताः ।

युक्ताः सत्र्चरयन्त्यद्धा स्वे स्वे कालें महीं नॄप ॥५॥

पालयन्ति प्रजापाला यावदन्तं विभागशः ।

यज्ञभागभुजो देवा ये च तत्रान्विताश्च तैः ॥६॥

इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमुर्जिताम ।

भुत्र्जान पाति लोकास्त्रीनं कामं लोके प्रवर्षति ॥७॥

ज्ञानं चानुयुगं ब्रुते हरिः सिद्धस्वरुपध्रुक ।

ऋषिरुपधरः कर्म योगं योगेशरुपधृक ॥८॥

सर्गं प्रजेशरुपेण दस्युन्हन्यात स्वरांवपुः ।

कालरुपेण सर्वेषामभावाय पृथग्गुणः ॥९॥

स्तुयमानो जनैरेभिर्मायया नामरुपया ।

विमोहितात्मभिर्नानादर्शनैर्न च दृश्यते ॥१०॥

एतत कल्पविकल्पस्य प्रमणं परिकीर्तितम ।

यत्र मन्वन्तराण्याहुश्चतुर्दश पुराविदः ॥११॥

इति श्रीमद्बागवते महापुराणे परमहंस्यां संहितायामष्टमस्कन्धे चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP