संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ९९

विष्णुधर्माः - अध्याय ९९

विष्णुधर्माः


अथैकोनशततमोऽध्यायः ।
शतानीक उवाच ।
कथितं योगमाहात्म्यं भवता मुनिसत्तम ।
स्वरूपं तु न मे प्रोक्तं श्रोतुमिच्छामि तद्ध्यहम् १

शौनक उवाच ।
द्वैविध्यं नृप योगस्य परं चापरमेव च ।
तच्छृणुष्व वदाम्येष वाच्यं शुश्रूषतां सताम् २

यो दद्याद्भगवज्ज्ञानं कुर्याद्वा धर्मदेशनाम् ।
कृत्स्नां वा पृथिवीं दद्यान्न तत्तुल्यं कथञ्चन ३

क्षयिष्णून्यपराणीह दानानि मनुजाधिप ।
एकमेवाक्षयं शस्तं ज्ञानदानमनुत्तमम् ४

दानान्येकफलानीह त्रैलोक्ये ददता सताम् ।
ज्ञानं प्रयच्छता सम्यक् किं न दत्तं भवेन्नृप ५

ज्ञानान्यन्यान्यसाराणि शिल्पिनीव नरेश्वर ।
एकमेव परं ज्ञानं यद्योगप्राप्तिकारकम् ६

अहं वक्ता भवाञ्श्रोता वाच्यो योगो विमुक्तिदः ।
प्राणिनामुपकाराय सम्पदेषा गुणाधिका ७

परेण ब्रह्मणा सार्धमेकत्वं यन्नृपात्मनः ।
स एव योगो विख्यातः किमन्यद्योगलक्षणम् ८

अपरं च परं चैव द्वौ योगौ पृथिवीपते ।
तयोः स्वरूपं वक्ष्यामि तदिहैकमनाः शृणु ९

सत्तामात्रं परं ब्रह्म विष्ण्वाख्यमविशेषणम् ।
दुर्विचिन्त्यं यतः पूर्वं तत्प्राप्त्यर्थमथोच्यते १०

वातालीचञ्चलं चित्तमनालम्बनमस्थिति ।
सूक्ष्मत्वाद्ब्रह्मणो राजन्नग्राह्यग्राह्यधर्मिणः ११

सम्यगभ्यस्यतोऽजस्रमुपवृंहितशक्तिमत् ।
जन्मान्तरशतैर्वापि ब्रह्मग्राह्यभिजायते १२

यद्यन्तराय दोषेण नापकर्षो नराधिप ।
योगिनो योगरूढस्य तालाग्रात्पतनं यथा १३

ज्ञानं प्रयच्छतां सम्यक् किं वदतु भवेन्नृप ।
तदाप्नोति परं ब्रह्म क्लेशेन महता नृप ।
जन्माभ्यासान्तरोत्थेन विज्ञानेन समेधितः १४

विष्ण्वाख्यं ब्रह्म दुष्प्रापं विषयाकृष्टचेतसा ।
मनुष्येणेति तत्प्राप्तावुपायमपरं शृणु १५

सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् ।
कृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः १६

तस्याश्च लक्षणं भूप शृणुष्व गदतो मम ।
यद्द्रव्या यत्स्वरूपा च कर्तव्या ध्यानकर्मणि १७

सुवर्णरूप्यताम्रैस्तु आरकूटमयीं तथा ।
शैलदारुमृदा वापि लेख्यजां वापि कारयेत् १८

कार्यस्तु विष्णुर्भगवान्सौम्यरूपश्चतुर्भुजः ।
सलिलाध्मातमेघाभः श्रीमाञ्श्रीवत्सभूषितः १९

आबद्धमकुटः स्रग्वी हारभारार्पितोदरः ।
स्वक्षेण चारुचिपुकः सुललाटेन सुभ्रुणा २०

स्वोष्ठेन सुकपोलेन वदनेन विराजता ।
कण्ठेन शुभलेखेन वराभरणधारिणा २१

नानारत्नानतार्ताभ्यां श्रवणाभ्यामलङ्कृतः ।
पुष्टश्लिष्टायतभुजस्तनुताम्रनखाङ्गुलिः २२

मध्येन त्रिवलीभङ्गभूषितेन च चारुणा ।
सुपादः सूरुयुगलः सुकटीगुल्फजानुकः २३

वामपार्श्वे गदादेवी चक्रं देवस्य दक्षिणे ।
शङ्खो वामकरे देयो दक्षिणे पद्म सुप्रभम् २४

ऊर्ध्वदृष्टिमधोदृष्टिं तिर्यग्दृष्टिं न कारयेत् ।
निमीलिताक्षो भगवान्न प्रशस्तो जनार्दनः ।
सौम्या तु दृष्टिः कर्तव्या किञ्चित्प्रहसितेव च २५

कार्यश्चरणविन्यासः सर्वतः सुप्रतिष्ठितः ।
चरणान्तरसंस्था च बिभ्रती रूपमुत्तमम् ।
कार्या वसुन्धरा देवी तत्पादतलधारिणी २६

यादृग्विधा वा मनसः स्थैर्यलम्भोपपादिका ।
नृसिंहवामनादीनां तादृशीं कारयेद्बुधः २७

ब्रह्म तस्यां समारोप्य मनसा तन्मयो भवेत् ।
तामार्चयेत्तां प्रणमेत्तां स्मरेत्तां विचिन्तयेत् २८

तामर्चयंस्तां प्रणमंस्तां स्मरंस्तां च चिन्तयन् ।
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् २९

सङ्कल्पनक्रियारूढः स्वरूपेण नृपात्मनः ।
कुर्वीत भावनां तत्र तद्भावोत्पत्तिकारणात् ।
नान्यत्र मनसानेया बुद्धिरीषदपि क्वचित् ३०

यमैश्च नियमैश्चैव पूतात्मा पृथिवीश्वर ।
मूर्तिं भगवतः संयक् पूजयेत्तन्मयः सदा ३१

इति विष्णुधर्मेषु मूर्तिलक्षणम् ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP